३१ शिष्यकृत्याधिकारः

अथ शिष्य-कृत्यम्॥

इत्थं रहस्यतमं सर्वम् अप्य् अर्थं
परम-दरिद्रस्य सदन एव निधिम् इव निदर्शयतः
परमोपकारकस्य आचार्यस्य विषये कृतज्ञेन दोग्ध्रा वर्तितव्यम्
इति श्रुत्याद्य्-अनुशासनं
न प्रत्युपकार-प्रदर्शनार्थम्,
अपि तु ऐहिकामुष्मिक-गर्हार्हतापादक–दुस्-सह–प्रत्यवायानुदयार्थम् ।

तथा क्वचित् सर्वस्वादि-दान-स्मरणम् अपि
प्रणिपातादिवत् कतिपय-कर्तव्य-प्रदशनपरम्,
तु नैस्पृह्येण कारुण्येन चोपदिशतो अनन्य-प्रयोजनस्य प्रत्युपकारपरम्

देववद्-आचार्योपासन-श्रवणम् अपि
शास्त्र-चक्षुः-प्रकाशार्थं भगवद्-अनुभववद् विलक्षणस्यानुभवस्याविच्छेदार्थम्,
न तु प्रत्युपकारार्थम्।

यतो ऽत्राचार्य-विषये प्रत्युपकार-राहित्यं सकल-शास्त्र-समुद्घोषितम्,
ततोत्र क्वचित् प्रत्युपकार-दृष्टिः महती विनष्टिः

अथ विद्याग्रहणाद् अनन्तरं
शिष्यस्य कर्तव्यानीमानि – यथा –

  • विज्ञान-विपरीतानुष्ठानेन कपाल-स्थ-+++(अपेय-)+++तोयवत् इतरानुपचर्यत्वानापादनम् एकम् ।
  • वैराग्याभावेन काक-वाशितवत्+++(=क्रन्दनवत्)+++ निष्प्रयोजनत्वानापादनं द्वितीयम् ।
  • प्रयोजनान्तर-लोभेन गणिकाऽलङ्कारवत् फल्गुत्वानापादनं तृतीयम् ।
  • अर्थ-तृष्णयैव विक्रेय-गन्धवत् कृत्रिमत्वानापादनं तुरीयम् ।
  • योग्यायोग्यविवेक-वैधुर्येण +++(ग्राम-विपणी-क्रेत्राकर्षणार्थ-)+++परिषत्-पृथुक-भार-साम्यतानापादनं पञ्चमम् ।
  • अपात्रोपदेशेन कपि-कर-गत-कुसुम-माला-सादृश्यानापादनं षष्ठम् ।

इत्यादीनि ॥

व्यपदेशो ऽपि
वसिष्ठ-व्यपदेश-न्यायेन आचार्य-व्यपदेशः समुपादेयः
उपदेशो ऽपि
गुरु-परं-परा-प्रकाश-पूर्वकः कृत-ज्ञतानुसन्धान-पूर्वकः उपदेष्टव्यार्थ-माहात्म्य-सूचन-पूर्वकः कर्तव्यः ।

एवं-विध-नियम-सहकृतोपदेशमन्तरेण
पुस्तक-निरीक्षणान्तर्धान-श्रवणादिना गृहीतम् अपि ज्ञानं
चौर्य-लब्धाभरणालङ्करणम् इव साध्वसम्+++(=भयम्)+++ एव पदे पदे समुत्पादयेज्,
जनयेच् च प्रत्यवायम् ।+++(5)+++

आचार्य-सकाशाद् अपि गृहीतं
प्रणिपातादि-नियम-रहितं चेत्
+++(अपरकर्माङ्ग-दरिद्र-प्रतिग्राह्य-)+++काल-पुरुष–+++(श्रीमत्-)+++प्रतिग्रह-लब्धाभरणालङ्करणवत् जुगुप्साम् अनर्थं चापादयेत्

एवं न्यायागतस्याप्य् अर्थस्य
अन्येषाम् उपदेशः गुरु-प्रकाश-रहितश् चेत्
मूल-सन्देहेन शिष्यस्यातिशङ्कनम्, अनादरणीयत्वं,
ज्ञान-वैशद्य-पूर्वक–भगवद्-अनुभव-लक्षण-सम्पद्-विनाशः,
आत्म-सत्ता-हेतु-भूत–शेषत्वानुसन्धान-पूर्वक–स्व-निष्ठा-लक्षणाय-क्षयश् च भवेयुः ।

गुरु-प्रकाश-सहितो ऽप्य् उपदेशः
गुरूपदेश-विरुद्धश् चेत्
विप्रलम्भकत्वम्+++(=वञ्चकत्वम्)+++, अ-शास्त्रीयोपदेशेन पापिष्ठत्वं च आपादयेत् ॥

सच्-छिष्यस्य
प्राप्ते ऽप्य् अवसरे
न कृतश् चेद् उपदेशः,
लुब्धत्वं, भगवद्-आज्ञातिलङ्घित्वं च स्याताम् ।

तस्माद् यथा राज-समीपे प्रदीप-वाहः
कस्मिंश्चित् कार्यान्तरे
राज्ञा नियुक्तस् सन्
तादृश-दीप-वहन-समर्थस्य प्राप्तस्य अपरस्य कस्यचित् करे प्रदीपं प्रदायापसरति,
तथा प्राप्ते सु-पात्रे
स्वाचार्येण उपदिष्टम् एव
आचार्य-प्रकाशन-पुरस्-सरम् उपदिशेत्

कारणान्तर-विशेषेण समधिगतम् अप्य् अर्थ-विशेषं
+++(“व्यासप्रसादात् श्रुतवान् … योगं कृष्णाद्” इति धृतराष्ट्र-सञ्जय-संवादोक्त-)+++
व्यास-प्रसाद-न्यायेन अधिगतम् इत्य् अवबुद्ध्य उपदिशेत्,
न तु सामर्थ्य-विशेषेणेति
तथा च सति सर्वैर् आदरणीयतमो ऽयम् अर्थस् स्यात् ।
स्वयम् अपि कृत-ज्ञ-मूर्धन्य इति सात्त्विकैः प्रशंसनीयः स्यात् ।
सत्य-धर्मेति+++(→सत्य-वादीति)+++ उपनिषद्भिः
औपनिषदेन परम-पुरुषेण स्व-सदृश-प्रमाण-भूत
इति आदरणीयश् च भवेत् ॥

॥ इति शिष्यकृत्यम् ॥