अस्मद्गुरुंस्तद्गुरूंच प्रणिपत्याखिलान् क्रमात् । वेदान्तदेशिकं वयं वादिहंताम्बुदं गुरुम् ॥
श्रीमन्तं रङ्गराजायें रामानुजगुरूत्तमम् । प्रणतार्तिहराचार्य श्रीमलक्ष्मण योगिनम् ॥ महापूर्णं यामुनार्थं रामं पद्मविलोचनम् । नाथं शठारिं सेनेशं श्रियं श्रीशञ्च संश्रये ॥ यस्य वाग्वृतिपर्यन्ता यतिराज सरस्वती । तस्मै वेदान्तगुरखे भूयोभूयो नमोनमः ॥ विगाहे निगमान्तार्थविष्णुपाद समुद्भवाम् । रहस्यत्त्रयसाराख्यां त्रिस्रोतसमकल्मषाम् ॥ अविज्ञातं विजानतां विज्ञातमविजानताम् । रहस्यत्रयसाराख्यं परं ब्रह्मास्तु मे हृदि ॥
श्रीदेशिकपर्यन्तगुरुपरम्परा
नारायणः श्रीः श्री विष्वकसेनः श्रीशठकोपसूरिः श्रीमन्नाथमुनिः श्रीपुण्डरीकाक्षः श्रीराममिश्रः श्रीमद्यामुनमुनिः
श्रीमहापूर्णः
श्रीभगवद्रामानुजमुनिः
[[1]]
प्रणतार्तिहराचार्य
श्रीकुरुकेशसूरि-
गोविन्द - एम्बार
रामानुजार्य
श्रीविष्णुचित्तार्य
भट्टार्य
रङ्गराजगुरु
वात्स्यवरदाचार्य
नञ्जीयर्
नम्बिलै
श्रीवादिहंसाम्बुदाचार्य
वडक्कुत्तिरु
(श्रीरामानुजार्य)
वीथिपिल्लै
श्रीमद्वेदान्ताचार्य
लोकाचार्य
तिरुवाय मोळिपिल्लै
मणवाळ मामुनि
श्रीवेदान्त देशिक संप्रदाय स्थानां श्रीभाष्यकारात् प्रणतार्तिहरा- चार्यादिद्वारा रहस्यार्थप्राप्तिः; कुरुकेशार्यादिद्वारा श्रीभाष्याद्यर्थ- प्राप्तिः । मणवालेमा मुनिसंप्रदायस्थानां गोविन्दसूर्यादिद्वारा । त इमे श्रीमन्तो वेदान्ताचार्याः वडकलैसंप्रदायस्थानां सर्वेषामपि सर्ववेदान्तरहस्य ग्रन्थेष्वप्याचार्याः संप्रति तेन्कलै संप्रदायस्थानामपि उपनिषद्ब्रह्मसूत्र श्रीभाष्य-गीताभाष्यादिवेदान्तप्रस्थाने आचार्याः ।
श्रीभाष्यकाराणां श्रीमहापूर्णाः प्रधानाचार्याः : रहस्यत्रय- संबन्धिकतिपय विशेषार्थोपदेशत आचार्याः श्रीगोष्टी पूर्णाः । दिव्य- प्रबन्धार्थोपदेशादाचार्याः श्रीमालाधरगुरवः ।
शुभमस्तु
श्रीः
श्रीमते निगमान्तगुरवे नमः