मूलम्
प्रथम-रहस्ये मध्यम-पदेन
शब्दतो अर्थतो वा विहितम् उपाय-विशेषं
तृतीय-पदेनाभिहितं पुरुषार्थ-विशेषं च
विशदं प्रकाशयति द्वितीयं रहस्यम् ।
कठ-वल्ल्यां श्री-प्रश्न-संहितादौ च आम्नानान्
मन्त्रो ऽयं श्रुति-मूलकस् तान्त्रिकः +++(इति द्वेधाऽपि)+++ ।
पूर्वाचार्य-वाक्यम् एतद्
इति केषाञ्चित् प्रवादो ऽपि
आप्तोपदिष्टम् इत्य् आदरार्थः।
“परमाचार्येणेश्वरेण उपदिष्टम्” इति
परिग्रहातिशयार्थो वा ऽनुसन्धेयः ॥
स्थूल-विवक्षा
अस्य च मन्त्रस्योपायोपेय-रूपस्य वरण-समर्पण-रूपस्य वा ऽर्थ-द्वयस्य
प्रतिपादकतया द्वयम् इति व्यवहारः ।
तस्माद् उपायोपेयान्तर-स्पर्श-रहितः
अत्र मुख्योधिकारी ।
तादृशस्य महा-विश्वासवतः
समुदाय-ज्ञान-पूर्वकं सकृद् अस्योच्चारणम् एव
उत्तारकम् इति शास्त्र-सम्प्रदाय-विदां मतम् ।+++(5)+++
यथा-कथञ्चित् भगवन्-नाम-सङ्कीर्तन-प्रभाव-पर-वचन-परामर्शेन कैमुतिक-न्याय-सिद्धः शास्त्र-सिद्धो ऽपि च
शरण्य-शरणागति–तत्-फल-विशेषान् कार्त्स्न्येन प्रतिपादयतो मन्त्र-विशेषस्य प्रभावातिशयः ॥
गद्य-सम्बन्धः
द्वयस्यास्यार्थम् एव सद्-आचार्य-सम्प्रदाय-सिद्धं विवृतवान्
पृथु-गद्येन+++(=शरणागतिगद्येन)+++ भगवान् भाष्यकारः ।
तस्माद् गद्योक्ताः सर्वेप्य् अर्था
अत्र विवक्षिताः ।
गद्ये चात्र “द्वयम्” इत्य् अनन्तरं
“व्याख्यात-प्रायम्” इति पदम् अध्याहृत्य
व्याख्यान-व्याख्येय-भावः सङ्गमनीयः ।
+++(गद्ये)+++ अनन्तर-भागस् तु उत्तर-खण्ड-विवक्षितार्थपर इति भाव्यः ।
विभाव्यश् च –
एवम् अर्थानुसन्धानेन सह
“सदा द्वयं वक्ते"ति
योजनया ऽपि मूल-मूलि-भावः ।
+++(गद्ये)+++ प्रपन्नस्य पर-भक्त्य्-आदि-मूलक–कैङ्कर्य-लाभोक्तिस् तु देहावसान-कालिक–हार्दानुग्रह-मूलक–फल-दशा-तत्परेति
नानुपपन्नम् अत्र किञ्चिद् अपि ॥
श्रीमन्-नारायण
तत्रादौ श्रीमन्-नारायण-पदेन
शरण्यं पर-तत्त्वं प्रकाश्यते ।
विशिष्टस्य शरण्यताम् अवधारयति श्रीमत्-पदम् ।
श्री-शब्द-निर्वचनं तु –
“श्रीञ् सेवायाम्” इति धातोः
कर्मणि कर्तरि च श्रीयते श्रयते इति वा निष्पद्यते ।
तत्र– स्वोज्जीवनार्थिभिर् आश्रीयते,
श्रयते च सर्वेश्वरं
स्वाश्रितान् उज्जीवयितुम् इत्य् अर्थ-विवक्षायां
वात्सल्यातिशय-निबन्धनं पुरुष-कारत्वम्+++(=भगवत्-प्रसादनायाश्रितत्वम्)+++ उक्तं भवति ।
सर्वैः सेव्यते, स्वयं च भगवन्तं सेवते
इत्य् अर्थ-विवक्षायां
सर्वाधारत्वं सर्व-व्यापकत्वं चोक्तं भवति ॥
एवं – “श्रु श्रवणे” इति धातोः
ण्यन्ताद् अ-ण्य्-अन्ताच्च
शृणोति श्रावयतीति
श्रीर् इति निष्पद्यते ।
तत्राश्रितानाम् आर्त-ध्वनिं
शृणोति श्रावयति च भगवन्तम्
इत्य् अर्थ-विवक्षायां
पुरुष-कार-कृत्यम् उक्तं भवति ।
तथा– शरणागत-संरक्षण-लक्षणं धर्मं
भगवतः सकाशात् श्रुत्वा
श्रावयति समय-विशेषे च भगवन्तम्
इत्य् अर्थ-विवक्षायां
श्रियो ऽतिशयतमानृशंस्यम् उक्तं भवति ।
तथा भगवतः सकाशात् लोक-हितं श्रुत्वा
शत्रूणाम् अपि हितं श्रावयतीत्य् अर्थ-विवक्षायां
लोकानुग्रहैक–स्व-भावत्वम् उक्तं भवति ॥
एवं– शृ हिंसायाम् इतिधातोः
शृणातीति श्रीर् इति निष्पत्तौ
आश्रितानाम् उपाय-विरोधिनः प्राप्ति-विरोधिनश् च
समस्तस्यापि पापस्य निवर्तकत्वम् उक्तं भवति ॥
एवं– श्रीञ् पाके इति धातोः
श्रीणातीति श्रीर् इति निष्पत्तौ
आश्रितानां कैङ्कर्य-पर्यन्त-गुण-परिपाकं जनयतीत्य् उक्तं भवति ।
एतेष्व् अर्थेषु
उपायत्वोपयुक्ताः पूर्व-खण्डे,
प्राप्यत्वोपयुक्तास् तूत्तर-खण्डे चानुसन्धेयाः ।
सामान्यतः श्रीमान् इत्य् उक्ताव् अपि
श्रुति-वशात् श्रियो जगन्-मातुः पतिर् इत्य् अर्थविवक्षया
पत्न्याः पारार्थ्यं, पत्युः परत्वं सौलभ्यं च द्योत्यते ।
नित्य-योग-विवक्षया तु –
फल-दशायाम् उपाय-दशायां च
श्रियः अ-विना-भावः प्रतीयते ॥
नारायणः
इत्थम् अपेक्षितं श्रियः पुरुष-कारत्वम् अप्य् अधिकयति
नारायण-पद-प्रतीतो गुण-गणः । तत्र –
वात्सल्य-स्वामित्व-सौशील्य-सौलभ्य-
सर्व-ज्ञत्व–सर्व-शक्तत्व–परम-कारुणिकत्व–
स्थिरत्व-परिपूर्णत्व–परमोदारत्व–प्रभृतयः
उपायत्वोपयुक्ताः प्राधान्येन अनुसन्धेयाः ।
उपेयत्वोपयुक्ताः शेषत्व-निरतिशय-भोग्यत्वादयस् तु
उत्तरखण्डे अनुसन्धेयाः ॥
पूर्व-खण्डः
चरणौ
श्रीमन्-नारायण-चरणाव् इत्य् अत्र
पद-त्रय-पक्षे तवेति पदम् अध्याहार्यम् ।
चरणाव् इति दिव्य-मङ्गल-विग्रहम् उपलक्षयति ।
तेन नित्य-दिव्य-मङ्गल-विग्रह-योगः प्रधानतमो गुणो ऽनुसन्धेयः ।
अनुसंहितश् च भगवतो दिव्यात्म-स्वरूपे प्राग्-उपदर्शिते, गुणगणे च
विशद-प्रकाश-विरहिणां ज्ञान-सङ्कोचं विनिवारयति ।
तादृश-प्रकाशशालिनो ऽपि केचिद् आचार्याः
दिव्य-मङ्गल-विग्रह-भोग्यतातिशयेन भगवद्-विषये स्वात्मानं देहात्मवादिनम् आहुः । तस्मात् मुमुक्षूपयुक्त-शुभत्वाश्रय-युक्तं दिव्य-मङ्गल-विग्रहम् उपादेयतमं विदुः ।
अत्र चित्तालम्बन-सौकर्यातिशयेन, दासत्वौचित्यातिशयेन, कृपोत्तम्भकत्वातिशयेन, भोग्यत्वातिशयेन च
चरणाव् एवाश्रयणीयौ ।+++(5)+++
श्री-विशिष्टस्य, शरण्यताया विशेष्यस्य
सर्व-शक्तत्व-विरोधादि-प्रसङ्गस् तु
विशेषणस्य पुरुष-कारतायाम् अपि तुल्यः।
अत्र ईश्वर-स्वातन्त्र्य-नियतत्वेन समाधानं तत्रापि तुल्यम् ॥
शरणम्
उपायश् शरण-शब्दार्थः -
भगवत उपायान्तर-स्थान-विवेकेन स्व-यत्न-विनिवृत्तिः,
तया च भर-न्यासः फलति ।
उपायान्तर-स्थानापत्ति-लक्षण–प्रपत्ति-प्रकार-प्रदर्शनायैव
सर्व-फलोपाय-भूतस्यापि भगवतः
विशिष्य इदानीम् उपायत्वेन अनुसन्धानम्
इह दर्शितम् ।
उपायान्तर-भूत-भक्ति-स्थाने प्रपत्तेर् निवेशे ऽपि
प्रपत्त्य्-अङ्गक-भक्ति-साध्यं फलं
प्रपत्ति-वशी-कृतेश्वरीय-सहज-कारुण्यादि-स्वभाव-निबन्धनम्
इति भगवत एव तत्र निवेश इति व्यवहारः ।
स च निवेशः–
अकिञ्चनस्य मम
उपायान्तरानुष्ठान-भरम् अन्तरेणैव +अनुष्ठान-साध्यः फल-जनन-सङ्कल्पः
भवतैव भरतया स्वीकर्तव्य
इति प्रार्थनया भर-स्वीकार-लक्षणः ।
एष एव निष्कृष्यमाणः
स्व-निर्भरत्व-पर्यन्तं भर-समर्पणम् इत्य् उच्यते ।
तथा च साम्प्रतम्
उपाय-शब्देन स्व-यत्न-विनिवृत्ति-पर्यन्त-भर-समर्पणं विवक्षितम्
इति साम्प्रतम् एव ॥
यत्र उपायत्व–प्रार्थना-समर्पणयोः पृथग् उक्तिः
तत्रोपाय-पदेन निरुक्तार्थाविवक्षया,
भर-समर्पण–स्पष्टी-करणाय पृथग् “उक्तिर्” इति प्रयोजन-कल्पनया वा,
त्र्य्-अंश-लक्षणे+++(=??)+++ समर्पणे भर-समर्पणस्य अनेन पदेन विवक्षया वा
पुनर्-उक्तिः परिहरणीया ।
एतादृशं +++(“श्रीमन्-नारायण-चरणौ”)+++ -
केवल-लक्ष्मीशोपायत्वं,
विशेषतो न्यासविद्यायां वेद्याकारः,
तद्-आक्षिप्तश् च ज्ञान-शक्त्य्-आदिः ॥
प्रपद्ये
प्रपद्ये इत्य्-अनेन
महा-विश्वास-रूपो ऽध्यवसाय-विशेषः प्रत्येतव्यः-
यादृशे च सति विश्वासे
ततः कदापि न संशयोन्मेषः
तादृशः प्रथम-क्षणावच्छिन्नः प्रपत्त्य्-अङ्गभूतः ।
मन्द-विश्वासम् अप्य् अधिकारिणं
विशिष्य कटाक्षयितुं प्रवृत्तः
पूर्ण-विश्वासं कारयतीति प्रमाण-प्रमितम् ।
इत्थं महा-विश्वास-कथनेनापि
प्रार्थना कथिता भवति ।
अस्याम् एव प्रार्थनायां
गोप्तृत्व-वरणम् अन्तर्भूतं,
न पृथग्-भूतं वेदितव्यम् ॥
इदम् अत्र अवधेयम्–
इष्ट-प्राप्त्य्–अनिष्ट-निवृत्ति-लक्षणं फलम्
उत्तरखण्डेन प्रार्थ्यते ।
अङ्ग-प्रपत्ति-निष्ठस्येव स्व-तन्त्र-प्रपत्ति-निष्ठस्य
भक्ति-लक्षणोपाय-प्रार्थना नास्ति ।
तस्माद् अ-किञ्चन–भर-न्यासे
शरण्यस्यैव उपायान्तर-स्थानापत्त्या
भर-स्वीकारांशः प्रार्थ्यते
इति वक्तव्यम्॥
तथा च पूर्वोत्तर-खण्डयोः विशिष्टो वाक्यार्थः –
अकिञ्चनाय मह्यं
भवतैव उपायान्तर-स्थाने स्थित्या
अभिमत-फल-विशेषो दातव्यः
इति यथोक्तम् “आत्म-रक्षा-भर-निक्षेपं करोमी"ति विशिष्ट-प्रार्थनान्वितः पर्यवस्यति ॥
उत्तम-पुरुषः
अथ उत्तम-पुरुषेण
सिद्धोपाय-वशीकरण-लक्षणः पुरुष-प्रयत्न-साध्यः व्याज-विशेषः
स्व-कर्तृकतया सिद्ध्यति ।
तद्-औचित्याऽऽयातो भवति
कार्पण्य-रूपः परिकरः ।
एवम् अकिञ्चनाधिकारिक–भर-समर्पण–लक्षणोपाय-कथनेन
धर्मान्तर-नैरपेक्ष्यम् अस्य अर्थ-सिद्धं भवति ।
एवं च शरण-शब्दान्वितेन “प्रपद्ये” इति पदेन महा-विश्वास–गोप्तृत्व-वरणात्म-समर्पण–कार्पण्य-रूपाणि चत्वारि निर्दिष्टानि ।
स-विशेषण-नारायण-पदेन
आनुकूल्य-सङ्कल्पः, प्रातिकूल्यवर्जनं च निर्दिष्टे ।
इति विवेकः ।
वर्तमान-निर्देशः
परिकराश् चैते
सकृद् एवानुष्ठेयाः ।
वर्तमान-निर्देशस् तु बर्हिर्-लवन–निर्वापादि-मन्त्रेष्व् इवानुष्ठान-कालाभिप्राय-मूलः ।
अत्र –
वर्तमान-निर्देशेन वर्तमान-देहावधिकं
प्रपत्तेर् अनुष्ठातव्यत्वं विवक्षितं,
यावत्-फलं प्रपत्ति-परिकर-भूत–महा-विश्वासानुवर्तनं विवक्षितं,
प्रपत्त्य्-अनुष्ठान-वेलायां सङ्कल्पितस्य आनुकूल्यादेः
प्रपत्ति-परिकरतया यावत्-फलम् अनुवर्तनीयत्वं विवक्षितं,
राग-प्राप्त-प्रपत्ति-लक्षण-भोगानुवर्तनं विवक्षितम्
इति पक्ष-चतुष्टयं प्रमाण-विरुद्धं वेदितव्यम् ॥
इत्थं पूर्व-खण्डेन
सर्व-शरण्यत्वं, शरणागति-स्वरूपं, तत्-परिकरः, तत्राधिकारि-विशेषश् च
इत्य् एतच्-चतुष्टयं प्रकाशितम् ।
तेनानन्योपायत्वं सिद्धम् ।
महोदार-भूतस्य शरण्यस्य,
उत्तर-खण्डः
सर्वोत्कृष्ट-विषयकस्य वशी-करण-विशेषस्य,
शेषतैकरसस्य स्व–स्व-रूपस्य
चानुरूपं फलं समस्त-विरोधि-निवृत्ति-पर्यन्तं कैङ्कर्यम्
उत्तर-खण्डेन प्रार्थ्यते ।
तेनानन्य-प्रयोजनत्वम् उक्तं भवति ॥
श्रीमते
अत्र स-विशेष-नारायण-शब्दः
प्राप्यत्वानुगुणं स्वामित्वादिकम्,
अनन्त-गुण-विभूति-विशिष्टस्य स्वामिनः
सर्वैर् अपि प्रकारैः निरतिशयं भोग्यत्वं च
यथा-प्रमाणं प्राधान्यतः प्रकटयति ।
एवम् उभय-विभूति-विशिष्टस्य प्राप्यतायाम् अपि,
आत्म-हविर्-उद्देश्यतया, शेषत्व-निरूपकतया,
तन्-निबन्धन-कैङ्कर्य-प्रति-सम्बन्धितया च
दम्पत्योः प्रधान-प्राप्यतां प्रदर्शयति श्रीमच्-छब्दः ।
श्री-शब्दस्य प्राग्-उक्तार्थेषु
सेव्यत्वादिकम् अत्र विवक्षितम् ।
नारायणाय
श्रीमत इत्य् एतावता विशेष्य-सिद्धाव् अपि सर्व-विध-कैङ्कर्योपयिक–प्रीति-विशेष–प्रयोजनी-भूत–परिपूर्णानुभव-लाभाय
“नारायणाये"ति विशेष्यपदम् ।
तादर्थ्य-लक्षण-शेषत्वस्य सिद्धतया
तद्-अनुरूपं साध्यं परिपूर्णानुभव-पूर्वकं कैङ्कर्यं प्रार्थनीयं
चतुर्थ्या लक्ष्यते ।
तेन भवेयम् इति पदम् अध्याहार्यम् ॥
नमः
एवं प्राधान्येन प्रथमम् इष्ट-प्राप्तिं संप्रार्थ्य
अनन्तरम् अनिष्ट-निवृत्तिर् मनसा प्रार्थ्यते ।
इष्ट-प्रार्थनया एव सामान्यतो ऽनिष्ट-निवृत्ति-सिद्धाव् अपि
अनन्योपायत्व+अनन्य-शेषित्व+अनन्य-प्रयोजनत्व-प्रत्यनीक-रूपाणां
रक्षण-विरोधि–शेषत्व-विरोधि–कैङ्कर्य-विरोधिनाम् अनिष्ट-विशेषाणां
विनिवृत्तये पुनर् उपन्यासः ।
अत्रापि “स्याम्” इति पदम् अध्याहार्यम् ।
“न मम स्याम्” इति तदर्थः ।
इयम् अहङ्कार-निवृत्ति-द्वारा सर्वानिष्ट-निवृत्ति-परा योजना ।
“किञ्चित् स्याद्” इति वा अध्याहार्यम् ।
“न मम किञ्चित् स्याद्” इति तद्-अर्थः ।
इयं सर्व-विषय–मम-कार-निवृत्ति-द्वारा सर्वानिष्ट-निवृत्ति-परा योजना ।
अत्र केचित् फलान्तरानुभव-न्यायेन
शङ्कितैः स्वाधीन-स्वार्थ-कर्तृत्व–स्वाधीन-स्वार्थ-भोक्तृत्वादि–लक्षणैः प्रधानदोषैः
अ-संस्पृष्टम् इष्टं प्रार्थ्यते इत्य् अनुसन्दधते ।
केचिच् च “नमसा निर्भरत्वम् उच्यते”
इति स्वनिर्भरत्व-पर्यन्तं भर-समर्पणम् उच्यते
इति अनुसन्दधते ।
इयम् इन्द्राय-हविर् “न मे"तिवत्
“अहं श्रीमते नारायणाये"ति
भर-फल-सहितं स्वात्मानं परमात्मनि नमस्यन्
न ममेति तत्र स्व-सम्बन्धो निषिध्यते
इतीयं समर्पण-परा योजना ।
पूर्णार्थः
अत्र पूर्व-खण्डो ऽङ्ग-पञ्चक-परः ।
उत्तरस् त्व् अङ्गि-परः ।
चतुर्थी पर-सम्बन्ध-विधि–तत्-परा ।
नमस् तु स्व-सम्बन्ध-निषेध–तत्-परम्,
पर-निरपेक्ष-कर्तृत्वादि-निषेध–तत्-परं वा ।
वस्तुतस् तु – स्थूल-प्रक्रियया नमश्-शब्दस्य
समर्पण-वाचित्वम् उचितं वक्तुम् ॥
इदम् अत्र विवेक्तव्यम्–
कृत्स्नस्य द्वयस्यात्म-समर्पण-परत्वे
स्व-रूपानुरूपः फल-विशेषो ऽर्थ-सिद्धो भवति ।
उत्तर-खण्डस्य पूर्वोक्त-रीत्या फल-परत्वे
पूर्व-खण्डे शरण-शब्दान्वित-क्रिया-पदेन
समर्पणं विवक्षितम् इत्य् अनुसन्धेयम् ॥
एवं द्वय-घटिक-पदैः
क्रमेण शब्दतो ऽर्थतश् च प्रकाशितानां
प्रधानानाम् अयम् अनुक्रमः –
+++(“श्रीमन्”)+++ पुरुष-कार-योगः,
+++(“नारायण”)+++ तन्-नित्यत्वम् उपाय-वैशिष्ट्यं शरण्य-गुण-पूर्णत्वं सम्बन्ध-विशेषः,
+++(“चरणौ”)+++ दिव्य-मङ्गल-विग्रह-योगः,
तत्र शेष-भूतस्य उचितम् अवलम्बनं,
+++(“प्रपद्ये”)+++ तत्र उपायत्व-प्रकारः वशी-करण-विशेषः,
तस्य च परिकर विशेषाः,
+++(“श्रीमते”)+++ प्राप्य-वैशिष्ट्यं,
+++(“नारायणाय”)+++ गुण-विभूति-विशिष्ट-प्राप्यत्वं,
कैङ्कर्य-प्रति-सम्बन्धित्वं, कैङ्कर्य-प्रार्थना, सर्व-विध-कैङ्कर्य-लाभः सर्वानिष्टनिवृत्तिः,
तस्य च अत्यन्तिकत्वं, पराधीनं, परार्थं च कर्तृत्वं,
तथाविधं च भोक्तृत्वम् इत्यादयः,
तद्-अपेक्षिताश् च मार्दवादय इति ॥
यद्य् अपीदं मन्त्र-रत्नं
शारीर-शास्त्रवत् उत्पत्ति-क्रमम् अनुसृत्य
तत्त्व-हित-पुरुषार्थान् प्रतिपादयति,
तथापि “मुमुक्षुर् वै शरणमहं प्रपद्ये”
इति श्वेताश्वतर-मन्त्रवद् अर्थ-क्रमानुरोधेन
फल-प्रतिपादकं वाक्यं प्रथमम् अनुसन्धेयम् ।
तथा मूल-मन्त्रेप्य् अयं क्रम-प्रकारो विवक्षित
इत्य् आचार्याणाम् आशयः ॥
अत्र त्रयाणाम् अवान्तर-वाक्यानाम् उपाय-प्रधानतया
एक-वाक्यतः पर्यवसान-प्रकारस् त्व् इत्थम्–
सर्व-स्वामिनः सर्व-प्रकार-निरतिशय-भोग्यस्य
श्रिया नित्य-युक्तस्य नारायणस्य चरणयोः
शेषतैक–स्व-रूपानुरूपस्य सर्व-देश–सर्व-काल–सर्वावस्थोचितस्य सर्व-विधस्य परिपूर्ण-कैङ्कर्यस्य
प्रतिबन्धकी-भूत–सर्व-कर्म-निवृत्ति-पूर्वकस्य प्राप्तये,
अत्यन्ताकिञ्चनो ऽहं स्व-रक्षण-भरादिषु ममान्वयो यथा न स्यात्
तथा श्रीमतो नारायणस्य चरणयोः
अङ्ग-पञ्चक-सम्पन्नम् आत्म-रक्षा-भर-समर्पणं करोमीति ॥
॥इति द्वयाधिकारः॥