२६ प्रभावरक्षा

इत्थम् उपायस्य-प्रभावो व्यवस्थापितः ।
अथ एतत्-प्रभाव-विषयक-प्रमादाः परिह्रियन्ते॥

विद्यान्तर-न्यायेन उत्तर-पूर्वाघाश्लेष-विनाशः
अधिकारि-समवेतार्त्यानुगुण्येन प्रारब्ध-विनाशो ऽपि
“मा शुच” इत्य्-अस्याभिप्राय
इति सिद्धान्तः ।

अत्रेयम् आशङ्का–

एवं सतीहोपाय-निष्ठः
प्रारब्ध-कर्म-विशेष-फली-भूतं कर्म च नोपलभेत +++(भगवत्-कृपया)+++ ।
एवम् अ-प्राप्ता ऽपि प्रारब्ध-फल-निवृत्तिः
पङ्क्ति-पावनत्वादिवत् हितैषिणा भगवता
स्वयम् एव कुतो न दीयेत?

इति ।

इदम् अत्रोत्तरम् –
यद्य् अप्य् अधिकारी
स्वाभिलाषानुगुण्येन कञ्चित् कालम्
ऐहिक-भोगान् प्रारब्ध-वशाद् अनुभवति,
यदि च तान् दुःख-प्रसङ्ग-रहितान् एवानुभवेत्
न तर्ह्य् अत्र विरच्येत् ।
न पुष्येच् च भगवद्-अनुभव-योग्यता ।
तस्मात् कठिन-चेतसां शिक्षा-लक्षणानुग्रह-विशेषो ऽत्र
प्रारब्ध-मूलक-दुःखानुभव
इत्य् अनुसन्धेयः ॥+++(4)+++

तत्र नियतायुषां तावत्य् एव काले समुद्वेग-जननार्थम्,
अनियतायुषां च आयुष्कामीयेष्ट्य्-आदिषु-निवृत्ति-जननार्थं च
अत्र दुःखानुभवः हित-प्रवर्तकोपाध्याय
इति पूर्वाचार्याणाम् अभिसन्धिः
यथा प्राणार्थिनः काकस्य
प्राणदानेन सफलेपि प्रपदने नेत्र-शातनं
पुनर्-अपराध-परिहाराय दुष्-प्रकृतितायाः शिक्षणम् अनुग्रह-लक्षणम् एव ।

सकृत्-कर्तव्यस्यापि प्रपदनस्य श्रूयमाणः प्रभावः
शास्त्रोपप्लव-गन्ध-रहित-विषये अ-सङ्कोचेनैव अभ्युपेयः,
यथा क्षण-काल-कृत-पाप-विशेषस्य भूत-सम्प्लवाधिको नरक-पातः
वाचनिको +++(=शब्द-प्रमाण-सिद्धो)+++ ऽभ्युपगतः
तस्मात् “माता-पितृ-हन्तारम् अपि प्रपन्नं भगवान् रक्षती"त्य्-आदिकं वचन-जातं पूर्वाघ-विषयकत्वेनैवानुपपन्नम् +++(=अपि तूत्तराघेष्व् अपि)+++।
उत्तराघ-विषयकत्वे तु
निस्तार-क्रमः पूर्वोक्त एव ॥

तस्माद् अस्मत्-सिद्धान्त-बद्धादराः मुमुक्षवः
स्वोचितोपाय-प्रविष्टा भागवताश् च
सन्तो ऽप्य् अनुपशान्तार्थाद्य्-अनुषङ्गाश् चेत् असम्भाष्या
इति केचन वैराग्य-मात्र-प्रधानाः प्राहुः ।
अमार्ग-प्रविष्ट-विषये वक्तव्यानि वचनानि
सन्-मार्ग एव स्खलतां विषये नैव चिन्तनीयानि ।+++(5)+++
एकान्तेन भागवताः यादृश-तादृशाचारा अपि,
अनुवृत्त-दोषा अपि, उपक्लेश-परिभूता अपि,
साधुत्वेन बहु मन्तव्या एव,
नैव चापचरणीया
इति सकल-शास्त्र-सारार्थः ।
यतः नारक-लोकस्य अङ्कुर-क्षेत्र-सदृशे संसार-मण्डले
स्वाधिकारानुरूपेषु मुक्ति-मार्ग-द्वार-भूतेषु कर्म-योगादि-पर्वसु
प्रविष्टानाम् अपि विषये ऽवमतिः भागवतापचार एव ।
किं बहुना –
गो-मुख-व्याघ्र-न्यायेन रावण-भिक्षु-न्यायेन च
भागवत-वेष-धारिणो ऽपि यावत्-तत्त्व-विज्ञानं भगवद्-रूप-नामभ्याम् आदर्तव्या एव -+++(5)+++
एतादृश-शैलूष+++(=नट)+++-वृत्ति-विषयकं न लिङ्गं धर्म-कारणम्
इत्य्-आदिकं वचनम् ॥

यथा तथा वापि
भगवन्-नाम-सङ्कीर्तनस्य प्रभावातिशयं प्रतिपादयतो वचन-निचयस्य
श्रद्धा-विकलम् अपि, अभिज्ञान-विधुरम् अपि, बुद्धि-पूर्वानुच्चरितम् अपि, साङ्केत्य-पारिहार्याद्य्-अभिसन्ध्य्-अन्तर-संवलितम् अपि,
प्रयोजनान्तर-सङ्ग-सहितम् अपि, दोषान्तरावियुक्तम् अपि,
नाम-सङ्कीर्तनं भगवत्-प्रद्वेष-रहितानां पावनतमम्,
न तु भगवत्-परिवादान्तर्नीत-नाम-कीर्तनम् अपि पावनतमम्
इत्य् अभिप्रायः ।

गोपिका-कंस-चैद्यादीनाम् इव
यया कया ऽपि विधया भगवत्-सम्बन्धः पावनतम
इत्य्-आद्य्-अर्थकं वचन-जातम् अपि
भवान्तर+++(=जन्मान्तर)+++-संसिद्धाधिकारि-विशेष-विषयकम्
इति पूर्वापर-वृत्तान्त-प्रतिनियतम् ।
तद्-अभिधानं तु प्रद्वेषाभाव-प्ररोचनाय,
न तु तथानुष्ठानायेति तत्त्वम् ।

एवं भगवत्-क्षेत्रे शरीर-विश्लेषादेः मोक्षोपयिकता-कथनम् अपि
पश्वादिवद्वा प्रातिकूल्य-रहितानां मोक्षोपकारकता-परम् ।
अन्यथा भगवद्-विग्रहाद्य्-अपहाराय प्रवृत्तानां
तत्र विशिष्ट-शरीराणाम् अपि मोक्ष-प्रसङ्गः ।
तस्माद् ईश्वर-प्रातिकूल्य-शेषतया उपादीयमानं
किञ्चिद् अपि क्षेत्र-वास-नाम-कीर्तनादिकं नोपकारकं
किन्तु नितरां बाधकम्
आनुकूल्य-शेषतया उपादीयमानं किञ्चिद् अपि
विकलम् अपि +++(द्राविड-प्रबन्धोक्त-पापिष्ठ-)+++क्षत्र-बन्ध्व्-आदीनाम् इव सकलं च सत्
सर्वम् अनिष्टं शमयति,
प्रापयति च सर्वम् अपीष्टम्
इति शास्त्रसारार्थः ।

तस्मात् स्वसङ्कल्प-नियतेन केनापि व्याजेन, मुक्तैश्वर्यम् अनुगृहीतुं,
परिगृहीतानाम् आश्रितानां दोषान् अपाकरोति सर्वेश्वरः
इत्य् अभिसन्धाय
दोष-दर्शनेन अनादरम् अ-कुर्वतां,
गुण-दर्शनेन मरु-भूमौ शीतल-मधुर-जल-दर्शनेनेव हृष्यतां
भागवत-सङ्गत्या अत्र आत्मानं कृतार्थयतां,
श्रीपति-परिगृहीतानाम् अस्माकं
“कदाचित् क्वचिदपि न हानिर्” इति व्यवस्यतां
परम-पद-साम्राज्याय पट्टाभिषिक्ता वयम् इत्य् अनुसन्धाय
करण-त्रयेणापि साम्प्रतं कल्याणम् एवाचरितुम्
इति निष्कर्षः ॥

इति श्रीमद्रहस्यत्रयसारसङ्ग्रहे

द्वितीयः परिच्छेदः ।

श्रीमते निगमान्तमहादेशिकाय नमः ।