अथ शास्त्रनिगमनम् ।
इत्थं परम-पुरुषार्थ-प्राप्त्य्-उपायानुष्ठानौपयिकेन सद्-आचार्य-कटाक्षातिशयेन
सारं निष्कृष्य
प्रधान-प्रतितन्त्रान् अवधार्य
अर्थ-पञ्चकं निश्चित्य
तत्त्व-त्रयं विविच्य,
देवता-पारमार्थ्यम् अधिगत्य
मुमुक्षुर् भवति ।
अधिकार-विभागम्, उपाय-विभागम्, प्रपत्ति-योग्यत्वं, परिकर-विभागं च विज्ञाय
प्रपदनम् अनुष्ठाय
कृतकृत्यो भवति ।
ततः स्व-निष्ठाम् अभिज्ञाय
उत्तर-कृत्यं, पुरुषार्थ-काष्ठां, शास्त्रीय-नियमनम्, अपराध-परिहारं च कुर्वन्
स्थान-विशेषे निवसन्,
निर्याणं प्राप्य,
गति-विशेषेण परिपूर्णं परं ब्रह्मानुभवतीति
रहस्यतमा अर्था अनुशिष्टाः ॥
एवम् अनुशिष्टा अर्थाः
सिद्ध-साध्योपायाभ्यां व्यवस्था-रक्षाभ्यां च स्थिरी-कृताः ।
इत्थं स्थिरी-कृतानाम् अर्थानां
पद-योजना-विभागेन रहस्य-त्रये ऽनुसन्धान-सरणिः प्रदर्शिता ।
एतेषाम् अर्थानाम् अविप्लवाय
यथा-शास्त्रं सम्प्रदाय-प्रवर्तनार्थम्
आचार्य-कृत्यं शिष्य-कृत्यं(३२) च निरूप्य
शास्त्रम् इदं परिसमाप्यते ।
एवम् अस्मिन् शास्त्रे
समुपदिष्टाः सर्वे ऽप्य् अर्थाः
श्रुति-स्मृति-सम्प्रदायैः समीचीनानुकूल-न्याय-सहकृतैः
अ-ज्ञान-संशय-विपर्ययाणाम् अन्तरेण
अवकाश-लेशं यथा-श्रुतं यथा-हृदयम् उपपादिताः।
प्राग्-उपदर्शित-नियमम् अनुसृत्य
सत्-सम्प्रदाय-निष्ठ–सद्-आचार्य-सकाशात्
सम्यग् उपसन्नैः श्रोतव्याश् च ।
श्रुति-स्मृति-शरणैः पूर्वाचार्यैः
विशोधित-निरस्तापराध-लेशावकाशे पथि विचरतां
सर्व-विध-क्लेश-विनाशं परमे[???] पत्युः सर्वेश्वरस्य चरणारविन्दयोः
सर्व-देश–सर्व-काल–सर्वावस्थोचित[???]तैक-रूप–नित्य-कैङ्कर्य-प्राप्तिश् च भवति ।
तस्मात् श्रीमन्-नारायणस्य चरणाव् एव [ ????] दशायां चोपजीव्याव्
इति सर्वं कल्याणतमम् ॥
॥ इति श्री रहस्यत्रयसारसङ्ग्रहे तृतीयः परिच्छेदः ॥
रहस्य-त्रय-सारार्थः
संक्षेपात् समगृह्यत ।
लक्ष्मीपुरं-श्रीनिवास-
दासेन सुधियां मुदे ॥