२३ सिद्धोपायशोधनम्

अथ स्थिरी-करण-भागः ।
तत्र सिद्धोपाय-साध्योपाय+एतत्-प्रभाव-विषयको विचारः प्रवर्तते ।
तन्-निर्णयस्य अस्माकं सहसा ऽनुत्पादस् तु
पूर्वापराध-मूलक–स्व-तन्त्रेश्वर-सङ्कल्पाधीनः ।
तादृश-सङ्कल्प-रूप-निरोध-निवृत्तिश् च
लक्ष्मी-कटाक्ष–सद्-आचार्यानुग्रह–सत्-सम्प्रदाय-सिद्धि-रूप–
प्रधान-कारण-त्रितयायत्ता ।

तत्र लक्ष्मी-कटाक्षः
‘अस्तु मे’ इति प्रार्थनायां,
‘अस्तु ते, तयैव सर्वं सम्पत्स्यते’ इति श्रीसूक्ति-सिद्धः प्रसादः ।

सद्-आचार्यानुग्रहः
तस्य व्याज-विशेषाः फल-विशेषाश् च
पराशर-मैत्रेय-सञ्जयाश्वलायनादि-वृत्तान्तेषु सुव्यक्ताः ।

सत्-सम्प्रदाय-सिद्धिस् तु
स्वस्मिन् सत्त्वोत्तरे सम्यग्-उपपन्ने, सावधाने च सति
ख्याति-लाभ–पूजा-निरपेक्षस्य कारुण्य-परतन्त्रस्य सद्-आचार्यस्य सकाशात्
प्रथमाचार्य-सर्वेश्वर-प्रभृत्य्-उपदेश-परम्परा-प्राप्तस्य
अनपेक्षित-विस्तार-+अपेक्षित-सङ्कोच–रहितस्य
तत्त्व-हित-विषयकोपदेशस्य संप्राप्तिः ॥

बहु-क्लेशे बुद्धि-चलन-कारणे च शास्त्र-परिश्रमे
अनधिकृतानां परमास्तिकानाम् अयम् एवोपदेशः प्राधान्येनोपादेयः
इतरेषां तु स्व-ज्ञानाय कु-तर्क–व्यामूढ-ज्ञापनाय च
समीचीन-युक्तिभिः सह श्रोतव्यः

एवं-विध-श्रवण-विधुराः केचिद् +हैतुकाः
वेद-विरुद्ध-तत्त्व-कल्पनया प्रामाणिकान् अर्थान् अपहरन्ति

स चापहारः विभूति-विषयकः, विभूतिमद्-विषयकश् च ।

तत्र द्वितीयः - श्रियः पत्युः सर्वेश्वरस्य अपह्नवः,
अतिरिक्तस्येश्वरत्व-कल्पनं,
सर्वेश्वरस्य विभूति-कोट्य्-अन्तर्भावश् च ।

प्रथमस् तु प्रकारान्तरेण विभूत्य्-अपह्नवः,
अङ्गीकारे ऽपि - तस्याः सम्बन्धं भगवतः प्रतिषिध्य स्वतन्त्रीकरणं,
पारतन्त्र्ये ऽपि - स्वस्य वा स्व-सदृशस्य वा शेषीकरणं च ॥

अत्र यः कश्चिद् अपहारो
मृदु-प्रज्ञस्य प्रपन्नस्य विपरीत-संसर्ग-वशात् समागतश् चेत्
स्वदत्तापहारे पर्यवस्येत्

तस्माद् बहु-विधेषु व्यामोह-कारणेषु
हैतुक-संसर्गो ऽत्यन्तं दूर-परिहरणीयः
यस्माद् अस्य तादृश-संसर्ग-वशात्
बाह्यत्वासम्भवेपि व्यामोह-सम्भवः
सद्-आचार्य-कटाक्षात् तत्-परिहारश्
तत्र तत्र श्रूयते ।
तस्माद् आरुरुक्षूणां
तत्त्वेषु व्यामोहः सम्भावित एवेति
युक्तः स्थिरीकरण-भागारम्भः

तत्र यथोद्देशं
सिद्धोपाये शङ्का-परिहारान् उदाहरिष्यामः ।
ताश् च शङ्काः
स्वातन्त्र्य-सहज-कारुण्य-मूलाः,
शेष-शेषि-भाव-सम्बन्ध-विशेष-मूलाः,
पत्नी-सम्बन्ध-मूलाश्
चेति त्रिप्रकाराः ।

स्वातन्त्र्य-सहज-कारुण्य-मूलाः

तत्र आद्याः –

अनादेः कालात् चेतनम् इमम् अनादृतवतः परमेश्वरस्य
इदानीं कस्यचित् स्वीकरणं
केवल-स्वातन्त्र्य-निबन्धनं,
तस्माद् अस्माकं किम्-अर्थम् उपायानुष्ठानम्

इति काचिद् आशङ्का ।

ईश्वरः स्वतन्त्रो ऽपि
वैषम्य-नैर्घृण्य-दोष-परिहाराय
कस्मिंश्चित् चेतने कञ्चन-व्याज-विशेषम् उत्पाद्य
तं पुरस्कृत्य रक्षतीति तत्र समाधिः ।

व्याज-विशेषो ऽपि ईश्वर-सङ्कल्पाधीनश् चेत्
पूर्वम् एव कुतस् तथा न सङ्कल्प

इति शङ्कायां
कर्म-प्रवाहस्य अनादित्वात्
विषम-विपाक-समयत्वात्
कर्मानुगुण-फल-प्रदत्वाभावे वैषम्य-दोष-प्रसङ्गाच् च
अद्य-पर्यन्तं व्याज-विशेषस्यापि अनवसर इति
कार्य-विशेष-दर्शनेन कल्पनेति समाधानम् ॥

ईश्वर-स्वातन्त्रस्यैव नियामकत्वाभ्युपगमे तु
इतः प्राक् कदा ऽपि असञ्जातस्य मोक्ष-श्रद्धादेः
इदानीम् एव उदये किं निदानम्

इति पर्यनुयोगो निरुत्तर एव भवेत् ।
अनादि-कर्म-प्रवाह-वैचित्र्यस्य निदानत्वाभ्युपगमस् तु ईश्वराङ्गीकर्त्र्-अनङ्गीकर्तृ-साधारणः ।
“तर्हि ईश्वर-स्वातन्त्र्यं विफलम्”
इति चेत् न-
कञ्चिद् व्याज-विशेषम् अवलम्ब्य
अभीष्टसमय एव संरक्षणौन्मुख्यस्य
तन्-निवारक-स्वतन्त्रान्तर-राहित्यस्य च
स्वातन्त्र्य-निबन्धनत्वात् ॥

इत्थं चेमं चेतनं
लीलोपकरणं कर्तुं
प्रधान-कारणम् ईश्वर-स्वातन्त्र्यम् ।
सहकारि कारणं
प्रवाहानादिभूतं स्वतन्त्राज्ञातिलङ्घनम् ।
तथा भोगोपकरणं कर्तुं
स्वाभाविकम् ईश्वर-कारुण्यं प्रधान-कारणम् ।
सहकारि-कारणं वशी-करण-विशेषः ।
स च यादृच्छिक-सुकृत-विशेष-मूलकेश्वर-कृपा-निबन्धनः कारुण्य-प्रवाह-प्रतिरोधक-निग्रह-शमन-द्वारकश् च ।

एवम् ईश्वर-स्वभावं वैषम्य-नैर्घृण्य-राहित्यं,
बन्ध-मोक्षादि-व्यवस्थां च
यथा-प्रमाणम् अनुसन्धाय
स्वातन्त्र्य-विशिष्टं कारुण्यम् एवावलम्बेत
यतः निष्करुणस्य स्वातन्त्र्यं कदाचित् बाधकं स्यात् ।
अस्वतन्त्रस्य कारुण्यं परेषाम् अनुपकारकं स्वस्यापि क्लेशावहम्।
स्व-तन्त्र-कारुण्यं तु सत्य-सङ्कल्पत्वात् स्वस्यानन्दावहम्,
आश्रितानाम् अनिष्ट-निवृत्तौ इष्ट-प्राप्तौ च समर्थं भवति ।

अत एव अवतार-वृत्तान्तेषु श्रूयमाणं दुःख-पलायनादिकम्
आसुर-प्रकृति-मोहनाय सात्त्विक-प्रकृति-रञ्जनाय चाभिनय-मात्रम् ।+++(5)+++
तद् अपि कृपा-मूलकं स्व-तन्त्रस्य लीला-रसावहं च ॥

एवं परहित-व्यापाराश्रयत्वात् आश्रित-रक्षकः,
उपायान्तर-स्थान-निवेशाद् उपायः,
रक्षण-व्यापार-फलाश्रयत्वात् शेषी,
अत एव प्राप्यश् च भवतीत्य् एवं प्रकार-वैशिष्ट्यं स्व-रूप-प्रयुक्तम्
इति धर्मि-ग्राहक-मान-सिद्धम् ।

तस्य चेश्वरस्य ज्ञानं, शक्तिः, कारुण्यं च प्रधानो गुणः
तत्र ज्ञान-शक्ती निग्रहानुग्रह-साधारणे ।
कारुण्यम् अनुग्रह-साधारणम् ।
तच् च परहित-प्रावण्य-लक्षणम् ।
तद् एतत् कारुण्यं सर्व-वस्तु–सत्ता-स्थिति-प्रवृत्तिषु
मुक्तानाम् अनावृत्तौ, लीला-विभूति-सृष्टौ, स्वावतार-रूप-शुद्ध-सृष्टौ,
शास्त्र-प्रवर्तने, तद्-द्वारा तत्त्व-हित-विषयक–ज्ञानोत्पादने,
मोक्ष-श्रद्धा-जनने, तद्-व्याज-भूत–सुकृत-विशेषे, तत्-तद्-अधिकारानुरूप–निग्रह-शमनोपाय-प्रदाने,
तत्र मनस्-आदि-करण-प्रेरणे, उपासकस्यान्तराय-प्रतिसमाधाने, अ-किञ्चनस्योपायान्तर-स्थानावस्थाने, व्याज-मात्रेणानादिकाल-सञ्चितानन्तापराधानादरणे,
संसार-निवृत्ति-पूर्वकानन्त-सुखानुभव-प्रदाने, आर्तानां तदानीम् एव मोक्ष-प्रदाने,
यावज्-जीवं निरपराध-प्रवृत्ति-रूप-फलम् अप्रार्थयमानानां दृप्त-प्रपन्नानां
प्रारब्ध-कर्माधीनापराधस्य अनुतापादि-जननेन अधिकारानुरूप-प्रायश्चित्त-विशेष-प्रवृत्त्य्-उत्पादने,
अ-मृदु-प्रकृतीनां यम-विषय-गमनम् अपेक्षित-फल-प्रतिबन्धं च अन्तरेण
उपक्लेश-लक्षण-शिक्षणे च
प्रधानं सामान्य-निदानम्

एवं-भूत-कृपाविशिष्टः परमेश्वरः
सर्व-पुरुषार्थ-साधकत्वात्, पूर्व-सिद्धत्वाच् च सिद्धोपायः
तस्य प्रसादन-भूतः भक्ति-प्रपत्त्यादिः तत्-तत्-फलार्थि-साध्यत्वात् साध्योपायः
अत्र प्रपदनम् अधिकारि-विशेषणं,
अनुपाय इति च केषाञ्चिद् अभिधानं,
प्रपदनस्य अधिकारि-विशेषण-लक्षण-शून्यत्वात्
यं-कञ्चनाधिकारिणं प्रति कर्तव्यतया विधीयमानत्वात्
उपासनादेर् अप्य् अधिकारि-विशेषणत्व-प्रसङ्गात्
साक्षान् मोक्षोपायत्व-बोधकानेक-प्रमाण-दर्शनाच् च
सिद्धोपाय-प्राधान्याभिप्राय-मूलकम् इति मन्तव्यम् ॥

तस्य +++(सिद्धोपायस्य)+++ प्राधान्यं
प्रसादनेन निग्रह-शान्तौ सत्यां
स्वाभाविकानुभव-प्रयोजकत्वात्
तद् यथा-
महारत्नस्य कल्मष-निवृत्तौ सत्यां
स्वाभाविकः प्रभाविकासः तद्-अनुगुण-भगवत्-सङ्कल्प-मात्राधीनः ।
तथा मुक्तस्य ज्ञान-विकासोऽपि
तद्-अनुगुण-सङ्कल्प-विशेष-मूलकः ।
तस्मात् सिद्धोपाय-प्राधान्ये ऽपि
तद्-वशी-करणार्थ-साध्योपायानुष्ठानस्य
कोपि विरोधः

शेष-शेषि-भाव-सम्बन्ध-विशेष-मूलाः

अथ सम्बन्ध-विशेष-मूलक-शङ्का-परिहारः॥

सर्वेश्वरे सर्वशेषिणि परमात्मनि
स्वात्म-समर्पणं, रक्षण-प्रार्थनं, विश्वसनम्,
एवम्-आदिकं सर्वं
स्तनन्धय-प्रायाणाम् अस्माकं
मातृ-स्तन्यस्य शुल्क-प्रदानवत्-स्वरूप-विरुद्धम्

इति शेषि-भूत-सिद्धोपाय-मुखेन साध्योपाय-स्वरूपं केचिन् निघ्नन्ति

प्रतिघ्नन्ति च तान्
महर्षीणां श्री-भाष्य-कारादीनां च
विश्वास-पूर्वक-प्रार्थनाऽऽत्म-निक्षेपाद्य्-अनुष्ठानं,
तत्र शास्त्र-सम्प्रदायः उपदेश-परम्परा च ।
तस्मात् शेषित्वादि-सम्बन्धस्य नित्यत्वे ऽपि
शेष-रक्षणस्य शेषिणः प्राप्तत्वे ऽपि
कर्म-वश्यान् अस्मान् ईश्वरः
कस्यचित् साध्योपाय-विशेषस्य पुरस्कारं विना
न रक्षतीति शास्त्र-वश्य-सिद्धान्तः ॥

अथ च शास्त्रम् अनादृत्य
केवल-युक्त्य्-अवलम्बने
ईश्वरस्यैव अ-सिद्ध्या
शेष-शेषि-भाव-सम्बन्धो ऽपि न सिद्ध्येत् ।
अतः “परमेश्वरः शेषी रक्षणे प्राप्तः,
शेष-भूतो ऽयम् अ-प्राप्तः” इति कथनं
रक्ष्य-रक्षक-भावस्य लोक-दृष्ट-प्रक्रियया औचित्य-प्रदर्शन-परं +++(यथा बालशिक्षणे पितृपात्रम् प्रधानम्)+++,
न तु सम्बन्ध-मात्रस्य निरपेक्ष-कारणत्व-प्रदर्शन-परम् +++(- ननु रक्षणम् अनिच्छतो रक्षणं दुष्करम्)+++।
सम्बन्ध-मात्रस्यैव नियामकत्वे
सर्व-मुक्ति-प्रसङ्गः,
स्वातन्त्र्येण व्यवस्थापने तु
पूर्वोक्त-रीत्या वैषम्य-नैर्घृण्य-प्रसङ्गश् च ।

अथ तादृश-सम्बन्ध-ज्ञान-मात्रम् अपेक्षितं
न तु रक्षापेक्षादिकम्
अतो नानुपपत्तिर्

इत्य् अयुक्तम् -
सम्बन्ध-ज्ञान-रहितानाम् अपि
अचिद्-द्रव्याणां, मृग-पक्ष्य्-आदीनां, स्तनंधयादीनां च
रक्षापेक्षा-रहितानां रक्षणस्य लोके दर्शनात् ॥
तथा दर्शनेन
शास्त्र-बलात् सम्बन्ध-ज्ञानम् अपेक्षितम् इति चेत्
शास्त्र-बलाद् एव
रक्षापेक्षा ऽप्य् अपेक्षणीया स्यात् ।

अथ “सम्बन्ध-सहितः प्रतिषेधाभावो ऽपेक्षित”
इति चेत्
सुषुप्त्य्-आद्य्-अवस्थासु सर्व-मुक्ति-प्रसङ्गः ।

अथ “प्रतिषेध-योग्य-दशा-कालीन–तादृश-प्रतिषेधाभावो विवक्षित”
इति चेत्
प्रतिषेध-योग्यता-रहितानाम् अचितां
प्रतिषेधतां च पशु-पुत्रादीनां रक्षणाभाव-प्रसङ्गः ।

तर्हि “स्व-रक्षणार्थ-व्यापारे स्वस्य नान्वय” इत्य् आप्त-वचनस्य किं तात्पर्यम्
इति चेत्
यथा-प्रमाणं स्व-रक्षणोपयिक-भर-समर्पणानन्तरं
स्व-रक्षणार्थ-व्यापारे स्वस्य नैवान्वयः ।
पूर्वम् अनुष्ठितः समर्पण-व्यापारो ऽपि
सर्व-कर्त्रा भगवता बीजाङ्कुर-वद्
अनादि-भूत-कर्म-प्रवाह-विशेषाधीन-
यादृच्छिक-सुकृत-विशेष-रूप-कारण-द्वारा कारितः ।
अतस् सर्व-रक्षको भगवान् एव
स्वयम् अस्मान् कस्मिंश्चिद् उपाय-विशेषे प्रवर्त्य
तद्-द्वारा प्रसन्नः संरक्षतीति वर्तितव्यम्
इत्य् अत्र तात्पर्यं,
अन्यथा भोजनादि-लौकिक-व्यवहार-प्रवृत्त्य्-आदिकम् अपि परित्यक्तव्यं स्यात् ।

एवं च भर-समर्पण-दशायां
ख्याति-लाभ–पूजा-फल-सङ्ग–कर्तृत्वोपाय-रूप-कल्मष–
रहितानुसन्धान-प्रकारस् त्व् इत्थं सङ्गृह्यते –

स्वामी स्वशेषं स्ववशं
स्व-भरत्वेन निर्भरम् ।
स्व-दत्त–स्व-धिया स्वार्थं
स्वस्मिन् न्यस्यति मां स्वयम् ॥

इति ॥

तस्मात् जननी-स्तन्यस्येव स्वतस्-सिद्धस्येश्वर-प्रसादस्य
स्तनं-धय-समवेत-स्तन-पान-व्यापार इव
अस्माकीन-रक्षाऽपेक्षादिः व्यापारः सफल एव ।+++(4)+++

सिद्धोपाय-स्वरूपम् अपि
निरस्त-समस्त-दोष-शङ्का-लेशावकाशम् इति ॥

पत्नी-सम्बन्ध-मूलाः

अथ पत्नी-सम्बन्ध-निबन्धन-शङ्का-परिहारः –

लक्ष्म्याः मोक्षं प्रति उपायत्वं नास्ति
मुक्तं प्रति उपेयत्वं पुनर् अस्तीति
केषाञ्चित् सिद्धान्तः ।

अत्र मीमांस्यते –
अनन्योपायत्व-विरुद्ध–+उपाय–द्वित्व-प्रसङ्गात् नोपायत्वं श्रिय
इति चेत्
अनन्य-प्रयोजनत्व-विरुद्ध–प्राप्य-द्वित्व-प्रसङ्गात्
प्राप्यत्वम् अपि परित्यक्तव्यं स्यात् ।

स्वातन्त्र्य-कारुण्य-विशेषैर् एव
भगवतो रक्षकत्वम् अभिदधतां
नेष्टापत्तिर् अत्र सम्भवति -
श्रिय इव उपाय-विशेषणी-भूत–गुण-विग्रह-व्यापार-विशेषाणाम् अपि परित्याग-प्रसङ्गात् ।

अथ “गुणादीनाम् उपयोग-विशेष-सम्भवात् न परित्याग”
इति चेत्
तद् एतत् पत्नी-सम्बन्ध-रूप-विशेषणे ऽपि तुल्यम् ।
उपयोग-विशेषस् तु
तत्-तद्-वस्तु-स्वभावानुगुणः -
प्रकृते पुरुष-कारत्व–अनुमति-प्रदातृत्व–भर-स्वीकर्तृत्वादिः
प्रमाण-सम्प्रदाय-सिद्धो वेदितव्यः । पराङ्कुश+++(=नम्माऴ्वार्)+++–हिरण्य-गर्भ–काश्यप-शौनक-पराशर-
श्रीपति-यामुनार्य-रामानुजाचार्य-कूरेश-श्रीवत्साङ्कमिश्र–वृद्ध-मुनि-प्रभृतयो ऽपि
इत्थम् एव श्रिय उपयोग-विशेषं
स्व-स्व-प्रबन्धेषु उदाजह्रुः ।
तस्मात् श्रिया गुण-विग्रहादिभिश् च विशिष्ट एव परमेश्वर उपेय इव उपायोपीति सिद्धम् ।
विशिष्टैक्यात् उपायैक्य-व्यपदेशः ॥

अथ “सर्वम् अप्य् उपाय-विशेषणं परित्यज्य
केवल-धर्मिण एव उपायत्वम् उच्यत”
इति चेत्,
तर्हि – उपायत्वम् अपि तत्र परित्यक्तव्यं स्यात् - तस्यापि विशेषणत्वात् ।
अतः विशेषण-प्रयुक्ते
सातिशयेन विशेष्यस्य वैगुण्यं न शङ्कितुं युक्तम् ।

किञ्च– “विशेष्यस्य विशेषण-प्रयुक्त एव अतिशय”
इति न नियमः,
स्व-रूपानुबन्ध्य्-अतिशयस्यापि प्रमाण-प्रसिद्धत्वात् ।

एवं विशेषणी-भूत-श्रियो ऽपि
स्व-रूपानुबन्ध्य्-अतिशयो ऽस्ति ।
अत एव अन्योन्यातिशयावहत्वेन विशेषण-विशेष्ययोः निर्देशः

उभयोर् अपि व्यासज्य वृत्त्य्-ऐक-शेषित्वाश्रयत्वात्
हविर्-विशेषे ऽग्ना-विष्णु-प्रभृतीनाम् इव
आत्म-हविस्-समर्पण-प्रतिसम्बन्धित्वम्
एवं नित्य-पति-पारार्थ्यात्
याग-कर्मणीव पति-प्राधान्येन शास्त्र-प्रवृत्तिः,
यजमानैक्यम् इव एकत्व-व्यपदेशश् च ।

तस्मात् श्रियो भगवत्-स्वरूप-निरूपकत्वेन
तत्-प्रतीत्य्-अन्तर्-भूतत्वात्
भगवन्तम् अभिदधत् सर्वम् अपि वाक्यं
श्रियम् अप्य् अभिधत्ते इति सम्प्रदायः ॥

अथ सर्वस्याप्य्+++(??)+++ अवस्थासु —
श्रियो भगवद्-अविनाभूतत्वे
भगवद्-आलयादिषु श्रियः पृथक्-प्रतिष्ठार्चनादिकं कथम् उपपद्यते

इति चेत्, अत्र उच्यते—
भगवतो ऽर्चा-रूपं त्रिविधम् -
अधिकारो, लयो, भोगश् चेति ।
तत्र काम-प्रधानं रूपम् अधिकारः मदन-गोपालादि-रूपम् ।
मोक्ष-प्रधानो लयो भोगश् च राम-कृष्णादि-रूपम् ।
सर्व-परिवाराणां भगवद्-अन्तर्भावेनार्चनं लयः
पृथग्-अर्चनं भोगः
एवं श्री-रूपम् अपि त्रिविधम्

आलय-समृद्ध्य्-अर्थं पृथक्-प्रतिष्ठापितम् अधिकारार्चनम्,
भगवतः वक्षः-स्थल-स्थितं लयः
पार्श्व-स्थितं भोग इति ।
तत्राधिकार-रूप-श्री-रूपस्य आलयादि-समृद्ध्य्-अर्थतया
शास्त्र-चोदितत्वात् नानुपपत्तिः

तर्हि लय-भोगार्चन-पराणाम् अनन्य-प्रयोजनानां मुमुक्षूणां
काम्य-प्रधानाधिकारार्चन-प्रणामादिकं कथम्?

इति चेन् -
न, तत्रापि विष्णु-पत्नीत्वस्य सु-प्रतिष्ठितत्वात्
काम्य-प्रधान-भगवद्-रूपेष्व् इव
मातृत्व-स्वामित्वाद्य्-उपाधिक-प्रणामाद्य्-आचाराणाम् अनुपपत्तेः अभावात् ।

तस्मात् सिद्धोपाय-शब्द-वाच्य-मीमांसायाम्
एक-शेषित्वाश्रयत्वात्
एकाभिप्रायवत्त्वात्
परस्पर-प्रावण्याश्रयवत्त्वात्
स्व-रूप–रूपादिषु अ-पृथक्-सिद्ध–संसर्ग-विशेषवत्त्वात्
सु-श्लिष्टं श्री-विशिष्टम् एव परमात्मानं
श्रीमन्-नारायण-शब्दः प्रतिपादयतीति
सात्त्विकानां सिद्धान्त-तत्त्वम् ॥