प्रसङ्गः
एष नारायणः श्रीमान्
क्षीरार्णव-निकेतनः ।
नाग-पर्यङ्कम् उत्सृज्य
त्यागतो मधुरां पुरीम् ॥
इत्य् उक्त-रीत्या
श्रियः पतिः सर्वेश्वरः
साधु-परित्राणाय दुष्-कृद्-विनाशाय धर्म-संस्थापनाय च
द्वारका-नायकत्वेनावतीर्य,
निरतिशय-सौलभ्येन पाण्डवानां शरणम् उपगतानां दूतस् सन्
अर्जुनं रथिनम्, आत्मानं तस्य विधेयं सारथिं च चकार ।
स चार्जुनः स्वात्मानं निमित्ती+++(=व्याजी)+++-कृत्य
सर्वेश्वरः+++(=??)+++ स्व-प्रतिपक्षान् सर्वान् अपि निरसिष्यति ।
सर्वो ऽपि च बन्धु-जनः
विनशिष्यतीत्य् अवधार्य
अस्थान-स्नेह-जनित-शोकेन, अस्थान-कारुण्येन,
युद्धे ऽस्याचार्यादीनां हननं पापं कर्मेत्यादि-भयेन च व्याकुलस् सन्
श्रेयो-जिज्ञासया भगवन्तम् एव
शरणं प्रापद्यत ।
सो ऽपि भगवान्
तस्य शोकाद्य्-अपनोदनाय
देहादि-व्यतिरिक्तस्य पर-शेषतैकरसस्य नित्यस्यात्मनः स्वरूपं,
निरुक्तात्म-याथात्म्य-ज्ञानवतः परम-पुरुषार्थ-लाभाय
परम्-परया कारण-भूतं कर्म-योगं, ज्ञान-योगं, साक्षात्-कारणं, भक्ति-योगं च
सपरिकरम् उपादिक्षत् ॥
अथ चाविलम्बेन परम-पुरुषार्थ-प्राप्तये
समुपजात-त्वरातिशयं, उपाय-दौष्कर्य-निश्चयात्,
अपेक्षित-ज्ञान-शक्ति-समवधाने ऽपि
अतिशयितावधान-चिर-काल-साध्योपाय–स्व-भाव–विमर्श-जनिताभिमत-सिद्ध्य्-अनिश्चयाच् च
निरतिशय-शोकाविष्टम् अर्जुनं व्याजीकृत्य
परम-कारुणिको गीतोपनिषद्-आचार्यः
स-कल-विध-पुरुषार्थ-साधारण-साधन-भूतम्
आनुकूल्य-सङ्कल्पाद्य्-अतिरिक्त-परिकर-निरपेक्षं क्षण-मात्र-साध्यं
रहस्यतमम् उपाय-विशेषं श्रोतव्य-शेष-रहितं
यथा तथा उपदेश-पर्यवसान-भूतेन चरम-श्लोकेन सकल-लोक-रक्षार्थम् उपदिशति– सर्व-धर्मेति ।
स्थूलार्थः
यद्य्-अपि भगवद्-गीता-भाष्ये द्वितीय-योजनायां
प्रपत्तेर् उपाय-विरोधि-निरसनम् अनुगृहीतम्,
गद्ये तु उपेय-विरोधि-निरसनम्,
तथा ऽप्य् उभयत्र उभयम् उपादेयं,
नान्यतरेण अन्यतरद् व्यवच्छेदनीयम्+++(→तिरस्करणीयम्)+++ ।
न्याय-साम्यात् प्रमाणान्तरानुसाराच् च
प्रपदनस्य सकलाभिमत-साधनत्वम् अनाकुलम् ॥
श्रुति-सिद्धस्य अस्य रहस्यतमार्थस्य
शरण्येन सर्वेश्वरेण स्वयम् उपविष्टत्वात्,
पद्यम् इदम् उपाय-विशेष-प्रधानम् अपि,
श्वेताश्वतरे “मुमुक्षुर् वै शरणम् अहं प्रपद्ये”
उत्तम-पुरुष-श्रवण-पदौचित्यायात-मध्यम-पुरुष-घटितं सद् अपि,
अवश्य-कर्तव्यत्वौपयिकाचार्यानुज्ञा-रूप-विधाव् अपि पर्यवस्यतीत्य् अवधेयम् ।
अत्र पूर्वार्धम् उपायं विदधाति ।
उत्तरार्धं फल-निर्देशादि-मुखेन तच्-छेष-भूतम् ।
विधिर् नाम– आप्तस्य हित-कामस्य नियोगः ।+++(5)+++
स च लिङ्-आदि-शब्द-वाच्यः,
प्रदर्शकः अभिप्रायः ॥
सर्व-धर्मान् परित्यज्य
सर्व-धर्मान्
धर्म-शब्दः शास्त्रैक-समधिगम्यं पुरुषार्थ-साधनम् अभिधत्ते ।+++(5)+++
बहु-वचनम् अङ्गि-व्यक्ति-बाहुल्यं व्यनक्ति ।
सर्व-शब्दः परिकर-सामस्त्यं वक्ति ।
परिकरस्यापि धर्म-लक्षण-क्रोडी-कृतत्वात्
+++(“सर्व”-“धर्म”-शब्दयोः)+++ सामानाधिकरण्योपपत्तिः +++(येन कर्मधारय-समासः)+++।
तथा च - सकलाङ्ग-सहित–सकलाङ्गि-लाभः ।
एक-शब्द-प्रतिसम्बन्धितया सर्व-शब्द-योजनायाम्
अङ्गि-भूत-नाना-विधानां धर्माणां कार्त्स्न्यं कथयति ।
सामान्येन प्रयुक्तो ऽप्य् अत्र धर्म-शब्दः प्रकरण-वशात्
मोक्ष-साधनतया शास्त्र-विहितानि नाना-प्रकाराण्य् उपासनानि अभिदधाति ।
परित्यज्य
परित्यज्य इत्यत्र
धात्व्-अर्थस् त्यागः
अकिञ्चनस्यानुसन्धान-मूलकोपायान्तर-नैराश्यम् ।
उपसर्गार्थः सर्वेणापि प्रकारेण तस्यातिशयितत्वम् ।
तच् च “पूर्णानुष्ठानाशक्तौ यथा-शक्त्य्-अनुष्ठानं,
तद्-अशक्तौ अनुकल्पानुष्ठानं,
तत्राप्य् अशक्तौ उपायोपायानुष्ठानं वा करिष्यामी"ति
सर्व-प्रकारायाः दुराशायाः राहित्येन विशिष्टत्वम् ।+++(4)+++
ल्यप उत्तर-कालिकत्वम् अर्थः ।
“अवस्थित” इत्य् अध्याहारः ।
अधिकारि-विवक्षा
तथा च
“अनित्यम् असुखं लोकम्
इमं प्राप्य भजस्व माम्”
इत्य्-आदिवत्,
“सर्व-धर्मान् परित्यज्य अवस्थितस् त्वम्” इत्य् अनुवादः ।
अस्याधिकारि-विशेष-प्रदर्शनं प्रयोजनम् ॥
कार्पण्य-विधिः
अथवा– परित्यज्य इत्य्-अन्तस्य
“उपनीय वेदम् अध्यापयेत्” इत्य्-आदिवद् विधि-रूपत्वे –
अ-किञ्चनस्य प्रतिसन्धान-रूपं कार्पण्यं
प्रपत्त्य्-अङ्गतया विधीयते
इत्य् अभ्युपगन्तव्यम्।
तादृशानुसन्धान-लाभश् च
धात्वर्थे ज्ञानम् अप्य् अन्तर्भाव्य
सर्व-धर्म-कर्तृक–स्व-कर्मक-त्यागं विज्ञाय
स्व-धर्म–स्व-रूप–योग्यता-राहित्यम् अनुसन्धाय
इत्य् अर्थ-विवक्षया कथञ्चिद् वक्तव्यः ।
नैरपेक्ष्य-विधिः
वस्तुतस् तु –
परित्यज्येत्यस्य अनपेक्ष्य इत्य् अर्थ-विवक्षया
स्वेतरस्य कस्यापि शम-दम-शौचाचमनादि-लक्षणस्य धर्मस्यापेक्षाभावो नैरपेक्ष्यम्
अत्र विधीयते इति युक्तः पन्थाः ॥
कर्म-योगादि-स्वरूपतस्-त्यागो न
अत्र विधि-पक्षे–
कर्म-योग–ज्ञान-योग–भक्ति-योग–रूपाणां स्व-रूपतस् त्यागो ऽङ्गतया विधीयत
इति वाक्यार्थ-वर्णनं
प्रपत्तेस् सर्वाधिकारिकत्व-विरुद्धम् ।
धर्मानुष्ठान-शक्तं प्रति हि धर्म-त्यागो विधीयेत ।+++(5)+++
शक्त-मात्राधिकारिकत्वाभ्युपगमस् तु
आकिञ्चन्याधिकारिकत्व-पर–सर्व-शास्त्र-सम्प्रदाय-विरुद्धः ।
नित्याशक्तित्वं न
भगवद्-अत्यन्त-परतन्त्रतया सर्वो ऽप्य्
उपायान्तरेषु नित्याशक्त एवेति
त्याग-विधिर् एव युक्त इति वादो ऽपि,
अशक्ततयैव त्यागस्य,
स्वतः प्राप्ततया विधेयत्वासम्भवेन विरुद्धः,
विरुद्धश् च तुल्य-न्यायतया
शरणं व्रजेत्य् उत्तर-विधिनापि ।
शक्ताशक्त-विषयता
शक्तं प्रति विधिर्
अशक्तं प्रत्य् अनुवाद
इति कल्पनं तु एक-प्रयोग-विरुद्धम् ॥
शक्त-मात्राधिकारिकत्वे
गुरु-लघूपाय-विकल्पानुपपत्तिः,
+++(इति चेत्??)+++ अर्थाद्य्-अर्थिनः कृषि-वाणिज्यादि-लक्षण–गुरु-लघूपाय-विकल्पः
अधिकारि-विशेष-व्यवस्थयैवोपपन्न इति -
लोके ऽपि सिद्धम् एतत् ।
अथ शक्तस्यैव लघूपाय-प्ररोचनार्थं
गुरूपायं विधाय,
तस्यैव निषेधः क्रियते
इति चेत् –
अधिकारि-भेदाभावे व्याहतम् एवैतत् -
+++(कल्पितरीत्या भक्त्यादीनाम्)+++ अनुपायानाम् उपायत्वेन विधानं तु
श्रुति-स्मृत्यादीनाम् अप्रामाण्य-प्रसङ्ग-दूषितम् ॥
ज्ञानभेदाद् अधिकार-भेदो न
अथ पूर्ण-ज्ञान-विश्वासः प्रपदने ऽधिकुरुते,
मन्द-ज्ञान-विश्वासस् तु उपासने
इत्य् अधिकारि-विशेष-सिद्धिर्
इति चेत् –
पूर्ण-ज्ञान-विश्वासवतां परमास्तिकानां चरम-श्लोकं दृष्टवतां व्यासादीनाम्
उपासनानधिकार-प्रसङ्गः ।
“वस्तुतः प्रपन्नानाम् एव तेषां लोक-सङ्ग्रहार्थम् उपासनानुष्ठानम्”
इति कल्पनं तु
स्वाधिकार-विरुद्धेन अनुष्ठानेन लोकसङ्ग्रहणस्य प्रत्यवायापादकत्वात्,
सन्न्यासिनाम् अपि स्वाश्रम-विरुद्धेन
गृहस्थैकान्तधर्मेण लोक-सङ्ग्रह-करण-प्रसङ्गापाताच् च पराहतम्,
अनुचितं च कैङ्कर्य-बुद्ध्या ऽपि प्रपन्नानां
स्वाधिकार-विरुद्ध-धर्मानुष्ठानम् ॥
स्व-शक्य-धर्म-त्यागो न
अथ स्व-विहित–स्व-शक्य–यावद्–धर्माणां स्वरूपेण परित्यागः
अङ्गतया विधीयेत -
नास्मिन् पक्षे सर्वाधिकारिकत्व-विरोधः,
सर्वत्र-शक्य-यावद्-धर्म-त्याग-सम्भवात्
इति चेद् अत्र उच्यते–
प्रपत्त्य्-उत्तर-कालावच्छिन्नः त्यागो वा,
आहोस्वित् प्रपत्त्य्-अनुष्ठान-क्षणावच्छिन्नो वा विवक्षितः?
आद्ये स्वीय-वर्णाश्रम-धर्मान् अ-हिंसा–सत्य-वचनादि-सामान्य-धर्मान्
आचार्य-वन्दनादि-विशिष्ट-धर्मांश् च परित्यज्य
पशु-मृग-पक्ष्य्-आदिवद् वर्तितव्यं प्रपन्नैर् इति स्यात् ।
अनन्तरे – तदानीम् असम्भावितानां त्याग-विधिकल्पनानर्थक्यात्
सम्भावितानां च क्षेत्र-वास-शिखा-यज्ञोपवीतोर्ध्वपुण्ड्रादीनां परित्यागस्य प्रपत्त्य्-अङ्गता स्यात् ॥+++(5)+++
उपायता-बुद्धि-त्यागो न
अथ स्यात् कर्मादीनां स्व-रूप–त्यागासम्भवे ऽपि
उपायता-बुद्धि-त्याग-विधिर्
इति न स्यात् -
उपायता-बुद्धि-त्याग-पूर्वम् अनुष्ठित-स्वरूपस्य अङ्गताऽऽपातेन
अकिञ्चनाधिकारिकत्व-नैरपेक्ष्याद्य्-असिद्ध्य्-आपत्तेः।
देवतान्तर-धर्म-त्यागस् तु
उपासक-साधारण इति
न कश्चिद् विशेषः ।
तस्माद् उक्तः पन्था एव सुपन्थाः ॥
प्रपत्तौ नानुष्ठानं त्यागो वा
अत्रास्मिन् नैरपेक्ष्य-विधि-पक्षे
+++(“कस्य नैरपेक्ष्यम्” इति)+++ प्रतियोगि-प्राप्तिस् तु
विद्यान्तरङ्गतया अधीतानां वर्णाश्रम-धर्म–शम-दम-गति-चिन्तनादीनां
सर्व-वेदान्त-प्रत्यय-न्यायायातम् उपसंहारम् उपजीवतीति
स्फुटम् एतद् वेदान्त-विदाम् ।
ततश् च अनुष्ठानं त्यागो वा प्रपत्तेः नाङ्गं,
किं तु अत्राशक्य-नैराश्यम् अधिकार-कोटिं** प्रविशति ।
नित्य-नैमितिकानुष्ठानम् आज्ञानुपालन-लक्षणं कैङ्कर्य-कोटिं प्रविशति ।
प्रपत्त्य्-अनुष्ठान-कालावच्छिन्नस्य आनुकूल्य-सङ्कल्प-मात्रस्यैव अङ्गतया श्रवणात् अनन्तर-कालावच्छिन्नम् अनुष्ठानम् आज्ञा-कैङ्कर्यतया स्व-विधि-प्रयुक्तं,
न तु तादृश-सङ्कल्प-प्रयुक्तम्
इति न तस्याप्य् अङ्गत्व-शङ्का-प्रसङ्गः ॥
कर्म-प्रयोजनम्
तर्हि नित्य-नैमित्तिकान्तर्भूतानां प्रभूत-कैङ्कर्य-लक्षणानां कर्मणां
किं प्रयोजनम्?
न तावद् उपायान्तरं - परित्यक्तव्यत्वात्
नाप्युपात्तोपायः - निरपेक्षत्वात् ।
नाप्य् अकरणे प्रत्यवायः - नित्य-नैमित्तिक-विलक्षणत्वात् +++(=??)+++ ।
न चापि फलान्तरं - हेयत्वात् ।
न च स्वयं प्रयोजनत्वं - पारतन्त्र्य-विरुद्धत्वात् ।
न च भगवद्-अभिप्रायः अन्-अपरोक्षत्वात् ।
इति ॥ अत्रोच्यते–
भगवद्-विषयक-प्रीति-विशेष एव ।
स च सत्त्वोत्तर-स्व-स्व-भावानुगुण–सुहृत्-पुत्राद्य्-उपलालनेष्व् इव
भगवत्-प्रीणनेषु शास्त्र-दृष्ट्या प्रवर्तक
इति वेदितव्यम् ॥
प्रपन्नानां शास्त्र-वश्यता
अथ न चासौ प्रपन्नः शास्त्र-वश्यः
अपि तु स्व-रूप-वश्यः।
स्व-रूप–विवेक एव हि अस्य
त्याज्योपादेय-विभाग-निर्णायक
इति । नैवम् –
शास्त्रानादरे
न केवलं स्व-रूप-विज्ञानं प्रभवति त्याज्योपादेयौ विवेचयितुं,
अपि तु स्व-रूप-विवेकः सूचयत्य् औचित्य-मात्रम्,
अन्यथा यावन्-मोक्षापरोक्षम्
आत्म-रुचेर् एव नियामकत्वात्
उपचारापचार-विभागानुपपत्तिः, विधि-निषेध-विभागानुपपत्तिश् च ।
न शास्त्रं व्यवच्छिनत्ति,
किं तु प्रीतेः प्रेरकातिशयत्वं द्योतयति ॥
एवं च प्रपन्नानाम् अपि शास्त्र-वश्यत्वानपगमात्
शास्त्रोक्त-कैङ्कर्याणाम् एव कर्तव्यत्वाच् च -
- विधि-निषेध-लङ्घन-पक्षः,
- विहित-निषिद्ध-त्याग-पक्षः,
- वर्णाश्रम-धर्म-मात्र-त्याग-पक्षः,
- तत्र विकल्प-पक्षः,,
- अनुष्ठान-पक्षे भगवत्-प्रीति-लक्षणाभ्युदयाभावः केवलं, न तु प्रत्यवाय इति पक्षः
- तथा, लोक-विरोध-रूप एव प्रत्यवाय इति पक्षः,
इत्यादयः पक्षाः शास्त्र-सम्प्रदाय-विरुद्धा वेदितव्याः ।
शास्त्र-व्यवस्था
यद्य् अपि च सन्ध्यादि-विधयः धर्म-शास्त्र-सूत्रेषु, इतिहास-पुराणेषु, भगवच्-छास्त्र-संहितासु च
भिन्न-भिन्न-प्रकारा दृश्यन्ते,
तथा ऽपि तत्-तत्-सम्प्रदाय-नियतः तत्-तद्-विशेष
इति नाव्यवस्था-प्रसङ्गः ।
तथा शास्त्र-व्यवस्था-सिद्ध्य्-अर्थं
भक्त-जन्मादि-चिन्तनम् अपि नानर्थम् आवहति,
अपि तु - अवज्ञार्थम्+++(=??)+++ एव तत् अनर्थम् आदधातीति ॥
सङ्ग्रहः
तथा च विधि-पक्षे–
कार्पण्यानुसन्धानं, धर्मान्तर-नैरपेक्ष्यम्, अ-शक्यारम्भ-निवर्तनं,
ब्रह्मास्त्र-न्यायेन धर्मान्तर-विरोधश् च
+इत्येते पञ्चार्थाः,
अनुवादपक्षे अधिकार-विशेष
इति षड् इमे प्रथम-पादार्थाः॥
माम् एकं शरणं व्रज
अस्मिंश् च उपाय-विशेषे
भगवतः निरपेक्षोपायत्वं विशेषतो वेद्याकारः ।
तत्र प्रधानतया परिकरतया च
अपेक्षिताः सर्वाकाराः
“माम् एकम्” इत्य् अनेन विवक्ष्यन्ते ।
माम्
तत्रादानवतां रहस्यज्ञान-मूलं सर्व-सौलभ्यं स्वातन्त्र्यं शुभाश्रयत्व-लक्षण–दिव्य-मङ्गल-विग्रह-योगित्वम्, अवसर-प्रतीक्षत्वम्, अभिमुखत्वं, स्वामित्व-वात्सल्य-ज्ञान-शक्ति-कारुण्यादिकं च
माम् इत्यनेन विवक्ष्यते ।
एकम्
एक-शब्देन तु
प्राप्यस्यैव प्रापकत्वं, निरपेक्ष-कर्तृत्वं,
प्रपत्तेः व्याज-मात्रत्वम्, उपायान्तरासहितत्वं, तद्-अङ्गैर् अप्य् अनन्वितत्वं,
सकल-साध्य-साधनत्वं चेति
षड् अर्थाः प्रतिपाद्यन्ते ।
केचित् तु एक-शब्देन देवतान्तरं व्यावर्तयन्ति ।
ते ऽपि श्रियम् अपि व्यवच्छिन्दन्ति ।
ततश् चोपाय-द्वित्व-प्रसङ्गं पारयन्ति ।
तत् तु – अनन्य-परानेक–श्रुति-स्मृति-गुरूक्त्य्-अनुसारेण
विशिष्टस्यैव प्रपत्तव्यत्व-निर्णयात् अ-सुन्दरम् ।
अन्ये तु भगवति
स्व-विषयक–स्वीका +++(उपायान्तर-)+++नैरपेक्ष्य-बुद्धिर्
एक-शब्दार्थ इति कथयन्ति ।
तत्रापि +++(‘मनो ब्रह्मेत्य् उपासीते’तिवत् “निरपेक्षम् भावये"ति)+++ दृष्टि-विधित्वापत्त्या
“व्रजे"ति स्व-वचन-विरोधापत्त्या च
अ-स्वरसता वेदितव्या ॥
शरणं व्रज
तत्र सिद्धोपायं प्रति
साध्योपायस्य प्रपदनस्य व्याज-मात्रताम् उपजीव्य
प्रपदनं नाम
संबन्ध-ज्ञान-मात्रं, सिद्धोपाय-प्रतिपत्ति-मात्रम्,
अ-निवारण-मात्रम्, अनुमति-मात्रम्,
अ-चिद्-व्यावृत्ति-मात्रं, चैतन्य-कृत्यं, चित्त-समाधानम्, अधिकारि-विशेषणम्
इत्य् अतिवदन्ति विद्वांसः ।
एतत् सर्वं “शरणं व्रजे"ति विधिं विरुणद्धि,
समावहति च अतिप्रसङ्गम् ॥
तथा हि–
आद्य-पक्ष-द्वये
तादृश-ज्ञानस्य वाक्य-ज-धी-रूपत्वे मोक्षोपायत्वे च,
+++(शाङ्कराद्वैतिवद्)+++ अविधेय-ज्ञान-वादाभ्युपगमात् भाष्यादि-विरोधः,
अनन्तर-कर्तव्य-ज्ञान-रूपत्वे तु इष्टापत्तिः ।
अनिवारण-मात्रम् इति तृतीय-पक्षे
स्वस्मिन्न् अनिवारण-शक्तेर् अभ्युपगन्तव्यत्वात्
ईश्वरस्य ईश्वरत्वं सङ्कुचितं स्यात् ।
अपराध-करणेन निवारयति चेत्,
प्रसादन-करणेन भवितव्यम् ।
स्व-रक्षणार्थ–स्व-व्यापारे निवारयति चेत्
सुषुप्त्य्-आद्य्-अवस्थासु उपाय-सिद्ध्या मोक्ष-प्रसङ्गः ।
अनुमति-मात्रम् इति तुरीयपक्षे
चैतन्य-कृत्यम् इति षष्ठपक्षे च
उपासना-विशेष-प्रसङ्गः ।
अचिद्-व्यावृत्ति-मात्रम् इति पञ्चम-पक्षे तु
प्रातिकूल्यस्य अ-प्रजोजकत्वात्
सर्व-मुक्ति-प्रसङ्गः ।
चित्त-समाधानम् इति सप्तम-पक्षे
समाधानस्य फलानुपयुक्तत्वे
पुरुष-रुचि-भेदेन भिन्नत्वात्
यथेष्टाचरण-प्रसङ्गः,
उपयुक्तत्वे तु इष्टापत्तिः ।
अधिकारि-विशेषम् इत्य् अष्टम-पक्षो ऽपि
प्रपदनस्य फल–तत्-कामनाभ्यां भिन्नत्वात्
विधेयान्तर-शून्यत्वाच् च
प्रतिक्षिप्तो वेदितव्यः ।
“शरणं व्रजे"त्य् अनेन स-परिकरात्म-निक्षेपो ऽभिधीयते ।
प्रपद्ये इत्य् अत्रानुष्ठात्र्-अनुसन्धान-रूपत्वात् उत्तम-पुरुषः ।
अत्र त्व् अभिमुख-चेतनं प्रति विधीयमानत्वान् मध्यम-पुरुषः ।
अत्यन्त-पर-तन्त्रस्यापि चेतनस्य
ज्ञानेच्छा-पूर्वक-प्रयत्नाश्रयत्व-रूपं कर्तृत्वं
स्वाभाविकं फल-दशा–संसार-दशा-साधारणम् ॥
फल-दशायां कैङ्कर्य-कर्तृत्वं
केवलम् ईश्वरेच्छानुविधाय+++(??)+++-स्वेच्छा-निबन्धनम् ।
संसार-दशायां बन्ध-हेतुर् आकार एव त्याज्यः,
मोक्ष-हेतुस् तु उपादेय एव ।+++(5)+++
कस्मिंश्चित् कार्य-विशेषे तादृश-प्रवृत्य्-आश्रयत्वात्
जीवः कर्ता,
प्रवर्तकत्वाद् ईश्वरः कारयिता,
तादृश-प्रवृत्तेः अनिहन्तृत्वात् उपेक्षकः,
अनुमतत्वाद् अनुमन्ता,
सह-प्रवृत्तत्त्वात् सह-कारीत्य् उच्यते
इति विषयभेदाद् अविरोधः ॥+++(5)+++
एवं स्व-बुद्धि-पूर्वक-प्रवृत्ति-शक्तेः जीवस्य नियोग-योग्यत्वात्
“व्रजे"ति विधिः नानुपपन्नः ।
एवं विहितस्य निक्षेपस्य
सकृत्-कृतः शास्त्रार्थः
इति न्यायस्यापवाद-विरहात्
“सकृद् एव प्रपन्नाये"त्यादि-वचन-बलाच् च
सकृत्-कर्तव्यत्वं सुप्रतिष्ठितम् ।
सर्व-शक्ते परमोदारे च न्यस्त-भरस्य
फल-विलम्बे स्वाभिप्राय-विशेषम् अन्तरेण हेत्व्-अन्तर-विरहात्
अस्योपाय-विशेषस्य प्रारब्धांश-निवर्तनं विशेषः ॥
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि
अहम्
एवं पूर्वार्धेन विलक्षणम् उपायं विधाय
उत्तरार्धेन तच्-छेष-भूतेन अनिष्ट-निवृत्ति-लक्षणं फलम् उद्दिशति –अहम् इति । तत्रोत्तम-पुरुषेणाहम् इति सिद्धाव् अप्य् अधिकोक्तिर्
अर्थ-स्वभावेन सर्व-पाप-विमोचनौपयिक+अघटित-घटना-शक्त्य्-आदिकं,
प्रधान-फलित्वादिकं च द्योतयति ।
त्वाम्
त्वाम् इति पदम्
अधिगत-परावर-तत्त्व-विवेकं,
मयि न्यस्त-भरं, कृत-कृत्त्यं, कर्तव्यान्तर-शेष-रहितं व्यनक्ति ।
सर्वपापेभ्यः
एवं मोक्ष-प्रदं मुमुक्षुं च निर्दिश्य
बन्धकं सांसारिक-पुण्य-पाप-जातं वक्ति– सर्वपापेभ्य इति ।
एतच् च
प्रपत्तेः सर्व-फल-साधनतया
तत्-तद्-अधिकारानुरोधेन तत्-तद्-अभीष्ट-प्रतिबन्धक-व्यक्तिम् उपलक्षयति ।
पापं नाम
शास्त्र-वेद्यम् अन्-अर्थ-साधनम् ।
अनर्थश् च
प्रतिकूल-प्राप्तिः, अनुकूल-निवृत्तिश् च ।
सर्व-शब्दः
प्रतिबन्धक-कर्मणां कार्य-कारण-रूपेण सन्तन्यमानम् अविद्या-वासना-रुचि-प्रकृति-सम्बन्ध-प्रवाहम् अपि
पाप-राशौ प्रवेशयति ॥
मोक्षयिष्यामि
मोक्षयिष्यामीति॥
अनेनाधिकार्य्-अभिसन्धिर् एव नियामको,
न तु मद्-अभिसन्धिर्
इति विज्ञायते ।
सर्व-पाप-विमोचनं नाम
अनादि-काल-विपरीतानुष्ठान-जनित–निग्रहाभिप्राय-परित्यागः ।
सो ऽपि
“मत्-प्रसादात् परां शान्तिम्
अचिरेणाधिगच्छती"त्य्-आकारको ऽभिप्राय-विशेषः ।
एतादृश पुण्य-पाप-लक्षण–संसार-कारणस्य आत्यन्तिक-निरासस् तु –
अन्तिम-दशायां सु-कृतानां सु-हृद्–उपायनं,
दुष्-कृतानां द्विषद्-उपायनं,
न तु +उपायारम्भ-दशायाम् एव,
अन्यथा आश्रित-विषयानुकूल्य-प्रातिकूल्ययोः प्रातिकूल्य-परिहार-लक्षणस्य क्षमापणस्य च
निरवकाशेन वैयर्थ्य-प्रसङ्गः ।
अन्यानुष्ठित-कर्मणाम् अस्य सङ्क्रमे ऽतिप्रसङ्गस् तु
मुमुक्षु-विषयकानुकूल्य-प्रातिकूल्य-लक्षणोपचारापचार-रूप–कर्म-निबन्धनत्वात्
सङ्क्रमणस्य परिहृतः ।
तथा च मुमुक्षु-विषये ऽनुकूलेन भवितव्यम् इति विभाव्यम् ॥
इत्थं सकल ???_____ कथनेन
सेतु-भङ्गे स्रोतः-प्रवृत्तिवद्,
आवरण-भङ्गे प्रकाश-प्रसरवच् च
स्वतः प्राप्तः परिपूर्ण-भगवद्-अनुग्रहाविर्भावः
कथितो भवति ।
आत्म-मात्रानुभव-रूपं कैवल्यं तु
न सर्व-पाप-निवृत्ति-पूर्वकं-
सत्यां सर्व-पाप-निवृत्तौ भगवद्-अनुभव-सङ्कोचे कारण-विरहात्,
केवलात्मानुभव-कारण-भूतस्य ब्रह्मानुभव-प्रतिबन्धकी-भूतस्य च कर्मणस् सत्त्वे
सर्व-पाप-निवृत्त्य्-अनुपपत्तेश् च।
शास्त्र-श्रवण-दशायां, योग-दशायां च
जायमानो ब्रह्मानुभवः
सु-कृत-विशेष-मूलः, करणायत्तः, परिमितः, विच्छेद-सहितश् च ।+++(5)+++
मुक्तदशायां जायमानस् तु
सङ्कोच-विच्छेद-कारण-विरहात्
परिपूर्ण-विषयः, पुनर्-विच्छेद-रहितश् च ।
तादृशानुभव-परीवाहः सर्व-विध-कैङ्कर्य-समूहः ॥
मा शुचः
एवम् उपदिष्टे ऽर्थे विश्वास-दार्ढ्यार्थं
पुनः फलितार्थम् आह– मा शुच इति ।
अत्र विवर्तनीयः शोकः
न यथावस्थितात्मोपदेश-निवृत्तः बन्धु-विनाश-निमित्तः प्राक्तनः,
अपि तु “मा शुचः सम्पदं दैवीम्”
इति वाक्य-निवर्तनीय-शोकान्तरवद् विलक्षणः।
तथा हि –
चिर-काल-सेव्यम्, अन्तराय-बहुलम्,
अत्यन्तावहितानाम् अपि कृच्छ्र-साध्यम् उपायं,
फल-विषयं चात्युत्कटम् अभिनिवेशं पर्यालोच्य
शोचन्तम् अर्जुनम् उद्दिश्य
क्षण-काल-साध्यं सर्वान्तराय-रहितं सु-करम् उपाय-विशेषम् उपदिश्य
ततः “फल-सिद्धौ निर्भरो निस्संशयश् च भूया”
इत्य् उपदेशे सति
उपायान्तरादि-दौष्कर्यादि-मूलक एवायं शोको
नान्य इति स्फुटम् एवैतत् ॥
अत्र मा शुच इत्य्-अनेन
शोक-निमित्तानां सर्वेषाम् अप्य् अंशानां मोचनीयत्वावगमात्
आर्त्य्-अतिशयवतां
तदानीम् एव सर्व-पाप-निवृत्तिः ।
शरीरावसाने मोक्ष-कांक्षिणां मन्दार्तिमतां तदानीम् ।
तत्राप्य् आयुश्-शेषस्यानिष्टतमत्वे
प्रपत्त्य्-अन्तर–वशी-कृत–सर्व-शक्ति-सङ्कल्पेन शेषांशस्यापि निवृत्तिर् भवति ।
आर्त-दृप्त-भेदस् तु
सु-कृत–तारतम्य-मूलक–भगवद्-अनुग्रह-तारतम्य-निबन्धनः ।
“तर्हि आर्त-प्रपत्तौ
आत्म-हनन-दोष-प्रसङ्ग” इति चेत्
प्रायश्चित्त-विशेषेष्व् इव
न दोष-प्रसङ्गः ।
परन्तु दृप्तस्य चिरं जीवितुम् इच्छतः
चिकित्साद्य्-अतिलङ्घनेन काय-वियोजने
अस्त्य् एव आत्म-हिंसनापराधः ॥+++(5)+++
+++(प्रजासम्पत्तिनाशादौ न तथेति विश्वासः।)+++
किं च अत्राभिधीयमानायाः शोक-निवृत्तेः
केनापि प्रकारेण सङ्कोच-विरहात्
उपाय-विज्ञाने तद्-अनुष्ठानेन
ये सर्व-प्रकाराश् शोक-हेतवः,
ते ऽपि निवर्त्यन्ते ।
यतो ऽनुष्ठान-पर्यन्तत्वम् अन्तरेण
नोपदेश-जनितं ज्ञानं स-प्रयोजनम्,
इतरथा +++(महाभारतोक्त-)+++कुलिङ्ग-शकुनि-साम्यापत्तिः
+++(तत्र शावकम् अन्यथोपदिश्य स्वयं सिंहमुखोपवेशनादिसाहसं करोति)+++।
ततश् च पूर्वापर-मध्य-दशासु
अधिकार-विशेषम्, उपाय-विशेषम्, उत्तर-कृत्य-विशेषं, परिपूर्ण-कैङ्कर्य-पर्यन्त-फल-विशेषं च पर्यालोच्य
सम्भावितानां शोकानां निवृत्ति-प्रकारस् त्व् इत्थम् –
अनुष्ठीयमान-शरणागति-धर्मस्य
जाति-वर्णाश्रमादि-विशेष-नियम-विरहात्
प्राप्य-रुचिः, प्रापक-विश्वासः, कार्पण्यादिकं चास्ति चेत्
अनधिकार-निबन्धनः शोको निर्णिबन्धनः ।
साध्य-लक्षणश् चोपाय-विशेषः
स-परिकरः क्षण-काल-साध्य-संकरः, आवृत्ति-निरपेक्षः, उपायान्तराव्यवहितः,
दुष्कर-परिकरान्तर-रहितः, फल-समय-नियम-विकलश् च ।
सिद्धस् तु लघूपाय-मात्रेणापि वशीकार्यः,
फल-प्रदाता, शरण्यः, सर्व-सुलभः, विश्वसनीयतमः,
परम-कारुणिकः, निरङ्कुश-स्वतन्त्रः ।
अतः सर्व-प्रकार-विपरीतोपायान्तरावलम्बन-निबन्धनः शोको निर्हेतुकः ।
एतादृशोपायानुष्ठानाद् अनन्तरम्
आज्ञया ऽनुज्ञया वा क्रियमाणानि सर्वाणि कर्माणि प्रपत्त्य्-अ-परिकराणीति,
तेषां देश-कालादि-वैगुण्येन वैकल्ये सत्य् अपि
उपासनस्येव अस्या अपि परिकर-वैकल्य-शङ्कया शोकस्
त्याज्य एव ।
किं च,
भगवत्-कैङ्कर्यानर्हतापादकानि बुद्धि-पूर्वाणि महा-भागवतापचार-रूपाणि कर्माणि समुत्पादयतः,
दग्ध-पट-तुल्यताम् आत्मानम् आपादयतः,
प्रारब्धस्य पाप-विशेषस्य प्रशमाय
प्रपत्त्य्-अनुष्ठान-काले सङ्कल्प-विशेषं,
तद्-अनन्तर-काले वा प्रपत्त्य्-अन्तरम् अनुतिष्ठन्
निरपराधं चोत्तर-कृत्यं चिकीर्षन्
उत्तरापराध-प्रसङ्ग-निमित्तं शोकं प्रभवति परित्यक्तुम् ।
एवं निर्-अपराधम् उत्तर-कृत्यम् अन्-आकाङ्क्षमाणानाम्
उत्तराघं प्रसक्तम् अपि
मृदु-चेतसाम् अनुतापादि-मूलकेन
पुनः प्रपदन-लक्षणेन प्रायश्-चित्तेन,
कठिन-चेतसां शिक्षा-लक्षणेन+उपक्लेशादिना वा
प्रशमयति शरण्य
इति बुद्धि-पूर्वापराध-मूलक–नरकादि-महा-क्लेश-सम्भावना-हेतुकः परित्यक्तव्यः शोकः ।
दृप्तस्य विलम्बेनाप्य् अपेक्षित-समये फल-सिद्धौ संशय-विरहात्,
केनापि कारण-विशेषेण
सुकृत-विशेष-लक्षणस्य प्रपदनस्यापि विनाशस् सम्भवेत्,
सम्भवेद् वा पाप-विशेषेण जननान्तरम् आत्मनः
इत्यपि शोकः परित्यक्तव्यः ।
अ-धन्य-प्रयोजनस्यास्य प्रपन्नस्य
परम-फल-प्रतिबन्धकी-भूतानां सर्वेषां पापानां निवृत्तत्वात्
केवलात्मानुभवादि-लक्षणैर् अप्य् अन्तरायैः
फल-विलम्ब-शङ्कया न शोकावकाशः ॥
एवं सर्व-प्रकार-शोक-हेतुभ्यो मोचनीयतया
मदीयानुग्रह-विषयी-भूतस्य तव शोकः
उपाय-विशेष-वैलक्षण्यस्य, सिद्धोपाय-भूत-शरण्य-प्रभावस्य,
न्यस्त-भरतया कृत-कृत्यस्य, तस्य+++(→)+++ स्व-भावस्य च
नात्यन्तम् उचितः ।
एवं चरम-श्लोके सार-तमस्य
मा शुच इत्य्-अंशस्य तात्पर्यम्,
एतच् च आत्मीय-चरम-दशायां
सद्-आचार्याः सच्-छिष्येभ्यः समुपदिशेयुः ।
ततश् च चरम-श्लोक-चरम-वाक्यार्थः
सुतरां रहस्यतमम्
इति ध्येयम् ॥
श्लोकार्थानुक्रमणिका
अथ चास्मिन् श्लोके समुपदिष्टानाम् अर्थानाम् अयम् अनुक्रमः–
सर्वधर्मान् परित्यज्य
अधिकार-विशेषः, आकिञ्चन्य-पुरस्-कारः, दुष्कर-परिकरान्तर-नैरपेक्ष्यम्, अशक्य-प्रवृत्त्य्-अनौचित्यम्, दुष्कराभिनिवेश-वैयर्थ्यम्, उपाय-विशेषश् च इत्येते (६) प्रथम-पादार्थाः ।
माम्
शरण्यविशेषः, तस्य सुलभत्व-सुशीलत्वादि-गुण-पूर्णत्वं, हिततमोपदेष्टृत्वं च इत्येते (३) माम् इत्य्-अस्यार्थाः ।
एकम्
प्राप्यस्यैव प्रापकत्वं, निरपेक्ष–सर्व-विषय–निष्प्रत्यूह-कर्तृत्वं, व्याजमात्र-प्रतीक्षत्वम्, उपायान्तर-व्यवधान-निरपेक्षत्वं, परिकरान्तर-निरपेक्ष-प्रसाद्यत्वं, सर्व-फलाद्य्-अर्थि-शरण्यत्वं, शरण्य-वैशिष्ट्यं च (७) इत्य् एक-पदार्थाः ।
शरणम्
उपायान्तर-स्थान-निवेश्यत्वं, भर-स्वीकर्तृत्वम् इत्य्-एतौ (२) शरण-पदार्थौ।
व्रज
भर-न्यास-रूप-साध्योपाय-विशेषः, तस्य परिकराः, सर्वाधिकारत्वं, सकृत्-कर्तव्यत्वं, संकरत्वम्, अ-विलम्बित-फल-प्रदत्वं, प्रारब्ध-निवर्तन-क्षमत्वम् इत्येते (७) व्रज-धात्वर्थाः ।
अधिकारिणा ऽपराधीन-कर्तृत्वं, शास्त्र-वश्यत्वं च इत्य्-एतौ मध्यम-पुरुषार्थौ ।
अहम्
परम-कारुणिकत्वं, सु-प्रसन्नत्वं, निरङ्कुश–स्व-तन्त्रत्वं, दुर्निवारत्वं, परानपेक्षत्वम्, अवसर-प्रतीक्षत्वम् इत्य्-एते (६) अहम् इत्य्-अस्यार्थाः ।
त्वाम्
शरणागतस्य कृत-कृत्यत्वं,
परिगृहीतम् उपायं फलं च प्रति कर्तव्यान्तर-राहित्यं,
भगवद्-अत्यर्थ-प्रियत्वम् इत्य्-एते (३) त्वाम् इत्य्-अस्यार्थाः ।
सर्व-पापेभ्यः
त्रैकालक-विरोधि-भूयस्त्वं विरोधि-वर्ग-वैचित्र्यं च इत्य्-एतौ (२) सर्व-पाप-शब्दार्थौ ।
मोक्षयिष्यामि
ईश्वर-सङ्कल्प-मात्र-निवर्त्यत्वं,
प्रपन्नेच्छा-नियत-विरोधि-निवृत्ति-कालवत्त्वं,
विरोधि-निवृत्ति-स्वरूपं,
कैवल्य-व्यावृत्त–यथाऽवस्थित-स्वरूपाविर्-भावः, परिपूर्णो भगवद्-अनुभवः, सर्व-विध-कैङ्कर्य-लाभः, अ-पुनर्-आवृत्तिश् च
इत्य्-एते (७) मोक्षयिष्यामीत्य्-अस्यार्थाः ।
मा शुचः
पूर्वं शोक-हेतु-प्राचुर्यं,
पश्चात् शोकानर्हत्वं, निस्संशयत्वं, शोकनिवृत्तिः, निर्भयत्वं,
हर्ष-विशेषः, शरीर-पात-काल-प्रतीक्षत्वं, निर्-अपराध-कैङ्कर्य-रसिकत्वम्
इत्येते (८) चरम-वाक्यार्थाः ।
सारः
तथा च त्रिपञ्चाशत् संख्याका अर्थ-विशेषाः प्रधाना अनुशिष्टाः ।
तद्-अनुबन्धिनश् च स्वयमूहनीयाः ॥
अयम् अत्र विशिष्ट-वाक्यार्थः–
अल्प-ज्ञो, ऽल्प-शक्तिः, परिमित-काल-वर्ती, विलम्बासहिष्णुश् च त्वम्
दुर्-अधिगमानि दुर्-अनुष्ठानानि विलम्बित-फलानि +उपायान्तराण्य् अन्तरेण,
सर्व-सु-लभं सर्व-लोक-शरण्यं शरण्योपयुक्त–सर्वाकार-विशिष्टं माम् एकम् एव
उपायतया अध्यवस्य
अङ्ग-पञ्चक-सम्पन्नम् आत्म-रक्षा-भर-समर्पणं कुरु ।
एवम् अनुष्ठितोपायं कृत-कृत्यं मद्-एक-रक्षणीयम् अत्यर्थ-प्रियं त्वां
परम-कारुणिकः सु-प्रसन्नः निर्-अङ्कुश-स्वतन्त्रः स्वार्थ-प्रवृत्तः अहम् एव
सङ्कल्प-मात्रेण बहु-प्रकाराद् अनन्ताद् दुरत्ययात् सर्वस्माद् विरोधि-वर्गात्
अ-पुनर्-अङ्कुरं विमोच्य
परिपूर्ण–मद्-अनुभवेन तुल्य-भोगं विधाय+++(5)+++ तादृशानुभव-परीवाह-रूप–सर्व-देश–सर्व-काल–सर्वावस्थोचिताशेष-कैङ्कर्यम् अङ्गी-कृत्यानन्दयिष्यामि ।
किञ्चिद् अपि विचिन्त्य शोकं मा कृथा इति ॥
॥इति चरम-श्लोकाधिकार-सारार्थः॥