विज्ञापनम्

इदं प्रपत्तिशास्त्रं श्रुति-स्मृतीतिहास-पुराणागम-भाषा-प्रबन्ध-प्रमुख–सकल-शास्त्र-सार-सङ्ग्रह-रूपं श्रीमद्भिः सर्वैर् अपि पूर्वाचार्यैः विस्तरेण प्रकाशितं काल-देश-सन्दर्भानुसारेण निखिल-जिज्ञासु-मनुज-साधारणं संक्षिप्य सङ्गृहीतम् ।

शास्त्रम् इदम् ईश्वरं दयामयं सकल-जगद्-रक्षकम् अनालोचित-विशेषाशेष-लोक-शरण्यम् अभ्युपगच्छतां सर्वेषां दार्शनिकानां सम्मतम् अतीवादरणीयं चेत्य् एतन् निर्विवादम् ।

प्रपत्तिर्नाम—–

अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।

तदेकोपायता याच्ञा प्रपत्तिश्शरणागतिः ॥ इति ॥

सेयं प्रपत्तिः चतुर्विधानामपि पुरुषार्थानां साधनभूता । अत्र देशजातिकुलगोत्रवर्णाश्रमादिविशेषानालोचनेन उपायान्तराशक्तिरूपाकिञ्चन्यमात्रसमालोचनेन प्राणिमात्रस्याधिकारः ।

सैषा स्वनिष्ठा उक्तिनिष्ठा आचार्यनिष्ठेति अधिकारिभेदेन त्रिविधा । सदाचार्योपदिष्टमन्त्रमन्त्रार्थविशदज्ञानपूर्वकं भगवति भरसमर्पणं प्रथमा ॥ एवं विशदतमज्ञानविधुराणां महाविश्वासशालिनां शरण्यविज्ञेयपूर्णप्रपत्तिगर्भेण सदाचार्योपदिष्टेन वाक्येन “मद्रक्षणं तवैवभरतया स्वीकरणीयमि”ति भगवति प्रार्थना मुग्धसामन्तकुमारस्य सार्वभौमसमीपे धात्र्यादिसमुपदिष्टवाक्येन रक्षकान्तरशून्योऽहं भवन्तं शरणमुपगत इति प्रार्थनावत् द्वितीया ॥ तृतीया तु —- आचार्यस्यात्मात्मीयसमर्पणे शिष्याद्यात्मरक्षाभरसमर्पणस्याप्यन्तर्भावः । शिष्याद्यर्थमाचार्यस्य पृथगनुष्ठानं वा ॥

कथञ्चित् एवं प्रपन्नानामेव मोक्ष इति शास्त्रार्थः ।

इति सतां विधेयः

लक्ष्मीपुरं श्रीनिवासदासः ।

गोरूरु-श्रीनिवासमूर्ति (उट्टङ्कयिता)

ग्रन्थोयम् ईसवीये १९३७तमे वर्षे तेलुगुलिप्यां मुद्रितः प्रकाशितश्च २०२२तमे वर्षे देवनागरीलिप्यां पुनष्टङ्कितश्च । पुस्तिका जीर्णा क्वचित् कृमिजग्धा रन्ध्राविला आसीत् । अनधीतशास्त्रस्य पुनष्टङ्कणकर्तुः दोषाः विद्वद्भ्यः क्षन्तव्याः । क्वचित् (?) प्रश्नचिह्नाः दृश्यन्ते । ते पदस्य अर्थस्य वा सन्दिग्धतां निर्दिशन्ति।

Copies of his book in Telugu script should be available in Mysore University Library or Melukote library, to fill up question marks.

विश्वास-टिप्पनी

लक्ष्मीपुरम् इत्य् अग्रहारो विदुषां प्रसिद्धं केन्द्रम् अवर्तत।

श्रीः

श्रीमते निगमान्तमहादेशिकाय नमः

श्रीमद्रहस्यत्रयसारसङ्ग्रहप्रारम्भः