अथ रहस्यत्रयस्य पद-वाक्य-योजनाक्-रमो निरूप्यते॥
रहस्यत्रयम्
तत्र प्रथमं रहस्यं
परशेषतैक-रस–स्व-रूपादीन् प्रकाश्य
समस्त-प्रतिबन्धक-निवृत्ति-पूर्वक–परम-पुरुषार्थ-रुचि-श्रद्धा-जनन-मुखेन
उपायाधिकारं पूरयतीति
सत्तां च लम्भयतीति च
धारकम् इत्य् उच्यते ॥
द्वितीयं त्व् इत्थं पूर्णाधिकारस्य
फलापेक्षा-पूर्वकोपायानुष्ठान-प्रकारं सकृद् उच्चरितं सद् विशदयतीति
सदानुसन्धानेन कृतार्थयतीति च
भोग्यम् इत्युच्यते ।
तृतीयं पुनः
एतादृशम् उपाय-विशेषं विदधत उपायौपयिक-ज्ञान-विशेषोपचय-हेतुतया
पोषकं चेत्य् अभिधीयते ।
तत्र सर्वत्र सर्वस्याप्य् अर्थस्य
शब्दतोऽर्थतो वा वेदितव्यत्वेपि
एकैकस्यैकैकत्र तात्पर्यम्
इति व्यवस्थितिः ॥
मूल-मन्त्रे प्रथम-पदे प्रथमाक्षरेण संक्षिप्तं शरण्य-स्वरूपं
द्वितीय-तृतीय-पदाभ्यां प्रतीतम् उपायम् उपेयं च
क्रमशः प्रकाशयति द्वयम् ।
तत्रोत्तम-पुरुषेण विवक्षितं चोपायान्तर-नैरपेक्ष्यं,
नमश्-शब्द-संक्षिप्तं विरोधि-निवृत्त्य्-अंशं च
विशदयति चरमश्लोकः ॥
ॐकारः
प्रथम-रहस्ये प्रणवः आत्म-समर्पण-पर
इति केचिद् आहुः,
स्व-रूप-प्रतिपादन-मात्र-पर इति केचित् ।
अकारः
तत्राद्येनाकारेण सर्व-वाचक-मूलेन सर्व-वाच्य-मूल-नारायण-वाचकेन
कारणत्वं तद्-अनुगुण-गुण-योगश् च विवक्षितः ।
तथा रक्षण-प्रीणनादि-+++(“अव”-)+++धातु-विशेष-निष्पन्नत्वेन
निरुपाधिक-रक्षकत्वादिकं विवक्षितम् ।
स्व-रूप–निरूपकतया, देवतान्तर-व्यावर्तकतया, उपयोग-विशेषवत्तया च
लक्ष्मी-वैशिष्ट्यम् अप्य् अर्थतो विवक्षितम् ।
उकारस्य लक्ष्मी-वाचकत्वे शाब्दम् एव +++(न तूकारस्य +अवधारण-वाचकत्वे)+++॥
आत्म-समर्पण-पक्षः
सो ऽयम् अकारः
प्रथमपक्षे सम्प्रदानार्थक-लुप्त-चतुर्थ्येक-वचनान्तः +++(→“आय”)+++ -
प्रणवस्य समर्पण-करण-मन्त्रत्वेन विधानात्
तस्य च अनुष्ठेयार्थ-प्रकाशकत्वावश्यकत्वात्,
समर्पणीयस्य तृतीयाक्षरेण प्रथमान्तेन प्रतिपन्नत्वात्,
उद्देशस्य प्रकृति-मात्र-सिद्धत्वात्,
तद्-अनुगुण-विभक्तेः स्वीकरणीयत्वात् ।
मन ज्ञाने, मन परिमाणे इत्य्-आदि-धातु-विशेष-निष्पन्नत्वेन
मकारः ज्ञान-स्वरूप–ज्ञान-गुणकाणु-परिमाण–
जीव-विशेष-रूपानुसन्धातृ-विशेषको ऽपि
सर्व-शेषोपलक्षकः ।
जीव-सामान्य-वाचको ऽपि
विशेष-पर्यवसायीति वा
अस्मच्-छब्द-समानार्थक इति वाऽत्र प्रभेदाः ।
समर्पित इति पदम् अध्याहार्यम् ।
तथा च
“अकार-वाच्य-स्वभाव-विशिष्टाय अहं समर्पित”
इत्य् उपाय-पर-वाक्यार्थः ॥
स्व-रूप-प्रतिपादन-मात्र-पक्षः
द्वितीयपक्षे –
अकारः तादर्थ्यार्थक-लुप्त-चतुर्थ्येक-वचनान्तः ।
उकारस् त्व् अवधारणार्थकः ।
अवधारणस्य अन्य-योग-व्यवच्छेद-रूपत्वे अनन्य-शेषत्व-सिद्धिः ।
अ-योग-व्यवच्छेद-रूपत्वे पृथक्-सिद्ध्य्-अनर्हत्व-सिद्धिः ।
तथा च–
अकार-वाच्य-स्वभाव-विशिष्टाय
अनन्यार्ह-निरुपाधिक-शेष-भूतो ऽहम्
इति स्वरूप-पर-वाक्यार्थः ॥
नमः
एवं नमः शब्दस्थः मकारः
प्रणव-स्थ-मकार इव
प्रत्यग्-आत्म-वाचकः षष्ठी-विभक्त्य्-अन्तः ।
विभक्त्य्-अर्थस् तु
प्रकृत-विवक्षित-शेषत्व-लक्षणः सम्बन्ध-विशेषः ।
न-कारो निषेधार्तकः।
स्वामित्वाभावः
निषेधानुयोगी च
अनुषक्त-प्रणव-मकारार्थः ।
तथा च –
“स्व-निरूपित-शेषत्वाभानवान् अहम्” इति वाक्यार्थः ।
गुणानां प्रधानानुवर्तितया
स्व-व्यतिरिक्त-समस्त-वस्तु-निरूपित-
निरुपाधिक-स्वामित्वाभानवान्
इति फलितार्थः ।
इदम् एव +++(जीव-रूप-वस्तु-)+++विशेष-निर्देश-प्रयोजनम् ।
स्वातन्त्र्याभावः
यद् वा – “अहम् न ममे"ति
स्वस्य स्व-निर्वाहकत्वं व्यवच्छिद्यते ।
निर्वाह्य-निर्वाहक-भाव-रूपः सम्बन्धः षष्ट्य्-अर्थः ।
निर्वाहकत्वम् एव वा स्वातन्त्र्यम् ।
यद् वा – स्वातन्त्र्यम् इति पदम् अध्याहार्यम्,
न मकारानुषङ्गः ।
“न मम स्वातन्त्र्यम्” इत्य् अर्थः ।
तच् च निरपेक्ष-कर्तृत्वार्हत्वम् ।
तथा च –
श्रीमत एव निरुपाधिक-स्वाम्यं स्वातन्त्र्यं च,
जीवस्य पारार्थ्यं पारतन्त्र्यं
चेति तार-नमसोः सारार्थः ॥
तथा– नमश्-शब्दस्य अहिर्-बुध्न्य-संहिता-रीत्या
स्थूल-सूक्ष्म-पर-रूपास् त्रयो विद्यन्ते ।
तत्र स्थूलोऽर्थः स-परिकरात्म-निक्षेपः ।
सूक्ष्मार्थो ऽहङ्कार-मम-कार-निषेधः ।
परार्थस् तु– नकारः गत्यर्थकः । मकारः प्रधानार्थकः, विसर्गः पुरुषोत्तमार्थकः । तथा च–“परमात्मैव मुख्योपायः स्वप्राप्तय” इति ॥
नारायण-पदार्थः
अथ नारायण-पदार्थः–
नरस्य भगवतः इमे नाराः सर्वाणि तत्त्वानि ।
जन्य-जनक-भावः संसर्गः ।
तेन स्व-व्यतिरिक्त-सर्व-वस्तु-निरूपित–सर्व-विध-कारणत्व-सिद्धिः ।
ईयते इत्य् अयनम्
इति कर्म-व्युत्पत्त्या व्याप्यम् इत्य् अर्थः ।
नाराः अयनं यस्येति बहुव्रीहिणा सर्व-व्यापकत्व-सिद्धिः, तद्-अनुगुण-निरतिशय-सूक्ष्मत्वादि-सिद्धिश् च ।
ईयते अस्मिन्न् इत्य् अधिकरण-व्युत्पत्त्या,
नाराणाम् अयनम् इति तत्पुरुषेण सर्व-लयाधिकरण-विवक्षया च
पूर्वोक्त-सर्व-सिद्धिः ॥
अथवा रीयते इति रः, क्षयिष्णुः, विकारी,
अचिद् इति यावत् ।
नरः नग-नैकादि-शब्दवत् न-शब्देन समासेन तद्विलक्षणः । चिद् इत्यर्थः ।
तेषां समूहः नाराः,
तेषाम् अयनम् इति तत्-पुरुष-पक्षे
ईयते अनेनेति करण-व्युत्पत्त्या सर्वोपायत्वम्,
ईयते असाव् इति कर्म-व्युत्पत्त्या सर्वोपेयत्वम्
ईयते अस्मिन्न् इत्य् अधिकरण-व्युत्पत्त्या सर्वाधारत्वं सिद्ध्यति । निरुक्तोपायत्वोपेयत्वोपयुक्तं परत्वं, सौलभ्यं च अर्थात् सिद्ध्यतः ।
तथा +++(प्रदर्शित-रीत्या)+++ – बहु-व्रीहिणा अन्तर्-व्याप्तिः,
तत्पुरुषेण बहिर्-व्याप्तिश् च सिद्ध्यतः ॥
चतुर्थी
ततश् चतुर्थी तादर्थ्य-सम्प्रदान-योग्योपपद-भेदेन यथार्हं ग्राह्या । तथा च –
रक्षकत्वं, स्वामित्वम्, उपायत्वं, नियन्तृत्वम्, उपेयत्वम् इत्य् एते
भगवद्-आकाराः क्रमशः अकार-चतुर्थी–नमो-नारायण-चतुर्थी–बोध्याः ।
तथा – अनन्यार्ह-शेषत्व–अनन्योपायत्व–अनन्योपेयत्वानि
जीवात्माकाराः प्रधानाः
क्रमात् पद-त्रय-बोध्या इति विशेषः ॥
वाक्यार्थाः
अत्र निष्कृष्ट-योजनानि शेषास्तु–
मन्त्रो ऽयम् एकम् एव वाक्यं, वाक्य-द्वयं, वाक्त्य-त्रयं चेति सम्प्रदाय-प्रभेदाः ।
तत्रैकवाक्यत्व-पक्षे उपाय-परं, उपेय-परं चेति योजना-द्वयम् ।
द्वि-वाक्यत्व-पक्षे – स्व-रूप-परं, उपाय-परम्, उपेय-परम् चेति योजना-त्रयम् ।
त्रि-वाक्यत्व-पक्षे
- प्रथम-वाक्य-द्वयम् स्व-रूप-परम्, अनन्तरम् एकं वाक्यम् उपेय-परम् इति
स्वरूपोपेय-पर इत्येको योजना-विशेषः । - प्रथममेकं वाक्यं स्व-रूप-परम् ।
अनन्तर-वाक्य-द्वयम् उपेय-परम् इति तादृश +++(→स्वरूपोपेय-पर)+++ एव द्वितीयः । - प्रथम-वाक्यं स्व-रूप-परम्, अनन्तर-द्वयम् उपाय-परम्
इति स्व-रूपोपाय-पर इति तृतीयः । - प्रथमम् उपाय-परम्, अनन्तर-द्वयम् उपेय-परम् इति उपायोपेय-परस् तुरीयः ।
- क्रमेण वाक्य-त्रयं स्वरूपोपायोपेय-परम् इति पञ्चमः ।
आहत्य दश-विधो योजना-विशेषः ।
तद्-अर्थास् तु–
१. प्रथमः +++(एक-वाक्यत्वम् उपाय-परम्)+++ – प्रणव-प्रतिपाद्य–स्व-भाव–विशिष्ट-नारायणोद्देश्यकम् आत्म-रक्षा-भर-समर्पणं करोमीति ।
२. द्वितीयः +++(एक-वाक्यत्वम् उपेय-परम्)+++ – प्रणव-प्रतिपाद्य–स्व-भाव–विशिष्ट-नारायणोद्देश्यकां शेष-वृत्तिं करवाणीति ।
३. तृतीयः +++(द्वि-वाक्यत्वम् स्वरूप-परम्)+++ – अकार-नारायण-शब्द-वाच्य–सर्व-रक्षकत्व–सर्वाधारत्वादि–विशिष्टायैव
अहं निरुपाधिकानन्यार्ह-शेष-भूतः ।
न मह्यं, न वा किञ्चिद् अपि मह्यम् ।
न च मम निरपेक्षं स्वातन्त्र्यम् इति ।
४. तुरीयः +++(द्वि-वाक्यत्वम् उपाय-परम्)+++ –
निरुपाधिक-हवी-रूपो ऽयम् आत्मा अकार-वाच्य-नारायणायैव भरतया समर्पितः । न ममेति ।
अत्र समर्पित इति पदाध्याहारः ।
५.पञ्चमः +++(द्वि-वाक्यत्वम् उपेय-परम्)+++ –
अहम् अकार-वाच्य-नारायणायैव स्याम्, न मम स्याम् इतीष्ट-प्राप्त्य्–अनिष्ट-निवृत्ति–प्रार्थना-रूपः ।
अत्र स्याम् इति पदाध्याहारः ।
६. षष्ठः +++(त्रि-वाक्यत्वम् स्वरूपोपेय-परम्)+++ –
अकारार्थायैवाहं शेषः, न मह्यम् । नारायणाय भवेयमिति ।
अत्र भवेयम् इति पदाध्याहारः ।
तदर्थस्तु– नारायणोद्देश्यकं सर्व-देश-दशा-कालोचित–सर्व-विध-कैङ्कर्यं करवाणीति ।
७. सप्तमः +++(त्रि-वाक्यत्वम् स्वरूपोपेय-परम्)+++ – अकारार्थायैवाहं शेषः। न मम स्यां, नारायणायैव स्याम् इत्य् अनिष्ट-निवृत्तीष्ट-प्राप्ति-रूपोपेय-प्रार्थनारूपः ।
८. अष्टमः +++(त्रि-वाक्यत्वम् स्वरूपोपाय-परम्)+++ –
अकारार्थायैवाहं शेषः। न मम स्यां, नारायणायैव स्याम् इत्य् अनिष्ट-निवृत्तीष्ट-प्राप्ति–प्रार्थनोपलक्षितात्म-निवेदन-परः -
अयन-शब्दे करण-व्युत्पत्त्या भगवतः उपायत्वस्य सिद्धत्वात् ।
९. नवमः +++(त्रि-वाक्यत्वम् उपायोपेय-परम्)+++ –
“अकारार्थायैव मकारार्थो ऽहं भरत्वेन समर्पितः ।
न मम स्याम्, नारायणस्यैव स्याम् ।” इति ।
१०. दशमः +++(त्रि-वाक्यत्वम् स्वरूपोपायोपेय-परम्)+++ –
अकारार्थायैवाहं शेषः ।
तस्मै आत्म-रक्षा-भर-समर्पणं करोमि ।
नारायणाय भवेयम् ।
सर्व-देश–सर्व-काल–सर्वावस्थोचित–सर्व-विध-कैङ्कर्यं करवाणीत्यर्थः ।
इत्थं स्वरूपोपायोपेयेषु
एकस्य द्वयोर् वा शाब्दत्वे ऽपि
इतरस्यार्थत्वम् अवगन्तव्यम् ।
सर्वेषां शाब्दत्वं चरम-योजनायां सिद्ध्यतीति
इयम् एव स्वरसतमा योजना -
इति सर्वं चतुरश्रम् ॥
इति मूलमन्त्राधिकारः