३० आचार्यकृत्याधिकारः

एवं परमाचार्यं सर्वेश्वरम् आरभ्य
सद्-आचार्य-सम्प्रदायेन समागतान्
सिंही-स्तन्यवद् विजातीयैर् अनास्वादित-रसान्
रहस्य-त्रयार्थान् सङ्गृह्य
स्वयम् अनुसन्धाय
सात्त्वत-संहिता–भगवद्-गीता–वसिष्ठ-कराल-संवाद–
शाण्डिल्य-स्मृति–सात्यकी-तन्त्राद्य्-उक्त–गुरु-शिष्य-नियमम् अनुसृत्य
शरण्यानुमत्य्-अर्हताऽऽपादक–सात्त्विकताऽऽस्तिक्यादि-गुण-शालिभ्यः दैव-प्रकृतिभ्यः परीक्षित-गुणेभ्यः सच्-छिष्येभ्यः प्रकाश्य
तद्-विपरीत-गुणेभ्यश् च प्रच्छाद्य
कृतार्था भवन्ति नः पूर्वाचार्याः ।

तथा तत्त्व-हित-पुरुषार्थ–स्व-रूपम् अपि
इत्थं सङ्ग्रह-रुचीनाम् उपदिशन्ति, यथा -

  • देहेन्द्रियादि-लक्षणाचेतन-विलक्षणः नित्यः चेतनो ऽस्ति प्रत्यगात्मा
  • एतादृश-चेतनाचेतन-विलक्षणः सर्वान्तर्याम्य् एकः शेषी परमात्मा ऽस्ति
  • एतं परमात्मानम् अन्तरेण स्वयम्, अन्यो वा,
    न कश्चिद् अपि प्रभवत्य् आत्मानम् अवितुम्
    इति तत्त्व-स्वरूपम्
  • अनादेश् च कालात् प्रसरतः
    गर्भ-वासादि-लक्षण-क्लेश-निवारणाय आचार्यानुगृहीत-द्वय-वचन-मुखेन
    श्रीमन्-नारायण-चरणौ शरणम् उपगम्य
    आत्मा, ऽऽत्मीयं च यत् किञ्चित् तत् सर्वं
    तस्मिन् समर्पणीयम्
    इति हित-स्वरूपम् ।
  • एवं सद्-आचार्य-समुद्दिष्ट-वर्त्मना परिगृहीतः परमात्मा
    नैव परित्यजति कदाचिद् अपि क्वचिद् अपि केचनचिद् अपि हेतुविशेषेणेति विश्वस्य
    अपवर्ग-पूर्व-रङ्ग-भूतया निर्-अपराध+अनुकूल-वृत्त्या वर्तितव्यम्
    इति उत्तर-कृत्य-स्वरूपम्

इति॥

॥इत्याचार्यकृत्यम् ॥