०२ सारनिष्कर्षाधिकारः

श्रीः

श्रीमते निगमान्तमहादेशिकाय नमः

सारनिष्कर्षाधिकारो द्वितीयः

(अधिकारार्थसंग्रहोपक्रम श्लोकः)

श्रुतिपथ विपरीत क्ष्वेलकल्पं श्रुतौ च प्रकृतिपुरुषभोगप्रापकांशो न पथ्यः । तदिह विबुधगुप्तं मृत्युभीता विचिन्व- न्त्युपनिषद मृताब्धेरुत्तमं सारमार्याः ॥

(रहस्यत्रयस्यैव मुमुक्ष्वादरणीयत्वम् )

1

अस्मिन् रहस्यत्त्रये श्रीमन्त्रस्य " " सर्वमष्टाक्षरान्तस्स्थम् "

इत्य्-उक्त-रीत्या स्वार्थे ज्ञाते

सर्वार्थज्ञापनस्वभावतयाऽवस्थानात्, चरमश्लोकस्य "" सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज" इति स्वोक्तस्योपायस्यैकस्यैवावलम्बने सर्वोपायफलसिद्धिर्भवतीत्यर्थ स्थाप- कत्वात्, द्वयस्य च कठश्रुत्याद्युक्तरीत्या स्वं सकृदुच्चारितवतो विषये सर्वप्रकारकृतकृत्यत्वापादनौपयिकवैभववत्त्वाच्च रहस्यत्रयमेव मुमुक्षुणा

आदरणीयम् ।

(असारापसारादिविवेचनम् ) “असारमल्पसारञ्च सारं सारतरं त्यजेत् ।

भजेत् सारतमं शास्त्रे रत्नाकर इवामृतम् ॥”

२०

सारनिष्कर्षाधिकारः (2)

परमपुरुषार्थस्य तदुपायस्य च प्रत्यक्षादिप्रमाणैर्दुर्ज्ञानतया, एतयोर्विषये “ शास्त्राद्वेद्मि जनार्दनम् " "” तस्माच्छास्त्रं प्रमाण ते कार्याकार्यव्यवस्थितौ” “शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति" इत्य्-उक्त-रीत्या शब्द एव प्रमाणम् ॥

तत्र "" अनन्तपारं बहु वेदितव्यमल्पश्च कालो बहवश्व विघ्नाः । यत् सारभूतं तदुपाददीत हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥” इति श्लोके सारभूतमिति पदेन प्रतिपन्नः (नं) निरुपाधिकसारं विपयीकुर्वन् सारतम शब्द उपादेयः । बाह्यकुदृष्टिशास्त्राण्यत्यन्ता- सारत्वादनुपादेयानि । वेदे पूर्वभागे ऐहिकफलसाधनप्रतिपादकः प्रदेशो ऽत्यल्प सारत्वादनुपादेयः । आमुष्मिकफलसाधनप्रतिपाद- कांशः ऐहिकफलातिशयितफलकत्वात् केषाञ्चित् सारत्वेन सुवचोऽपि दुःखमूलत्वादिदोषदुष्टत्वादनुपादेयः । आत्मतत्प्राप्ति- तत्साधनमात्रप्रतिपादकः अंशोऽपि सारतरः सन्नपि ततोऽप्य- त्यन्तातिशयितपरमात्मानुभवसापेक्षाणामनुपादेयः । परमात्म- तत्प्राप्तितदुपायप्रकाशकः प्रदेशः सारतमत्वाद्विवेकिन उपादेयः ॥

(तत्रापि रहस्यत्रयस्यैवात्यन्तोपादेयत्वम् )

तत्राप्यंशे प्रधानप्रतितन्त्राणां तच्वहितानां संग्रहरूप- त्वादत्यन्तं सारतमं भवति रहस्यत्रयम् । अतः "" बहुभ्यश्च महद्भयश्च शास्त्रेभ्यो मतिमान् नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥" इत्य्-उक्त-रीत्या रहस्यत्रयं मुमुक्षोरस्याऽऽत्मनोऽत्यन्तमुपादेयं भवति ॥सारनिष्कर्षाधिकारः (2)

(अधिकारार्थसंग्राहकगाथा)

२१

1 (गाथा) अपर्याप्तानीमानीत्याशया लोके (अभ्यस्यमानेषु ) अष्टादशसु भारायमाणेषु विद्यास्थानेषु परित: (ग्राह्यत्वाय) समागतेष्वपि, संख्यापूरकाणीमानीति (निश्चित्य) अनिमेषैर्देवैः स्तुतमष्टकं द्वयं च गणयन्तोऽस्मत्समयाचार्याः चातुर्ययुतां विलक्षणां स्थिति दिदिशुः ॥

(अधिकारार्थ संग्राहकपद्यम् )

शाखानमुपरिस्थितेन मनुना मूलेन लब्धात्मकः सत्ता हेतु सकृज्जपेन सकलं कालं द्वयेन क्षिपन् । वेदोत्तंस विहार सारथिदयागुम्भेन विस्रम्भितः

सारज्ञो यदि कश्चिदस्ति भुवने नाथः स यूथस्य (स्स) नः ॥

इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य

श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरहस्यत्रयसारे सारनिष्कर्षाधिकारी द्वितीयः ॥ श्रीमते निगमान्तमहा देशिकाय नमः

01

1 अमैयाविवै पन्नुमा शैयिनाल अरुमूत्रलहिल शुमैयान कल्विहलू शूड़वन्दालुम्, तोंहै यिवे येत्र इमैयाविमैयवरेत्तिय एट्टिरण्डेण्णिय नम् शमयाशिरियर शदिर्कु तनिनिलै तन्दनरे ॥