२५ प्रभावव्यवस्था

इत्थं सिद्धोपाय-विषयकः साध्योपाय-विषयकश् च व्यामोहः परिहृतः ।
अथ चैतादृशोपाय-विशेष-निष्ठ-प्रभावातिरेकान्
अतिरेक-बोधक-प्रमाण-विचार-मूलाः काश्चिच् छङ्काः परिह्रियन्ते ।

जातिः

तत्रादौ जातिः व्यवस्थाप्यते ॥

न शूद्रा भगवद्भक्ता
विप्रा भागवताः स्मृताः ।
सर्व-वर्णेषु ते शूद्रा
ये ह्य् अभक्ता जनार्दने ॥

इति भगवद्-भक्ति-रूप-धर्म–सद्-भावाभ्याम् उत्कर्षापकर्ष-निर्देशात्
“भगवद्-भक्ताः सर्वेप्य् एक-जातीया”
इति केचिन् मन्यन्ते ।
तत्रोच्यते– भागवत-ब्राह्मणं भागवत-शूद्रं च
पृथक् पृथक् उद्दिश्य प्रवृत्तं
तत्-तद्-आचार-नियामकं सर्वं शास्त्रम्
एक-जातीयत्वे व्याकुप्येत्

सर्वेषां भागवतानां समत्वं बोधयच् च शास्त्रं
परम-पुरुषार्थ-साम्यतात्पर्यकम्
क्वचिद् उत्कृष्ट-कुल-लाभ-वचनम् अपि
कुल-शब्द-जाति-शब्दयोः भिन्नार्थकतया
वैष्णवत्वोपाधिक-कुल-परम् ।
ततश् च भगवद्-भक्ति-विधुराः ब्राह्मणाः
शूद्रवद् अनादरणीयाः ।
भगवद्-भक्ताश् च शूद्रा अपि
ब्राह्मणवद् आदरणीया
इति शास्त्र-तात्पर्यम् अभ्युपगन्तव्यम् । अन्यथा –

चण्डालम् अपि वृत्त-स्थं
तं देवा ब्राह्मणं विदुः ।
चण्डालाः प्रत्यवसिताः
परिव्राजक-तापसाः ॥

न तेन स्थविरो भवति
येनास्य पलितं शिरः ।
बालोपि यः प्रजानाति
तं देवाः स्थविरं विदुः ॥

इत्य्-आदिभिः निन्दा-प्रशंसा-पर-वाक्यैः व्याकुप्येयुः।
मर्यादाः सर्वा अपि ॥

भागवताग्रेसरो विदुरो ऽपि
स्वजात्य्-अनुगुणम् एव वृत्तम् आतस्थौ ।
सर्वज्ञा अपि वासुदेवादयः
तस्मिन् शूद्रत्वम् अभ्युपयन्ति स्म ।
योग-प्रभावात् देह-न्यासं कुर्वतस् तस्य विदुरस्य
धर्म-राजानुष्ठितो ब्रह्म-मेध-संस्कारः
तूष्णीं वा व्यक्ति-विशेष-नियतो वा
इत्य् अभ्युपेयः ।+++(5)+++
अन्यथा नियति-विशेष-निबन्धनेन
पाण्डवानां दार-साधारण्येन
सर्वोपि लोको व्याकुलस् स्यात्।
तस्मात् स्वजात्य्-अनुगुण-प्रक्रिययैव युक्तं
भगवन्तम् आराधयितुम् इति ॥

विश्वामित्र-परशुरामादीनां तु वर्ण-व्यत्यासः
+++(गर्भोत्पादक-)+++चरु-व्यत्यासादि-निदान इति आकरे स्पष्टः।
शठ-कोप-मुनि-प्रभृतीनां वृत्तान्त-विशेषश् चात्र
न दृष्टान्ती-भवितुम् अर्हत्य् अस्माकम् ।
तत्-तद्-वृत्तान्त-पर्यालोचनायाम् अपि
नैव दृश्यते क्वापि स्व-स्व-जाति-व्यतिक्रमः ।

+++(व्यतिक्रमे)+++ सत्य् अपि, एवम् अभ्युपगन्तव्यं -
पूर्व-पूर्व-वर्णालाभ-दशायाम् इतर-वर्ण-सकाशात्
भगवज्-ज्ञानस्य अवश्य-सम्पादनीयत्वम् अपि ।
मन्त्रादिकं परं ब्राह्मण-सकाशाद् एव ग्रहीतव्यम्
इति प्रमाण-प्रतिनियतम् ॥

तुलाधार–धर्म-व्याधादयो ऽपि
धर्म-जिज्ञासून् ब्राह्मणान् सम्पूज्य
सन्-मार्ग-मात्रम् उपदिदिशुः -
न तु स्वीचक्रुर् आचार्यकम् ।
अत एव भक्तेभ्यो ऽपि म्लेच्छादिभ्यः दानादानादि-वचनं
न कन्या-गोचरम्+++(5)+++
अपि तु ज्ञान-गोचरम्
इति व्याचक्रुः व्याख्यातारः ।
वैष्णवत्वेन पूज्यत्वं
सर्वत्र समम् इति निष्कर्षः ॥+++(4)+++

एवं च सत्त्वादि-गुण-तारतम्य-निबन्धनं शारीरं ब्राह्मण्यादिकम् एकम्,
अन्यच् च शम-दमादि-लक्षणं मानसिकम् ।
तत्र शारीर-गुण-विशेष-मूलाः जाति-विशेषा उत्पत्ति-सिद्धाः यावद्-आश्रय-भाविनः ।
मानसिकास् तु तादृशाः सर्व-जाति-साधारणाः -
प्रह्लादीनाम् आजन्म-सिद्धाः,
इतरेषां सद्-आचार्य-सम्बन्ध-निबन्धनाः ।
तत्र शारीर-ब्राह्मण्यादि-गोचराणि कानिचिच् छास्त्राणि
तन्-मात्र-प्रतिनियतानि ।
कानिचिच् च ब्राह्मण्यादि-गोचराणि
पुरुषार्थ–तद्-उपायार्हता–प्रशंसा-पराणि सर्व-साधारणानि ।

अत्र शरीरेनोत्कृष्टाः, मनसा ऽपकृष्टाश् चेत्,
“आरूढ-पतिता” इति महतीं निन्दाम् अवाप्नुयुः ।
शरीरेणापकृष्टा अपि यदि गुणोत्तराः,
प्रशंसां परमाम् एवाप्नुयुः ।
तत्र शारीरो मानसो वा समुत्कर्षः
गर्व-हेतुश् चेत्,
आवहति महान्तम् अनर्थम् ।
उभय-विधो ऽप्य् अपकर्षः
स्वानुसन्धान-मुखेन निर्वेदम् उत्पाद्य
अकिञ्चनाधिकारे स्व-तन्त्र-प्रपदने परम्परतया यदि प्रयोजकः
तर्हि परमं श्लाघा-पदं भवति ॥

इत्थं जाति-व्यवस्थायां वर्ण-व्यवस्थायां च सत्याम् अपि भागवतत्वैक-निबन्धन-पूज्यत्वादि-प्रतिपत्तेः
न कश्चित् प्रतिरोधः ।

भागवत-भेदाः

तत्र भागवतेषु देवतान्तर-स्पर्श-रहिताः परमैकान्तिनः
तत्रापि विलम्बाक्षमाः
भगवति न्यस्तभराः
स्वयं-प्रयोजनं कैङ्कर्यं कुर्वाणाः भागवताः
षोडश-वर्ण-सुवर्ण-सवर्ण-पारमिकान्त्यवन्त
इति अन्यत्र +++(→द्राविडमूले)+++ प्रपञ्चः ॥
यत् तु भागवत-महिम-विषये–

वृत्त्यादौ

नारायणैक-निष्ठस्य
या या वृत्तिस् तद् अर्चनम् । यो यो जल्पस् स स जपस्
तद्-ध्यानं यन्-निरक्षरम् ॥

तत्-पादाम्ब्व् अतुलं तीर्थं
तद्-उच्छिष्टं सुपावनम् ।
तद्-उक्ति-मात्रं मन्त्राग्र्यं
तत्-स्पृष्टम् अखिलं शुचि ॥

इत्यादिकं वचनं,
तत्-प्रमाणं भवद्-अपि
प्रवृत्ति-शब्दः न निषिद्ध-वृत्ति-परः,
किन् तु देश-कालादि-वैषम्य-निमित्तकापत्-कालीनानन्तर-वृत्ति-परः,
चेष्टेति पाठे ऽपि
स्व-भावार्थ-शास्त्र-प्राप्त-निमेषोन्मेषादि-चेष्टापरः,
न तु निषिद्ध-चेष्टा-परः ।
यत् करोषि यद् अश्नासीत्य्-आदि-श्लोकस्यापि
अत्रैव तात्पर्यम् ।
एवं जल्प-शब्दो ऽपि
न प्रतिषिद्ध-वृथा-जल्प-परः,
बाह्य–कु-दृष्टि–विजिगीषु-कथा-परो वा ।
निरीक्षण-पदम् अपि
न निषिद्ध-निरीक्षण-परम्,
किन् तु शास्त्र-दृष्टि-प्राप्त-निरीक्षण-परम् ॥

पादाम्बु-पदम् न तु यादृश-तादृश-तोयपरं,
किन् तु भागवत-पादोदक-ग्रहण-दशायां, तस्य नारायणैक-निष्ठत्वे
गुणाधिक्य-प्रदर्शनपरम् ।

उच्छिष्ट-पदमपि पुनर् उपनयनादि-प्रकरणेषु
पावनतया शास्त्र-प्राप्तस्य उच्छिष्ट-विशेषस्य गुण-विशेषं प्रतिपादयति ।

उक्ति-पदं तु
तद्-उपदिष्ट–तत्त्व-हित-विषयक–वाक्य-जातस्य
सदाऽनुसन्धेयताम् अवगमयति ।

एवं व्यवस्थानादरे
स्पृश्यास्पृश्य-भक्ष्याभक्ष्य-उपादेयानुपादेयादि-व्यवस्थापन-परस्य सर्वस्यापि शास्त्रस्य समुच्छेद-प्रसङ्गः॥

त्याग-भेदाः

ततश् च
वेद-वैदिक-शास्त्रोक्त-नियमानां
स्व-रूपेण परित्यागस् तामसः
कुटुम्ब-भरणासमर्थतया तुरीयाश्रम-परिग्रहाय गार्हस्थ्य-परित्याग इव
आलस्यादिना सर्व-कर्म-परित्यागः राजसः

भगवान् एव
स्वकीयेनात्मना स्वकीयैश् चोपकरणैः
स्वाराधनैकप्रयोजनाय स्व-शेष-भूतम् इदं कर्म कारयति

इत्य्-अनुसन्धान-पूर्वकं
स्वाधिकारानुगुणस्य कर्मणः करणं सात्त्विक-त्यागः

एवम् अनुष्ठान-जनित-भगवत्-प्रसादस्य फलतया
मोक्षम् अप्य् अपेक्षमाणस्य
“प्राग्-अनुष्ठित-प्रपदन-जनित–भगवत्-प्रसादेनैव सिद्धो मोक्ष”
इत्य्-अनुसन्दधानस्य कर्मानुष्ठानं
मुक्त-कैङ्कर्यवत्, अ-रोग-क्षीर-सेवनवच् च सात्त्विक-त्याग-परा-काष्ठा

सर्व-धर्मान् परित्यज्य इत्य्-अत्र
भाष्यकारीय-प्रथम-योजनायां
न कर्म–स्व-रूप–त्यागो विधीयते ,
अपि तु निरुक्त-बुद्धि-विशेष-रूपः सात्त्विक-त्यागः ।
स च बुद्धि-विशेषः
स्व-तन्त्र-प्रपत्ति-निष्ठस्य प्रपत्त्य्-अनुष्ठान-काले चोपादेयः ।
द्वितीय योजनायाम् उपायान्तरानन्वयो ऽनुगम्यते ।
सोप्य् अनन्वयः
प्रपत्तेः प्राग् दैवाद् आगतः
अधिकार-कोटि-प्रविष्टतया ऽनूद्यते,
पश्चात् तु प्रपत्ति-नैरपेक्ष्य-बोधक-शास्त्रेण विधीयते ।

एवम् एकस्य परित्यज्येति पदस्य
+++(“वर्तमान” इत्य् अध्याहृत्य प्रपत्त्यधिकार-)+++अनुवादित्वं +++(“त्यागं कृत्वे"ति)+++ विधित्वं च
व्यवस्थित-पक्ष-द्वयाभिप्रायेण -
स +++(तामस-त्यागो)+++ नोपपद्यते ।
ततश् च प्रपत्तेः धर्मान्तर-नैरपेक्ष्ये ऽपि
स्वतन्त्राधिकार-प्राप्त-नित्य-नैमित्तिक-धर्म-परित्यागः
भगवद्-आज्ञां रुणद्धीत्य् एव निष्कर्षः ॥

यद्य् अपि श्रीमति गीताभाष्ये
स्व-तन्त्र-प्रपत्ति-परतया चरमः श्लोको न हि व्याख्यातः,
तथापि प्रपत्तेः सकल-फल-साधन-रूपतां
प्रकृत–भक्ति-योग-लक्षण–फल-विशेषे प्रदर्शयितुं प्रवृत्तायां द्वितीय-योजनायां
प्रपत्तेः दुष्कर-भक्ति-योग-पर्यन्तोपायान्तर-स्थानाभिषेको ऽप्य्
अभिमतोऽर्थः ।
तथा च–

“ सुदुष्करेण शोचेद् यो
येन येनेष्ट-हेतुना । स स तस्याहम् एवेति
चरम-श्लोक-सङ्ग्रहः॥”

इति सारसङ्ग्रहः ॥

यत् त्व् इदं भारत-वचनम्–

त्यज धर्मम् अधर्मं च
त्यज सत्यानृते अपि ।
उभे सत्यानृते त्यक्त्वा
येन त्यजसि तत्त्यज ॥

इति, तत्र प्रथमः पादः
काम्य-निषिद्ध-त्याग-परः,
द्वितीयः कैवल्यैश्वर्याभिसन्धि-त्यागपरः +++(5)+++,
तृतीयः आदर-द्योतनाय अनुवादः,
तुरीयस् तु त्यागे ऽपि कर्तृत्वं परायत्तम् इत्य् अनुसन्धान-परः ॥

इति ॥

अथ–

तस्मात् त्वम् उद्धवोत्सृज्य
चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च
श्रोतव्यं श्रुतम् एव वा ।

माम् एकम् एव शरणम्
आत्मानं सर्व-देहिनाम् । याहि सर्वात्म-भावेन
यास्यसि ह्य् अ-कुतो-भयम् ॥

इति श्री-भागवते
प्रतिचोदना-विषयी-भूत–निषिद्ध-निवृत्तेः त्याग-विधानात् तादृशस्य च त्यागस्य निषिद्धानुष्ठान-रूपस्य वैधत्वावगतेः
प्रपन्ने बुद्धि-पूर्वस्यापि उत्तराघस्य आश्लेष
इति केचिद् अभिप्रयन्ति ॥

तद् एतत् पापस्यावश्यानुष्ठेयता-प्रसक्त्या अत्यन्तम् अपहास्यम्,
पूर्वानुष्ठान-स्वानुष्ठान-स्वेतरानुष्ठान–स्व-वचन–सर्व-वचन-विरुद्धं च ।
तद्-वचनाभिप्रायस् तु-
चोदित-प्रवृति-विषयी-भूतेषु प्रतिचोदित-निवृत्ति-विषयी-भूतेषु
आनुकूल्य-सङ्कल्पाद्य्-अतिरिक्तः कश्चिद् अपि
स्व-तन्त्र-प्रपत्त्य्-अङ्गतया नोपादेय इति ।
अतो वर्णाश्रम-जाति-गोत्र-प्रवर-चरण+++(=शाखा-सूत्रे)+++-कुल-देश-कालावस्थानुगुण-समयानुरोधेनैव
सर्वैः भक्तैः भागवतैश् च वर्तितव्यम् इति सिद्धम् ॥