२४ साध्योपायशोधनम्

एवं परिशोधिते ऽपि सर्वज्ञे सर्व-शक्ते परम-कारुणिके सर्व-शेषिणि
स-पत्नीके सर्व-लोक-शरण्ये सिद्धोपाय-विशेषे
विज्ञाते ऽपि संपूर्णे ऽपि संसार-वैराग्ये
अनाद्य्-अनुवृत्ताज्ञातिलङ्घन-मूलक–भगवन्-निग्रह–प्रशमन-निदानस्य साध्योपाय-विशेषस्य
विज्ञानाभावे सिद्धोपायो न शक्यते वशीकर्तुम् ।
तस्मात् साध्योपाय-विशेष-जिज्ञासायां सत्याम्
अधिकारे स्व-रूपे परिकरे च
समाशङ्कितान् दोषान् परिहरिष्यामः।

अधिकार-गोचर-विचारः

तत्र आदाव् अधिकार-गोचर-विचारः ।

प्रपत्तिः खल्व् एषा कश्चन वैदिक-धर्मः ।
याग-विशेषतया न्यास-विद्यायाम् अनुश्रूयते ।
सा कथं सर्वाधिकारा भवितुम् अर्हति

इति केचिद् विवदन्ते ।
सोऽयं विवादः सर्वेश्वरस्य
सर्व-शरण्यत्व-प्रतिपादक–श्वेताश्वतर-श्रुत्य्-आदि-प्रमाण-सहस्रेण
परिहृतः भवति ।
उपासनस्य त्रैवर्णिकाधिकारत्वे समर्थिते ऽपि
प्रपदनस्य सत्य-वचनादिवत् सामान्य-धर्मत्वावगमात्
यथाऽधिकारं वैदिक-मन्त्रेण वा तान्त्रिक-मन्त्रेण वा
सर्वेषाम् एतद् अनुष्ठानस्य नानुपपत्तिः

अत एव काकादीनाम् अपि प्रपन्नत्वं
शास्त्रेषु श्रूयते
भगवद्-आश्रयं सामान्यं सर्व-साधारणम् इति
मां हि पार्थ व्यपाश्रित्येत्य्-आदिना भगवतैवोक्तम्,
अतस् तद्-विशेष-भूतम् इदं प्रपदनं
सर्वेषां साधारणं भवितुम् अर्हति ॥

अथोपासनस्यापि सामान्यान्तर्गतत्वात्
सर्व-साधारण्यं स्याद्

इति चेत् - सत्यम् ।
उपासनाप्रारम्भस्यैव त्रैवर्णिक-शरीरावच्छिन्नत्व-नियमः।
तन्-निष्पत्तिस् तु यादृश-तादृश-शरीरावच्छिन्नेष्व् अपि
धर्म-व्याध–तुलाधारादिषु दृष्टम् ।

अतः उपासना-प्रारम्भवत्
प्रपदनस्य त्रैवर्णिक-शरीरावच्छिन्नत्व-नियामक-वचो-विरहात्
यादृश-तादृश-शरीरावच्छिन्नत्वे ऽपि नानुपपत्तिः ।
तस्मात् शरण्य-शरणागति–स्व-भाव–ज्ञानवताम्
आकिञ्चन्यादिमतां सर्व-जातीयानाम् अपि
प्रपत्त्य्-अधिकारः सिद्ध्यति

स्वरूपविचारः

अथास्य स्वरूपविचारः॥
विश्वासः प्रपत्तिर्” इति केचिद् अभिदधते ।
तद्-अभिधानम् अधिकार-कोटौ अङ्गकोटौ च प्रविष्टस्य विश्वासस्य
प्राधान्य-कथनाभिप्रायकं मन्तव्यम् ।

तथैव–

प्रपत्तिर् विश्वासः,
“सकृत्-प्रार्थना-मात्रेण अपेक्षितं दास्यतीति विश्वासपूर्वकं प्रार्थनम्” इति यावत् ।

इति श्री-भाष्य-काराणां मुक्तक-वाक्येनापि प्राधान्य-विवक्षया
प्रथमं विश्वासम् अभिधाय
भरत-मुनि-प्रणीत-+++(शरणागति-)+++लक्षानुरोधेन
विश्वास-पूर्वकं प्रार्थनं प्रपत्तिर्
इति निष्कृष्यते ।

अयम् अपि निष्कर्षः -
प्रार्थनायाः रक्षापेक्षा-मात्र-सापेक्षित्व-निबन्धन–प्राधान्य-विवक्षा-मूलकः ।
अन्यथा स्नानं सप्त-विधं स्मृतम् इतिवत्
षड्-विधा शरणागतिर्
इत्य् अपि वचनम् प्रपत्ति-विधा-बोधकं प्रवदेत् ।

तस्मान् “न्यासः पञ्चाङ्ग-संयुत” इत्य्-आदि-प्रमाण-बलात्
आत्म-निक्षेप एव अङ्गी
इतरत् सर्वम् अङ्गम्
इति साम्प्रतं स्वीकर्तुम् ।

विवक्षा-भेदेन
अङ्गानाम् अपि प्राधान्येन निर्देशः
राज-भृत्ये “राजैवायम्” इत्यादि
लोके ऽपि प्रसिद्धः ॥+++(5)+++

“शरणं व्रजे"त्यादौ व्रज-प्रभृति-धातूनाम् अध्यवसाय-वाचकानाम्
उपायत्वाध्यवसायाङ्गक-न्यास-विक्षेप-त्यागादि–शब्द-वाच्य–आत्म-याग-पर्यन्तत्व-कथनं
“वायव्यं श्वेतम् आलभेते"त्यादौ आलम्भ-शब्दस्य संज्ञपन-वाचकस्य
तद्-अङ्गक-याग-पर्यन्तत्वम् इव
वैदिक-मर्यादाया अप्य् अनुगुणम् ।
यागो नाम “अस्यै देवतायै इदं हविर्”
इति कश्चन बुद्धि-विशेषः ।+++(4)+++
प्रकृते श्रीमन्-नारायण-रूप-देवतायै
स्वादुतमं स्वात्म-रूपम् इदं हविर्
इति बुद्धिविशेषो यागः ।

एष एव मुमुक्षूणां स्व-रूप–भर–फल-समर्पण-रूप–दल-त्रयात्मकः

क्वचित् स्व-प्रवृत्ति-निवृत्तौ भर-न्यास-व्यपदेशः तत्-कार्यत्वात् ।
एवं च अङ्ग-पञ्चक-सम्पन्-+आत्म-रक्षा–भर-न्यास एव
निखिल-प्रपत्ति-शास्त्रेषु प्राधान्येन विधीयते
इति सिद्धान्तः पूर्वाचार्याणाम् ।

अत्र केचित्

परम-पुरुषार्थ–तद्-उपायापेक्षायां सत्याम्
आत्म-दास्यम् ईश्वर-स्वाम्यं च स्व-भाव-सिद्धम् इति
शास्त्र-जन्यं तत्त्व-ज्ञानम् अन्तरेण
न कश्चिद् विधि-विषयो ऽस्त्य् उपायो ऽनुष्ठेयः।
तादृशं च तत्त्व-ज्ञानम् एव प्रपदनम्

इति वदन्ति ।
तद् एतत् अधिकारि-कोटि-प्रविष्टं वैदुष्यं
सर्व-पाप-मूर्धाभिषिक्तस्य आत्मापहार-दोषस्य
निष्क्रियात्वेन विहितम् आत्म-भरार्पणं न निरुणद्धि ,
यतः शास्त्र-जन्य-शेषत्वादि-विशिष्ट–परावर-तत्त्व-विवेकवत एव
अधिकार-विशेषेण परिकर-विशेषेण फल-सङ्कल्प-विशेषेण च सहितः
शेषत्व-प्रतिसन्धान-गर्भः स्व-रक्षा-भर-न्यासः
अनाद्य्-अपराध-मूल-निग्रह–निवृत्त्य्-उपायतया विहितः,
यतश् चेदं शेषत्व-विज्ञानं
न्यासोपासनादि–सर्व-निवृत्ति-धर्म-साधारणम् ।
तस्माद् अधिकार-लक्षणम् एतद् विज्ञानम् ।
शेषत्व-ज्ञानं विना
मोक्षार्थ-विहित-धर्मानुष्ठानं तु
स्वयं शेषत्व-ज्ञानम् उपजनय्य
पूर्णानुष्ठान-द्वारा मोक्षं जनयति
अतो ऽत्र विधीयमानं
न भवति शेषता-धी-मात्रम्। किं तर्हि?
तत्-सहितं भर-न्यसनम् इति ॥

अन्ये तु–

भगवत्य् उपायत्वाध्यवसाय एव प्रपत्तिः ।
स च वाक्य-मात्रेण सिद्धत्वात्
सिद्धोपाय इत्युच्यते ।
“शरणं व्रजे"त्य् अत्र
व्रजतेः ज्ञानार्थकत्वाद्

इति प्राहुः ।
तद् अपि विधि-प्रत्यय-घटित–शब्द-स्वारस्य-विरुद्धं,
विरुद्धं च स-परिकर-प्रपत्ति–विधायक–स्फुटतर-शास्त्रेणापि,
भगवद्-उपायत्व-रूप–तत्त्वोपदेश-पर्यवसानात् प्रपत्ति-स्वरूपोच्छेदापादकं
चेत्य् अवधेयम् ॥

परे तु –

मुमुक्षुं प्रति
सर्व-धर्म–स्व-रूप–त्याग-विशिष्ट–
स्व-रक्षणार्थ–स्व-व्यापार-निवृत्तिर् एव प्रपत्तिः
चरम-श्लोकेन विधीयते ।
तत्र +++(अशक्तस्य?)+++ निवृत्तौ विध्य्-असम्भवात्
“स-विशेषणे ही"ति न्यायेन
सर्व-धर्म–स्व-रूप-त्यागे विधिः पर्यवस्यति ।
स एव साध्योपायतया विधीयते

इत्य् आहुः ।
तत्र +++(“माम् एकं शरणं व्रजे"ति)+++ विशेष्यस्य निवृत्ति-रूपत्वे ऽपि
तद्-विषयक-यत्नस्यावर्जनीयत्वात्,
साध्यतया विधीयमानस्य +++(“सर्वधर्मान् परित्यज्ये"ति)+++ विशेषणस्यैव
स्व-रक्षणार्थ–स्व-व्यापारत्वाच् च
+++(व्यापार-त्याग-रूप-)+++स्वोक्ति-विरोधः;
साङ्ग-प्रपत्ति-विधायक-शास्त्र-विरोधश् च
इत्य् अवधेयम् ॥

अत्र केचित् प्रत्यवतिष्ठन्ते –

प्रपत्तेः साधनत्वं
सिद्ध-साधन-सहकारित्वं वा
सिद्धोपाय-भूतेश्वर-निष्ठैकत्व-सिद्धत्व– परम-चेतनत्व–परम-कारुणिकत्व–सर्व-शक्तत्व–निरपेक्षत्वादि-
स्वभाव-विशेष-विरुद्धम्

इति ।
तच् च श्रुति-स्मृति-विरोध–व्याप्ति-शून्यत्वादि-दोष-सहस्र-दूषितम् ।
किञ्च–
भक्तेः साधनत्वादौ अप्य्
एष +++(सर्वशक्तत्वादि-)+++प्रसङ्गः समानः ।
+++(प्रपत्तेर् असाधनत्वम् इति)+++ इष्टापत्तिस् तु
मोक्ष-साधनी-भूतोपासन-परतया
चरम-श्लोकीय-धर्म-शब्द–व्याख्यानान् न घटते ।

अथ बलीवर्द-दमनाय सैकत-भारारोपणवत्
अनुपायानाम् अप्य् उपायत्वोपदेशे सति
अर्जुन-बुद्ध्या विषयी-क्रियमाणा +++(प्रपत्ति-सदृशा)+++ अ-धर्मा अपि
धर्म-शब्देन अनुद्यन्त

इति चेत्
परम-धर्मतया प्रसिद्धानां
कर्म-योगादीनां निवृत्ति-धर्माणाम् अपि अ-धर्मत्वे
सुतरां प्रवृत्ति-धर्माणाम् अ-धर्मत्वापत्त्या
सकल-शास्त्र-वैयाकुलीति यत् किञ्चिद् एतत् ॥

अथ भवताम् अप्य् उपासनस्येव
प्रपदनस्यापि धर्म-शब्द-वाच्यत्वात्
सर्व-शब्द-सङ्कोच-भिया
साधनत्व-वेषेण त्याज्यत्वे स्वीकर्तव्ये सति
प्रपदनस्य साधनत्वं,
सिद्ध-साधन-सहकारित्वं वा स्वीक्रियमाणं
चरम-श्लोक-व्याख्यान-विरुद्धम्

इति चेत् उच्यते–
अत्र किं साक्षात् साधनत्व-बुद्धि-परित्यागः
आहोस्वित् +++(विघ्न-)+++प्रसादनता-वेषेणापि तत्-परित्यागो विवक्षितः?
आद्ये– भक्ति-योगादेर् अपि समानम् एतत् ।
अन्त्ये – सर्व-शब्द-सङ्कोच-भिया
सनातन-धर्मस्य कृष्णस्यापि धर्म-शब्द-वाच्यतया
तत्रापि साधनता-बुद्धि-परित्याग-प्रसङ्गः ॥

अथास्मिन् श्लोके विधीयमानं धर्मम् अपेक्ष्य
भिन्नानां धर्माणाम् एव त्याज्यता अभ्युपगन्तव्या

इति चेत्–
तद् एतद् अत्रैव विधीयमाने शरण-वरणे ऽपि समानम् ।

तर्हि भक्ति-प्रपत्त्योः साक्षात् साधनत्वासम्भवात्
सिद्धोपायोपकारकता वाच्या । सा च नोत्पादकतया -
तस्य निरुपाधिक-तत्त्वत्वात्,
नापि वर्धकतया - उपचय-रहितत्वात्,
नापि सहकारितया - सदा परिपूर्ण-सहज-कारुण्यादिमत्त्वात्,
नापि द्वारतया - द्वार-निरपेक्ष-कार्योत्पादन-समर्थ-सत्य-सङ्कल्पवत्त्वात् ।
अपि तु अनाद्य्-अपचार-परम्परा-मूल–
संसार-हेतु-भूत-निग्रहोपशमन-द्वारा
भक्ति-प्रपत्त्य्-आदिकम् उपकरोतीति तत्त्वम् ॥+++(4)+++

तद् एतत् प्रपदनम् उपासनं वा
फलान्तरापेक्षिणां ज्योतिष्टोमादिवत्
भगवतः तत्-तद्-अनुगुण-प्रीति-विशेषोत्पादन-मुखेन
फल-प्रदं भवति

मोक्षापेक्षिणां तु
शास्त्र+++(प्रोक्त)+++-निग्रह–सिद्धोपाय-साध्य–
यावद्-आत्म-भावि–परिपूर्ण-कैङ्कर्य-पर्यन्तं फलं
प्रददातीति विवेकः
तस्मान् मुमुक्षोः
सर्वानिष्ट-निवृत्ति-पूर्वक–परिपूर्ण-कैङ्कर्य-पर्यन्ता सर्वापि फल-परम्परा
सिद्धोपाय-साध्या, +++(विघ्न-)+++प्रसादन-रूप-साध्योपायमूला चेति
सर्वाण्य् अपि प्रमाणानि अनाकुलानि ॥

अत्र कश्चिद् अ-विधेय-प्रपदन-वादः, यथा–

शरण-वरणे रागतः प्रवृत्ति-सम्भवात्
विधिर् अयुक्तः ।
यथा हि लोके कश्चित् स्व-रक्षणासमर्थः
सन्निहितं रक्षण-समर्थं स्वयम् एव आश्रयति ।
तथा स्व-स्वरूपं पर-स्वरूपं च
सिद्ध-परेण शास्त्रेन विजानीते,
प्रवर्तते च स्वयम् एवाश्रयणे

इति ।
सो ऽयम् औचित्य-मूलो ऽतिवादः ।+++(5)+++
लौकिकाश्रयणे प्रकार-विज्ञानवत्
अलौकिकाश्रयणे ऽपि +अनेन प्रकारेण
“समाश्रितम् एतादृशम् अधिकारिणं स्वीकरोति भगवान्”
इति विज्ञानम् आवश्यकम्
तच् च कर्तव्य-पर-शास्त्रैक-निदानम् ॥

यद्य् “आश्रितं स्वामी संरक्षती"त्य् आनुमानिको निर्णयः,
तर्ह्य् उपासना-विधायक-शास्त्रम् अनर्थकं,
सर्वेषाम् आश्रयणे एव प्रवृत्ति-सम्भवात् ।
उपासन-प्रपदनयोः समर्थासमर्थाधिकारिकत्वं तु
नानुमानेन शक्यम् अवगन्तुम्।
किञ् च–
राज-सेवावत् भगवत्-सेवाया
माला-करणादि-रूपायाः यथेच्छम् अनुष्ठाने प्रत्यवायापत्त्या
तत्-परिहाराय शास्त्रानुसरणवत्
सद्-आचार्योपदेश-सापेक्ष–मन्त्र-विशेषादि-परिकर-सहित–प्रपत्ति–तत्-फलयोः
साध्य-साधन-भावे अनुष्ठान-प्रकारे च
शास्त्रम् अनुसर्तव्यम्।
लौकिक-प्रपदन–तत्-प्रकार–तत्-फल-विशेष-दर्शिभिर्
इति प्रपत्त्य्-अ-विधेयता-वादो निर्मूल एव ॥

इत्थं यथाधिकारम् उपायं विहितवत्य् अपि शास्त्रे
उपासनादीनां स्व-रूप-विरुद्धत्वम् अभिदधते केचित्,
सोऽपि प्रपत्ति-प्रशंसार्थो ऽतिवादः ।
तथा हि–
स्व-रूप-विरोधः किं नाशकत्वात्, किम् असम्भवात्, किं वा ऽनर्थावहत्वात् ।
नाद्यः- स्वरूपस्य नित्यत्वात्।
न द्वितीयः - भगवद्-आयत्तस्य ज्ञान-चिकीर्षा–प्रयत्नाश्रयत्व-रूपस्य कर्तृत्वस्य
जीवात्मन्य् अभ्युपगमात् ।
न च तृतीयः –
निषिद्ध-काम्यवद् बन्धकत्वाभावेन अनर्थानापत्तेः ॥

अथ ब्राह्मणो ऽहं, क्षत्रियो ऽहं, गृहस्थो ऽहम्
इत्य्-आद्य्-अभिमान-मूलक-वर्णाश्रम-धर्मस्य
तद्-अङ्गिकोपासनादेश् च
देहात्म-विवेकवतो दुर्-अनुष्ठानतया
स्व-रूप-विरोध

इति चेन्न –
स्वरूपस्य ब्राह्मण्य्-आद्य्-अभावेपि प्राचीन-कर्म-विशेषाधीन–ब्राह्मण्यादि-विशिष्ट-शरीर-सम्बद्धत्वात्
यावत्-सम्बन्धं क्षुत्-पिपासादि-परिहारोपयिक-कर्मणाम् इव
वर्णाश्रम-धर्माणां शक्त्य्-अनुगुणानां परित्यागस्य अ-युक्तत्वात् ।
किञ्च–
देहात्म-विवेकवताम् एव हि पार-लौकिक-धर्माधिकारः ।
स चाधिकारः न स्व-रूप-ब्राह्मण्यादि-भ्रमः,
किं तु - ब्राह्मण्यादि-विशिष्ट-शरीर-सम्बन्ध एव ।+++(4)+++
अतः सर्व-धर्म-साधारणस्य प्रकृत्य्-आत्म-विवेकस्य
उपासन-विरोध-प्रसञ्जनम् अपहास्यम्,
अपहास्यं च इदम् अत्यन्तम् उपासनस्याहङ्कार-गर्भत्वारोपेण विरुद्धत्वोपपादनम् ।+++(5)+++

यद् अपि कर्मोपार्जित-करण-कलेवराद्य्-उपाधि-प्रयुक्तानुष्ठानतया
भक्त्यादेः निरुपाधिक–स्व-रूप–विरुद्धत्वाशङ्कनं,
तत् स्व-रूप-विज्ञानस्य द्वय-मन्त्र-श्रवणादेश् च
मनः-प्रभृति-करण-सापेक्षतया प्रपदने ऽपि समानम् ॥

अथात्यन्तपरतन्त्रस्यात्यन्ताशक्तस्य स्व-रक्षणार्थं कर्तव्योपाय-विधानम् अनुपपन्नं,
ततश् च भक्ति-योगादेः शेषत्वाननुरूपत्वात्,
पारतन्त्र्य-विरुद्धत्वात् असम्भावितत्वम् एव

+इति चेन् न – अनेकानर्थ-प्रसङ्गात् । तथा हि–
जीवगतं कञ्चन व्याज-विशेषम् अनपेक्ष्य
मोक्ष-प्रदाने अनादि-मोक्ष-प्रसङ्गः,+++(5)+++
मोक्षोपाय-विधायक-शास्त्रानर्थक्य-प्रसङ्गः,
यथाशास्त्रं भगवत्-प्रीत्यैक-फलक-कैङ्कर्यानुष्ठाने, प्रपदनानुष्ठाने च
स्वरूप-विरोध-बुद्ध्या ऽनधिकार-प्रसङ्गश् च ।

प्रपदनस्य साध्यता तु प्राग् एव सुस्था ।
तस्मात् शेषत्वं पारतन्त्र्यं च
तत्-तत्-प्रदत्त-मर्यादया तद्-अभिमतानुष्ठानेन
तदीय-कैङ्कर्य-लाभौपयिकम् एव ।
नैव च विरुद्धम् ॥

नन्व् अनन्यार्ह–शेष-भूतस्य परमैकान्तिनः
देवतान्तर-द्वारको वर्णाश्रम-धर्मः
तद्-अङ्गिको भक्ति-योगादिश् च
ऐकान्त्य-विरुद्ध

इति चेन्, मैवम्–
परमात्म-विशेषणी-भूत-देवता-वाचकाग्नीन्द्रादि-शब्दान् कांश्चिद्
विशेष-पर्यन्ततया कांश्चिच् च
साक्षाद् भगवद्-वाचकतया चानुसन्धाय
फलान्तरं चाननुसन्धाय
स्व-धर्मानुष्ठानं नैकान्त्यं विरुणद्धीति
भाष्यादिष्व् एव व्यक्तम् उक्तत्वात् ॥

यद् अपि

शास्त्र-प्ररोचनार्थो ऽभिचारादि-विधिर् इव+++(5)+++
प्रपत्ति-प्ररोचनार्थो भक्ति-विधिर् इति
स्वार्थे तात्पर्य-विरहात् स्व-रूप-विरुद्धम्

इति, तद्
अभिचारादेः तुच्छ-फलत्वात्,
भक्तेर् मोक्ष-फलत्वात्,
एकस्निन्न् अधिकारिणि, एकस्मै फलाय, लघूपाय-प्ररोचक-गुरूपाय-विधानायोगाच्
चानुपपन्नम्

तस्मात् विहितत्वाविशेषात्
यथाधिकारम् उभयम् अपि परिग्राह्यम्,
विरुद्ध-तर्कादिना +आगम-गम्यस्यैकस्य बाधने
अपरस्यापि तुल्य-न्यायेन बाध-सम्भवात्
सर्वाप्रामाण्यापातः॥+++(5)+++

अथ च विहितत्वे ऽपि
आचार्य-रुचि-परिगृहीतत्व-वैधुर्यात्
कैश्चित् परिगृहीतत्वेपि गवालम्भादिवत् युगान्तर-विषयकत्व-सम्भवाच् च विरोध

इति, एतद् अप्य् असारं–
कलाव् अपि शठारि–नाथ-मुनि–प्रभृति-पूर्वाचार्य-परिग्रह-दर्शनात्,
भगवद्-भक्तेः समय-नियन्त्रितत्वानभ्युपगमाच् च ॥

तस्माद् उपासनादिकं विरोधान्तर-विरहात् यथाशास्त्रम्
आतुरस्यावगाहनादिकम् इव
अकिञ्चनस्य अधिकार-विरुद्धम्
इत्येव युक्तम् अभ्युपगन्तुम् ।

अत एव –
भक्त्य्-आदौ शक्त्य्-आद्य्-अभावात्
स्वतन्त्रोपायतया प्रपत्तिम् अवलम्बितवन्तं
श्रुतिः स्मृतिः भगवच्-छास्त्रं च
भूयसा प्रस्तौति

अत एव च -
प्रवृत्ति-धर्मः श्रेयान्,
तत्राप्य् अध्यात्म-योगः,
तस्माद् अपि भगवद्-योगः ब्रह्म-विद्यापर-पर्यायः।
तत्रापि न्यास-निक्षेपादि-शब्द-शब्दितः प्रपदनाख्यो योगः सु-करत्व–सकृत्-कर्तव्यत्व–शीघ्र-फल-प्रदत्वादिना श्रेष्ठतम
इति सर्व-शास्त्र-सारांशः ॥+++(5)+++

परिकर-विचारः

अथ परिकर-विषयक-व्यामोहपरिहारः॥

अनालोचित-विशेष-लोक-शरण्ये
रिपूणाम् अपि वत्सलतरे
सकल-कल्याण-गुणार्णवे भगवति
कर्तव्यं भरसमर्पणं प्रति
आनुकूल्य-सङ्कल्पः, प्रातिकूल्य-परिहारश् च सम्भावित-स्वभावौ,
न त्व् अङ्गतया नियत-स्वभावौ

इति केचित्।
तद् एतद् अङ्गाङ्गि-विभाग-विधायक-सकल-शास्त्र-विरुद्धम् ,
स्वाभ्युपगत-नियम-स्वभावे महाविश्वासे ऽतिप्रसक्तं च ।

यद् अपि चात्र केषाञ्चिन् मतम्–

सर्व-साधारण-शास्त्रार्थ-विश्वास-व्यतिरेकेण
अङ्गभूतः कश्चिन् महा-विश्वासो नाम नास्ति

इति, तद् अपि अतिशयित-विश्वासस्य अङ्गतया विधानात्
विश्वास-तारतम्यस्य लोके ऽपि सिद्धत्वाच् च परिहृतम्
मन्द-विश्वासानां प्रपन्नाभासानाम् अपि
सङ्कल्पित-समयावधेः प्राग् एव उपाय-पूर्ति-संपादनेन संरक्षति शरण्य
इति शाण्डिल्यादिभिः संस्कृतम् ।
तस्मान् नियत-स्वभावेन
आनुकूल्य-सङ्कल्पादि-पञ्चकेनोपस्कृतं प्रपदनम्
इत्य् अनाविलं परिकर-स्वरूपम् ॥

सामान्यतः शङ्का-परिहारः

अथ सामान्यतः शङ्का-परिहारः॥

भक्तेः प्रपत्तेर् वा सङ्कल्प-भेदेन
ऐश्वर्य-मोक्षादि-रूप-विरुद्ध-फल-साधनत्वम् अनुपपन्नम्,
न ह्यैकम् एव बीजं वप्तुर् अभिसन्धि-भेदेन विजातीयाङ्कुर-जनन-समर्थं दृष्टम्

इति काचित् शङ्का । सा ऽपीत्थं परिहार्या –
अस्यार्थस्य प्रबल-प्रमाण-शास्त्रैक-समधिगम्यतया
केवल-न्यायस्य अत्र अनवतारः ।

धार्मिक-महोदार–नर-पति–सकाशात् विक्रीत-रत्न-लभ्य-लाभापेक्षया
उपहार-बुद्धि-समर्पित–तादृश-रत्न-लभ्य-लाभे
ऽतिशयस्य दर्शन-रूपो विपरीतो ऽपि न्यायः अस्तीति ॥

अथ च आवृत्त्य्-अनावृत्त्य्-आदिना विषम-स्वभावे उपासन-प्रपदने
कथम् एक-फलं साधयितुम् अर्हत

इतीतरा काचिच् छङ्का ।
सापि– यथा देश-भेदात् काल-भेदाद् वा
गुरु-लघूपाययोः एक-फल-साधनता,
तथा अधिकारि-भेदाद् अपीति
लौकिक-कृषि-वाणिज्यादौ
शास्त्रीये मानस-वारुण-स्नानादौ च दृष्टा
इति विवेकतो विनिवार्यते ॥

तथा–
स्व-तन्त्र–प्रतिपत्ति-रूपोपायैक-रूप्यात् आर्त-दृप्त-भेदेन फल-विलम्बाविलम्बानुपपत्ति-शङ्कापि–
संसार-ताप-जनित–निर्वेद-तार-तम्यानुगुण–
सङ्कल्प-तारतम्येन फल-समय-तारतम्यम् अपि
स-निबन्धनम् एवेति समाहिता भवति ।

प्रपन्नेषु केषाञ्चित् नाथ-मुनि-प्रभृतीनां भगवत्-साक्षात्कारः
केषाञ्चित् तद्-अभावः

इत्यत्र प्रपत्ति-कालिक-फल-सङ्कल्प-विशेषः
प्रारब्ध-सुकृत-विशेषो वा नियामक
इत्य् अप्य् अवधेयम् ॥

अथापि केचिद्
दृष्टार्थ-प्रपत्तौ क्वचित् फलाभावम् अवधार्य
सकल-फल-साधन-समर्थायां तस्याम् अतिशङ्कन्ते ।
तेऽपि कर्म-कर्तृ-साधन-वैगुण्य-मूलः क्वचित् फल-विरह-नियम इति प्रतिबोधयितव्या भवन्ति । प्रकृते कर्म-वैगुण्यं महा-विश्वासादि-मान्द्यम् ।
कर्तृ-वैगुण्यं पूर्वोक्ताधिकार-न्यूनत्वम् ।
साधन-वैगुण्यं यथा-शास्त्र–प्रपत्त्य्-अनुष्ठान-मूल-भूत–सद्-उपदेशादि-शून्यत्वम् । एतत् त्रि-विध-वैगुण्यम् अन्तरेण अनुष्ठितं
दृष्टार्थम् अपि प्रपदनं
फलाविनाभूतम् एवेति ॥

अपरे पुनर् इत्थं मन्यन्ते–

सर्व-शास्त्र-प्रवर्तकैः व्यासादिभिः
“ध्येयो नारायणस् सदा” ”हरिरेव सदा ध्येयः” ”स्मर्तव्यः सततं विष्णुः”
इत्य्-आदिभिः वचनैः
मोक्ष-साधनतया भक्तेर् एव उपदिष्टत्वात्
चरम-श्लोको ऽपि ”मामेव ये प्रपद्यन्ते” इत्य्-आदिवत्
अङ्ग-प्रपत्तिम् एव विधत्तां,
न पुनः स्वतन्त्रां काञ्चिद्

इति । अत्र उच्यते–

”शरणं त्वां प्रपन्ना ये
ध्यान-योग-विवर्जिताः”

इत्यादिभिः प्रमाणैः
सिद्धायां सत्यां स्व-तन्त्र-प्रपत्तौ
“ध्येयो नारायणः” इत्य्-आदिकं वचन-जातम्
अ-रोगस्य क्षीर-पानम् इव
स्वयं प्रयोजनतया प्रपन्नेप्य् अन्वेतीति ॥

तस्मात् सकल-फल-साधनतया भगवच्-छास्त्रादि-विहितं प्रपदनं भक्ति-योगारम्भ-विरोधि-पाप-निबर्हण-रूपोदाहरण-विशेष-परतया
अभाषिष्ट भगवान् भाष्यकारः ।
तस्माद् एव च
भाष्य-ग्रन्थस्य गद्य-स्तुतेश् च अविरोध
इत्य् अनवद्यम् ॥