श्रीः
अथ श्रीरहस्यत्रयसारः
प्रथम उपोद्घाताधिकारः
( मङ्गलाचरणम् )
आभगवत्तः प्रथितामनघामाचार्य सन्तति वन्दे | मनसि मम यत्प्रसादात् वसति रहस्यत्रयस्य सारोऽयम् ॥५॥ कर्मत्रमात्मके शास्त्रे कौस्कुतनिवर्तकान् ।
वन्दे हस्तिगिरीशस्य वीथीशोधककिङ्करान् ॥ ६ ॥
(ग्रन्थार्थ संग्रहगाथा)
1(गाथा) रक्षेत् न्यासभूतान् अस्मानिति पङ्कजवासिनीवल्लभचरण– युगलमाश्रित्यास्माकमपि तद् दत्तवद्भिर्दयालुभिः, विजृम्भमाणानां तमसा-
विनाशनार्थमभिनिविश्योपदिष्टस्य (रहस्य) त्रयस्य
तात्पर्यमनुदिनं
सम्यगनुभवितुमत्रास्माकमसदृशो विधिरुपनतो भवति ॥ ७ ॥
(प्रथमाधिकारार्थसंग्रहश्लोकः)
मणिवर इव शौरेर्नित्यहृद्योऽपि जीवः
कलुषमतिरविन्दन् किङ्करत्वाधिराज्यम् ।
1 आलुम डैकलमेत्रेम्मै अम्बुयत्ताल कणवन् ताळिणे दु एमक्कुमवै तन्द तहवुडैयार मूळमिरुळकळ् विल्ल मुयत्रोदिय मूत्रिनुल्लं नाळमुहकूकविंगे नमक्कोर विधि वायवित्रदे ।
श्रीरहस्यत्रयसारे
विधिपरिणति भेदाद्वीक्षितस्तेन काले गुरुपरिषदुपज्ञं प्राप्य गोपायति स्वम् ॥ ७ ॥
(जीवात्मनः स्वाभाविकाकारनिरूपणम् )
श्रियः पत्युः सर्वेश्वरस्य श्रीकौस्तुभस्थानीयः सन्, हृहयंगमः “कुमार” इति “पुत्र” इति “प्रेष्य” इति “शेषभूत” इति “दासभूत” इति च ततच्छास्त्रेषु प्रतिपन्नोऽस्ति जीवात्मा । (जीवात्मनः पूर्णपरतत्त्वानुभवार्हतानिरूपणम्)
अस्मिन् —
62
स्वस्य स्वभावप्राप्तशेषिणः, अज्ञानशून्यानाममराणामधिपतेः निरतिशयातिशयितानन्दवतः अस्माकं पुष्पवासिन्याः पूर्णायाश्च स्निग्धस्य, भौमानां परमव्योमस्थानां च स्वामिनः सर्वेश्वरस्य, “वेकुण्टे 1 तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते” इति, उज्ज्वल हस्त- वलयायां श्रियां त्वयि चैव सुस्थितयोः" इति चोक्तरीत्या श्रीमहालक्ष्म्या सह निर्मले परमव्योम्नि ““याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता” इत्येवम् अयोध्यादिशब्दवाच्यायामक्षोभ्यमहानगर्यां सहस्रस्थूणादिवाक्याम्नाते श्रीमहामणिमण्टपे कौपीत कित्राह्मणा- द्याम्नाते पर्यङ्कविशेषे गमने छत्रं भवति आसिकायां सिंहासन भवति” इति “निवासशय्यासन” इति चोक्तरीत्या सर्वदेश- सर्वकालसर्वावस्थोचितानां सर्वविधकैङ्कर्याणां सर्वविधशरीरैरनु- ‘भवेन शेषत्वस्यैव स्वनिरूपकत्वादन्वर्थशेषाभिधाने, श्रीमदनन्तसूरिरूप- 2 ‘ओण तोडियाळतिरुमहळु नीयुमे निलानिर्प (तिरुवायू 4-9-10) 4 ‘शेनाल कुडैयाम् इन्दल शिंगाशनमाम्’ (प्रथमान्तादि 53 ) -
उपोद्घाताधिकारः ( 1 )
१५
श्री शय्याविशेषे परमव्योमयुवराजरूपेण विराजमानखपरिपार्टी सर्वात्मानो- ऽप्यनुभूय कृतार्था भवन्त्विति सहृदयतया स्थितस्य स्थिति तां हेतुमवलम्ब्य नित्यानुभवं कुर्ताणैरनन्तमहानन्ददासैर्नित्यसूरिभिः सह अविशेषेण स्वरूप योग्यतया (दायस्येव )
स्वामिकैङ्कर्यस्य
स्वयमपि सहजप्रात्प्त्यर्हेऽपि-
( जीवात्मनो विपरीताकार स्थितेर्निरूपणम्) अनादिमायया सुप्ते, "" अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् मोहश्रमं प्रयातोऽसौ वासनारेणुकुण्ठितः ॥" इत्य्-उक्त-रीत्या प्रकृतिरूपे मरुकान्तारे निपत्य धावं घावं बहूनि जन्मानि प्राप्य पुरुषार्थमनासाद्य आवलम्बमलब्ध्वा मालिन्यमुपेत्य ज्ञानहान्या तत्त्वहितविषययथाव- स्प्रकाशरहिते सति —
(राजकुमारदृष्टान्तवर्णनम् )
यथा कस्मिंश्चिद्राज्ञि अन्तःपुरेण सह मृगयार्थं निष्क्रम्य मृगया- विहारे विशेषसक्ते जाते भाषाज्ञानात्प्रागेव मार्गाद् भ्रष्टो राजकुमारो ग्रहीतृजनहस्तगतशिशुः सन् यस्मिन् कस्मिंश्चित् कुटीरे वर्धमानोऽस्वकीयां शबरत्वादिजातिं स्वस्मिन् आरोप्य “7 माताऽप्येका पिताऽप्येको मम तस्य च पक्षिणः । अहं मुनिभिसनीतः स चानीतो गवाशनैः ॥ अहं मुनीनां वचनं शृणोमि गवाशनानां स वचः श्टणोति । प्रत्यक्षमेतम् भवताऽपि दृष्टं संसर्गजा दोषगुणा भवन्ति ॥" इत्य्-उक्त-रीत्या व्याघश्रेणी स्थशुकवत्तदभ्यासितां वाणीमेव खवाणीत्वेन तदौरसवत् सद्भक्ष्यजीविके (वृत्ती) एव स्वमक्ष्यजीविकात्वेन श्रयन् खजात्युचि- तेषु भोगेषु आचारसंस्कारादिषु च प्राथमिकज्ञानेनापि शून्यो
१६
श्रीरहस्यत्रयसारे
राजभोगविरुद्धेषु जुगप्सितविषयेषु स्वस्य लाभहानिभ्यां हर्षशोकौ आवहन्, अयं राजकुमारः इति स्वकीयां जाति जानानेषु केषुचिद् ऋपिप्रायेषु सत्स्वपि तदुपसर्पणानर्हामवस्थां विभ्रत्, एवं भ्रान्ति सिद्धशवरत्वाद्यवस्थया सह यावज्जीवं वर्तने उत्तरजन्मस्वपि योग्यताप्राप्तिविषये उपायशून्यः प्रतिबद्धपुरुषार्थश्चावतिष्ठेत-तथा- ऽस्मिन्नपि देहात्माभिमानादिभिः स्वस्वरूपं हित्वा पररूपमारोप्य स्थिते सति-
(राजकुमारदृष्टान्तेनैव जीवात्मनो धार्मिक सहवास तत्फलवर्णनम् )
यथा तस्य राजकुमारस्य लक्षणादिभिर्जातिविशेषमभि- जानन्तः केचन धार्मिकाः केनचिदुपायेनैनं वशीकृत्य अभिमानं कृत्वा अन्याऽऽगन्तुकं जात्यन्तराभिमानं निराकृत्य दृष्टादृष्टसंस्कारादिभिरुत्तरो- तरभोगतदुपाययोग्यतापादकमुपायें कृत्वा अस्मिन् स्वजात्यनुरूपाणि गुणवृत्तानि स्वोपदेशानुष्ठानाभ्यां सुस्थिरं निवेश्य अस्यानेकदोषदु- ष्टेषु शवरादिभोग्यक्षुद्र विषयेषु जुगुप्सामुपजनय्य राजादिभोग्याना- मतिशायितपुरुषार्थानां विवेचनपूर्वकोपादानप्रयोजकं ज्ञानमुत्पाद्य स्थापयेयुः, तथा इममात्मानं केषुचित् धार्मिकेषु पित्रादिमुखेन संभाष्य, पुमान् न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपै- ते कर्मयोनयः ॥" इत्य्-उक्त-रीत्या देहविलक्षणैतत्स्वरूपस्थिति प्रबोध्य तद- नुरूपपुरुषार्थतदुपायेष्वन्वयोपपादकमुपायें कृत्वा देहकबलीकृतस्वरूप- त्वदशाहा[१]नपूर्वकं प्रकाशातिशयविशेषसंपन्नानां संभवन्ति गुण- वृत्तान्युत्पाद्य हेयोपादेयविभागक्षमं कृत्वा स्थापितवत्सु सत्सु -
उपोद्घाताधिकारः (1)
( जीवात्मन आचार्य संबन्धत दुपदेशादि)
१७
इदमीयां प्राथमिकस्थितिं धार्मिक विशेष सहवासप्रभवां योग्यतां बुद्धिमत्तां च स्वयं साक्षात्कृत्य परमकारुणिकेन परमशेषिणा प्रेरितैः स्वयं च कारुणिकोत्तमैः सद्भिः कैश्चिदेशिकै:-
“ईश्वरस्य च सौहार्द यदृच्छासुकृतं तथा । विष्णोः कटाक्षमद्वेष- माभिमुख्यं च सात्त्विकैः । संभाषणं षडेतानि ह्याचार्यप्राप्तिहेतवः " -इत्य्-उक्त-रीत्या यदृच्छया सन्निधाय — यथा तस्य राजकुमारस्य कैश्चित् राजान्तरङ्गैर्यदृच्छया सन्निधाय जन्मतत्त्वमवगमय्य भावीनि प्रियतमानि हिततमानि च विशदं ज्ञापयित्वा केनचिदुपायविशेषेण तस्य राज्ञो राज- कुमारस्य च परस्परसंश्लेषाकोत्तभ्येत – तथाऽस्यापि “10 नायं देवो न मर्त्यो वा न तिर्यक् स्थावरोऽपि वा । ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मनः ॥” इति, “11 दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः " इत्येवं च प्रमाणैः प्रतिपादितदिशा, जृम्भमाणसमुद्रपरिवृतां भुवं परमा- काशलोकं च निश्शेषं परिपालयता सत्प्रभुणा श्रियः पत्या नारायणेन सह खाभाविकसहजसंबन्धं विशदं ज्ञापयित्वा अस्य तत्प्राप्त्युपायेषु प्रयस्य-
एतल्लभ्यं पुरुषार्थमेव स्वस्य कृत्स्नदिव्य विभूतिलीलाविभूतिपालन-
रूपमभिनन्द्य,
तन्मूलकं तदात्वप्रसूतवत्सगोचरवात्सल्यशालिक्षीरक्षरणोद्यतधेनु- न्यायेन एभिर्देशिकैः (देशिकीभूयेत्यर्थः) अस्य जीवात्मनोऽज्ञानसंशयनि- वृत्तिमभिसन्धाय अनतिविस्तरसंक्षेपं उच्यमानैः (आविर्भाव्यमानैः) वचनैः " तत्त्वेन यश्चिदचिदीश्वरतत्स्वभाव” इत्याद्युक्तरीत्या ईश्वरस्ये- शितव्यानां च स्वरूपस्वभावसंबन्धाः भोगापवर्गे त्याज्योपादे-
12
2
१८
उपोद्घाताधिकारः
यैतदुपायाः एषां गतिप्रकाराः उक्तानुक्ता मोक्षविरोधिन इत्येते ऽर्था:- मुमुक्षुणा एनेनाऽऽत्मना ज्ञातव्याः ।
(एषामर्थानां रहस्यत्रयप्रतिपाद्यत्वोपक्षेपः)
एतेऽर्थाः सर्वेऽपि अध्यात्मविषपशब्दराशौ सारतमे रहस्यलये प्रतितन्त्रसारोद्धारेण संगृह्यन्ते ( संगृहीताः सन्ति) |
(अधिकारार्थसंग्रहगाथा )
1 (गाथा) श्रिया सह आविर्भूतस्य श्लाघ्यमणेरिव [अस्माकं ] लक्ष्मीवल्लभहृदयं सप्रेमवासस्थानमिति यथेोच्येत, तथा चरणारविन्दोत्तंसन- भाग्यं प्राप्तवन्तो वयम् आगर्भानुवृत्तक्रूरकर्मनद्यां निपत्य यथा न प्रोद्येमहि, तथा कृपां कर्तुं सूक्ष्मार्थेन सह पञ्चकज्ञाः समुपनताः सन्ति हि ॥ ८ ॥ (अधिकारार्थसंग्रहपद्यम् )
कर्माविद्यादिचक्रे प्रतिपुरुषमिहानादिचित्रप्रवाहे तत्तत्काले विपत्तिर्भवति हि विविधा सर्वसिद्धान्तसिद्धा । तल्लब्धस्वावकाशप्रथमगुरुकृपागृह्यमाणः कदाचित् मुक्तैश्वर्यान्तसंपविधिरपि भविता कविदित्थं विपश्चित ॥
इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्रहस्यत्रयसारे उपोद्घाताधिकारः प्रथमः ॥
॥ श्रीमते निगमान्तमदादेशिकाय नमः ॥
तिरुवुडन बन्द शेडमणिपोल तिरुमालिदयम् मरुविडमेन्न मलंरडि शूडुं वह पेरुना, करुवुडन् वन्द कविने यार्द्विले विडुन्दो- डहादु अरु उनैन्दरिवार अरुलशेय्य अमैन्दनरे ॥