पु.
- क्षत्रबन्धुः - एतच्चरितं विष्णुधर्मे 97
पुण्डरीकः भा. अनु. 106; इति. समु. 81. 128
- कठजावालादिश्रुतिष्विति । अत्र, ‘यस्य देवे परा भक्तिः
। यथा देवे तथा गुरौ । तस्यैतेऽकथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ इति श्वेताश्वतरश्रत्यर्थोऽभिमतः । छान्दोग्ये जाबालसत्यकामस्य वाक्यम्, “आचार्यद्वैव विद्या विदिता साधिष्ठं प्रापत्" इति ।
सञ्जयेति । ‘शुद्धभावं गतो भक्तया शास्त्र । वेद्मि जनार्दनम्’ इति, ‘व्यासप्रसादात् श्रुतवान् एतद्गुह्यमहं परम्’ इति च ।
रैक्वेति । छान्दोग्ये संवर्गविद्यायां रैक्वजानश्रुत्युपाख्यानम् ।
गुरुं प्रकाशयेदिति श्लोके उक्ते संपदायुषी उपरि शिष्यकृत्याधि- कारे (421) ‘ज्ञानवैशद्यपूर्विका भगवदनुभवसंपत् यात्मसतानु- वृतिहेतुः शेषत्वानुसंधानपूर्वक स्वनिष्ठा च’ इति विवृते ।
- चतुर्विधायां भुवीति । द्रामिडैः भूमिः पञ्चधा विभज्यते, कुरिञ्जि (पर्वत), मरुदम् (केदार), मुलै (वनम् ), नेय्दल (अर्णवादि), पालै (मरुपदेशः) इति । पर्वतादयः तत्तत्प्रान्तदेशविशिष्टाः प्रायाः । नरुप्रदेशस्य मनुष्यवासानर्हत्वात् तद्वजै भूभागचतुष्टयमिह गृह्यते ।
[[६]]
कतिपय विवरणम्
- गुरुपरिषदुपज्ञमिति । उपज्ञायत इत्युपज्ञा । समासे की बता । तदुपज्ञं यथा तथेति प्राप्तिक्रियाविशेषणात् गुरुमुखात् प्राप्ति - लाभः । यद्वा गुरूपरिषदुपज्ञ किङ्करत्वाधिराज्यं शास्त्रार्थनिर्णायक सूक्ति- सहितरहस्यं वा प्राप्येत्यर्थोऽस्तु ।
सहस्रस्थूणेति । तलवकारोपनिषदि, ‘सहस्रस्थूणे दृढ उप्रे यत्र देवानामधिदेव आस्ते’ (श्रु. प्र.) । अपराजिता पूरिति छान्दोग्ये दहरविद्यायाम् । कौषीतक्युपनिषदि पर्यङ्कविद्यायां विरजा नदी, अपरा- जितमायतनम् विभुप्रमितमण्डपे अमितौजाः पर्यङ्क इत्यादि ।
"
-
आत्माभिमानानुगुणेति । तिरुवाय् - 94.4 दुई- हपदविवृतौ ( पिल्लै) अभियुक्तश्लोक उदाहृत एवम् “आत्माभिमानानु- गुण पुरुषार्थव्यवस्थया । भगवत्पारतन्त्रघादि प्रबुद्धस्य सुखायते " इति ।
-
पुरुषं मणिवरतयेत्यादि सर्वं श्रीविष्णुपुराणे (६)
विशदम् ।
शाण्डिलीवृत्तान्तो भारते ।
-
मूलभूत श्रुतिः " न खलु भागवता यमविषयं गच्छन्ति। इहैवैषां केचिद् उपक्लेशा भवन्ति, काणा भवन्ति, खञ्जा भवन्ति अविधेय-पुत्रा भवन्ति, अविधेयभार्या भवन्ति” इत्यादिः ।
-
उषस्तिवृत्तं छान्दोग्ये 1-10
J58. कुण्डधारोपाख्यानम् भा. शा. 277; हरिवंशे
कतिपय विवरणम
[[७]]
अमानवसंज्ञेति । विद्युत्, विद्युत्पुरुषः, वैद्युतः ।
मानवः, मानस इत्येवं बहुभिः पदैरुच्यमान एक एवाऽऽतिवाहिकः । स परमपदात् भगवता प्रेषितो नित्यसूरिः चन्द्ररूपातिवाहिकानन्तर- मत्राऽऽगतः आब्रह्मप्राप्ति अविसृज्यातिवहति ।
श्रीनारायणीयम् भा. शा. 349
-
धर्मव्याधः वि. ध; भा. वन. 210 श्रमणी शबरी. रा. आर.
-
ये नाथवन्तइति बलरामं प्रति सात्यकिवचनम् । ययातेः स्वर्गात् पतितस्य तद्दुहितृपुत्राश्चत्वारः शैव्यादयः स्वस्व सुकृतदा नेनोद्ग- मयितार इति दृष्टान्तार्थः ( आरण्यपर्वणि) ।
199 लयभोगार्चनेति । लयार्चा, भोगार्चा, काम्याचैति लक्ष्म्यर्चामूर्तित्रैविध्यम् । तत्र भगवद्वक्षसि अर्चा लयार्चा । भगवतः पार्श्वे अर्चा भोगार्चा । भगवन्तं विना पृथगालये प्राधान्येन स्थिता अर्चा कम्याचेति भेदः ।
[[207]]
विष्णुचित्ताः ( एङ्गलाडवान् ), श्रीभाष्यकार शिष्य- उभयवेदान्त सिंहासनाधीश. भगवद्विषयगाथाभाष्यकार श्रीकुरुकेशाख्य- देशिकानां शिष्याः । श्रीवात्स्य वरदाचार्याः तच्छिष्याः ( अम्माल ), श्रुतप्रकाशिकाकाराणामाचार्याः । वादिहंसाम्बुदाः, तेषां वरदाचार्याणां शिष्याः श्रीमद्वेदान्तदेशिकानां साक्षादाचार्याः मातुलाश्च । एभिः प्रपत्ति- मधिकृत्य विप्रतिपत्तिविधूननेन संग्रहग्रन्थाः न्यबन्धिषत ।
कतिपय विवरणम्
तुलाधार. जाजल्युपाख्यानं भा. शा. 267 242. विष्णुहस्तप्रदानम् । मन्त्रदीक्षाकाले शिष्यगाले मन्त्रविदाचार्यकरस्पर्शो विहितः विष्णुहस्तप्रदाननाम्ना व्यवह्नियते आगमेषु । तेन दीक्षातिशयः ।
महाभागवतस्पर्शः । “अधिवासादिकं कर्म यथावत् कर्तुम- क्षमः । महाभागवतस्पर्शमेकं वा कारयेत् सुधीः” इति विहितो बिम्बस्पर्शः ।
-
ऊन हीनेति । ’ तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः’ इति पञ्च संस्काराः विहिताः । यागो भगवदाराधनम् । तत्र प्रवृत्तेषु ऊनः तापसंस्कारहीनः, हीनः पुण्ड्रसंस्कारहीनः, परित्रस्तः नामसंस्कारहीनः, नष्टः मन्त्रसंस्कारहीनः । यद्वा " तथा स्वकर्मशास्त्रशगुरु- सत्संगवर्जिताः । ऊनहीन परिस्रस्तनष्टाः ज्ञेयाः समाख्यया" इत्य्-उक्त-रीत्या स्ववर्णाश्रमधर्महीनः ऊनः, स्वसूत्रत्यागी हीनः स्वगुरुदेवतात्यागी परित्रस्तः, सत्संगरहितः नष्टः इति वदन्ति । अन्ये तु ऊनहीन- स्रस्तनष्टदग्धा ज्ञेयाः समाख्ययेति उत्तराधे पठित्वा, स्वकर्मत्यागी, सूत्र- त्यागी, देवतात्यागी, गुरुत्यागी सत्संगत्यागीति पञ्च क्रमेण ऊनादि- नामभाज इत्याहुः । मूले दग्धेति पाठो न लक्ष्यते ।
-
शास्त्रसिद्धमिति । सकृदुच्चारः संसारविमोचनं भवतीति श्रुतिः । " अहो द्वयस्य माहात्म्यमहो वीर्यमहो बलम् । किं नु तस्य च मन्त्रस्य कर्मणः कमलासन । न लभ्यतेऽधिकारी वा श्रोतु- कामोऽपि वा पुनः । “…. पाझे…. " को मन्त्रः सर्वमन्त्राणां पुरश्चरण- बर्जितः । सकृदुच्चारणात् नृणां ददाति परमं पदम् ।… मन्त्ररलं द्वयं
कतिपय विवरणम्
व्यासः प्रपत्तिः शरणागतिः । लक्ष्मीनारायणञ्चेति हितं सर्वफलप्रदम् । …. तस्योच्चारणमात्रेण परितुष्टोऽस्मि नित्यशः । …. शौनकादिमहर्षीणां नैमिशारण्यवासिनाम् । नारदः प्रददौ मन्त्रं प्रपत्ति शरणागतिम्” इत्यादि ।
- दधिभाण्डेति । दधिभाण्डनामा कश्चित् गोपः ।
कृष्णः स्वग्रहणार्थमनुद्रुतैः स्वयमग्राह्यत्वाय घावन् गोपगृहं प्रविश्य दधिकटाहेन मामावृणु इति तं गोपमर्थयामास । स तथैवाकरोत् । अनुद्रुतेषु अबुध्वा अपगतेषु कटाहमपनेतुं कृष्णस्तमयाचत । सतु, मह्यं मोक्षमिह जन्मनि ददामीति ब्रूहि, अन्यथा नापनेष्यामीति निर्बंबन्ध ।
अस्मै दधि- कृष्णे प्रतिश्रुत्य पुनः प्रार्थितवति, ‘न केवलं मह्यम्, कटाहायापि दास्यामीति ब्रूहीत्यवोचत् । अथ तस्मै इव दधिकटाहान्तर्गत- जीवायापि मोक्षे संकल्पित एव कटाहमपसारयामासेति कथा ।
409 पञ्चाग्निविद्या । ब्रह्मात्मकस्य प्रकृतिविनिर्मुक्तस्य
जीवात्मन उपासनरूपा छान्दोग्यादिगता ।
-
कुलिङ्गशकुनिर्यथेति । ‘कुलिङ्गशकुनिर्नाम हरेर्दारित- दन्तिनः । मुखादामिषमादत्ते; वक्ति ’ मा साहसं कुरु’ ॥ कुलिङ्गशकुनि मुखाद्भवन् शब्दः मा साहसंकुर्वित्येवंरूपः । तत्कार्यं तु जृम्भमाणसिंह- मुखे प्रविश्य दन्तलमस्य दन्तिमांसस्य हठात् ग्रहणेन निष्क्रमणम् ।
-
प्रत्येयस्त्विति । प्रत्यगिति खात्मा कथ्यते । प्रत्यक्- छब्दार्थ एव प्रत्येय इत्यनेनोच्यते । प्रत्येयः प्रतीपमञ्चनीयः । इदमिति ग्रहं विना अहमिति ग्राह्यस्तावत् जीवः इदमितिमा प्रकृतिप्राकृत विलक्षण इति प्रथमवाक्यार्थवर्णनं युक्तम् ।
[[१०]]
कतिपयविवरणम्
- वान्ताशित्वम् । उद्गीर्णमक्षकत्वम् । शिष्यक्षेमरूप प्रयोजनमनुद्दिश्य भृत्या आर्जनार्थं प्रतिबोध्य लब्बद्रव्येण जीवनम् ।
430 वसिष्ठव्यपदेशित्वन्यायः । विष्णोरहं शेष इति वैष्णवत्व निर्देशादतिशयितः, अस्य श्रीवैष्णव स्याहं शिष्य इति स्वाचार्यशेषत्वव्यपदेशः ।