१२ संस्कृतानुवादकीय-मङ्गलाचरणादि

श्रीः

(श्रीमद्रहस्यत्रयसार-संस्कृतानुवादकीय-मङ्गलाचरणादि)

श्रीमद्भिः शेषतार्क्ष्यप्रमुखसुरवरैरेकतः सेव्यमानं सेनेशश्रीशठारिप्रभृतिभिरनधैश्चान्यतः सूरिवृन्दैः ।

श्रीभूनीलाभिजुष्टं प्रसृमरकरुणापाङ्गमानन्दरूपं वन्दे पादारविन्दप्रणतपरवशं दिव्यधामाधिनाथम् ॥ सर्वाभीष्टफलप्रदानचतुरो भक्तत्रजानां सदा धर्मादींश्चतुरः पुमर्थनिवहान् यो दातुकामो भृशम् । बिभ्राणश्चतुरो भुजान् करुणया जागर्ति शेषाचले वन्दे तं हृदयाभिरामवपुषं श्रीवेङ्कटेशं हरिम् ॥ श्रीपादश्रितसद्गताखिलतम स्सूर्यायितानुग्रह- प्राज्ञाग्रेसरनाथयोगियमुनाजन्मादिभिर्भूषितम् । श्रीरामानुजयोगिवर्यनिगमान्ताचार्यगोपालसू- र्यादिश्रीगुरुवर्धित प्रथमहं वन्दे गुरूणां कुलम् ॥ हृप्यद्वैतुकवादिवर्गकुमतिक्षीबोक्तिसंक्षोभितं वेदान्तार्थसुधापयोधिमतलस्पर्श बुधानामपि ।

गाहन्ते सुधियोवगाह्य विमलं यत्सूक्तितीर्थान्तरं तं रामानुजयोगिपुङ्गवमहं सेवे कृपावारिधिम् ॥

[[२]]

विद्यावित प्रदानत्रतहयवदनब्रह्मपादारविन्द- द्वन्द्वध्यानैकतानस्तदमित करुणावाप्तवैदुष्यभूमा । यस्तादृक्षस्वदाक्ष्यक्ष पितबहुविधावद्यदुर्वादिपक्ष- स्तं वन्दे वेदचूडा गुरुवरमखिलोज्जीवनार्थावतारम् ॥ ब्रह्मज्ञानप्रदत्वादघपरिहरणादच्छसंविन्मयत्वात् आनन्दैकाकृतित्वादमितशुभगुणालङ्कृतत्वाद्विभुत्वात् ।

नित्यं सत्यव्रतत्वात्सकलबुधकुलाभ्यर्चितत्वात् वशित्वात् श्रीमच्छ्रीरङ्गरामानुजगुरुमनिशं विष्णुरूपं नमामि ॥

कवितार्किकपञ्चास्यैर्घण्टांशैर्वेङ्कटे शितुः । स्वतन्त्रैः सर्वतन्त्रेषु श्रीमद्वेदान्तदेशिकैः ॥

श्रीमद्वेङ्कटनाथायैर्लोकोज्जीवनहेतवे ।

रचितेषु रहस्येषु द्राविडी संस्कृतात्मना ॥

रहस्यलयसाराख्यं रहस्यं लोकविश्रुतम् ।

सर्वशास्त्रार्थसारेण संभृतं परमाद्भुतम् ॥

श्रीरङ्गरामावर जयतीन्द्रचरणाश्रितः ।

वात्स्योsहं नीलमेघार्यः संस्कृतेन विवर्तये ॥