1 इत्थं व्याख्येयभागेषु
बहुष्वन्येषु सत्स्वपि ।
अवकाशानुरूप्येण
केचिदशाः प्रदर्शिताः ॥
2 अथाष्टाक्षर-मन्त्रार्थ-
योजनारीतिरुच्यते ।
वाक्यैकत्वे द्वे, द्वितायां तिस्रः, त्रित्वे व पञ्च ताः ॥ 3 नारायणे स्यादोंकारवाच्ये में शरणागतिः । नारायणे स्यादोमर्थे कैङ्कर्यात्मा नमस्क्रिया ॥ 4 आय नारायणायैवाहं न मे त्विति तत्त्वधीः ।
अहं समर्पितोऽस्म्याय तस्मै नास्मि भरो मम ॥ 5 आय नारायणाय स्यां दासोऽनिष्टं न मे भवेत् । आयास्मि शेषो न मम, स्यां नारायणदास्यकृत् ॥ 6 आयैवाहं माऽस्त्वनिष्टं दास्यं नारायणेऽस्तु मे । आयैवाहं पमानिष्टं क्षिप त्वद्दास्यदो भव ॥ 7 आयार्पितोऽहं माऽनिष्टं स्यान्नारायणदासता ।
आयैवाहं प्रपद्ये तं तत्कर्य सदाऽस्त्विति ॥ 8 एवं दशभिरधैस्तु दर्शिताः दश योजनाः ।
आदिमा योजना त्वासु स्यादुपायैक बोधिनी ॥ 9 द्वितीया पुरुषार्थैकपरा तत्त्वपरा परा ।
अन्वयव्यतिरेकाभ्यां तुरीया त्वर्पणार्थिका ॥ 10 पुरुषार्थप्रार्थनैव पञ्चम्यां क्रियते द्विधा ।
षष्ठयां द्वयं स्वरूपार्थ शेषेण च फलार्थना ॥11 आद्यञ्चाथ स्वरूपार्थ शेषाभ्यां द्विविधे फले ।
आद्ये स्वरूपं शेषाभ्यां गोप्तृत्ववरणं द्विधा ॥ 12 आद्ये समर्पणं शिष्टे फलार्थनपरे उभे ।
तत्वोपाय पुमर्थानां दशम्यां बोधनं क्रमात् ॥ 13 संपादको वात्स्यचक्रवर्ती श्रीवीरराघवः ।
संगृह्यार्थान् मूलमन्त्रयोजनाश्च समग्रहीत् ॥