२२ परिपूर्णब्रह्मानुभवः

अथानेन गति-विशेषेण
परमं पदम् उपगतवतः
सर्व-देश–सर्व-काल–सर्वावस्थास्व् अपि सर्वेश्वरम्
अनन्त-गुण-विग्रह-विभूति-चेष्टितेषु क्वचिद् अपि सङ्कोचम् अन्तरेण
निरतिशय-भोग्यतया विषयी-कुर्वन्न् अनुभवः
परिपूर्णानुभव इत्युच्यते ।
अस्मिन्न् अनुभवे निरतिशय-भोग-रूपे
मुक्तानां भगवतश् चेषद् अपि वैषम्य-विरहात्
परमं साम्यम् इत्युच्यते ॥

अत्र भगवत्-स्वरूपस्य भोग्यत्वात्
तद्-अनुबन्धी सर्वोऽपि प्रकारः
भोग्यः भवति मुक्तानाम् ।
यथा राजमहिष्याः भोग्य-भूतस्य राज्ञः सम्बन्धि-भोग्य–भोग-स्थान–भोगोपकरणादिकम्,
अतस् सर्व-प्रकार-विशिष्ट एव सर्वेश्वरो भोग्यः

अत्र निरतिशयानुकूलत्वात् परम-प्राप्यत्वाच् च
भगवत्-स्वरूपं,
परिपूर्णानुभव-प्राप्तेः भोग्य-भूत-सत्त्वोत्तर-देश-विशेष-प्राप्त्य्-अनन्तर-भावित्वात् तादृशो देशविशेषः,
अस्य चानुभवस्याश्रयतया ऽनुभाव्यत्वात्
भगवद्-विभूति-भूतं ज्ञानानन्द-लक्षणं स्व-स्वरूपं चेत्य् एतत् त्रितयं
परमं पदम् इत्य् उच्यते ॥

अथ भगवत्–स्व-रूप–रूप-गुण-विग्रहादेः नित्य-विभूतेः
स्व–स्व-रूपस्य च
भोग्यत्वे ऽपि
प्रतिकूलतया प्रत्यक्षादि-प्रमाण-प्रसिद्धं
मुमुक्षोः त्याज्यतया शास्त्र-विहितं लीला-विभूति-गतं वस्तु-जातं कथं भोग्यं स्यात्?

इतिचेत्-
पित्तोपहतस्य प्रतिकूलम् अपि क्षीरं
पित्तोपशान्त्य्-अनन्तरं
यथाऽनुकूलम् एव भवति,
यथा वा निगल-बन्धन-बद्धस्य राज-कुमारस्य प्रतिकूलम् अपि कारागारं
विमोचनानन्तरं सार्वभौम-पितृ-समान-भोगस्य तस्यैवानुकूलं भवति
तथा भगवत्-संश्लेष-विरह-दशायां
कर्मानुगुणं प्रतिकूलम् अल्पानुकूलं चेदं वस्तुजातं
निरन्तर-भगवद्-अनुभव-दशायां निरतिशय-भोग्य-वर्ग एवान्तर्भवितुम् अर्हति ।
इत्थं बन्ध-मुक्ति-दशा-भेदेन तेषाम् एव वस्तूनां स्व-भाव–भेदः
भगवत्-सङ्कल्प-भेद-निबन्धनः ॥

परिपूर्णानुभव-जनित-प्रीति-विशेषस्य परीवाह-रूपं कैङ्कर्यम् इति सर्वत्र सुस्पष्टम् ।
तदानीं श्रुति-सिद्धं जक्षणादिकं +++(=??)+++ ज्ञात्यादि-सम्पादनं च पुण्य-पाप-रूप-कर्म-निरपेक्ष–भगवद्-इच्छानुगुण–स्वेच्छा-निबन्धनतया
कर्म-फल-विलक्षणासम्भव-परीवाह-रूप-कैङ्कर्यान्तर्भूतत्वात्
प्राप्ति-रूपं सत्
यथाभिमत-कैङ्कर्य-पर्यन्तः परिपूर्ण–पर-ब्रह्मानुभव एव ॥

सो ऽयम् अनुभवः
उत्तरावधि-रहितः
भगवत्-कैङ्कर्यान्तर्भूत–स्व-च्छन्द-विहारेण लीला-विभूति-प्रवेशेऽपि एतद्-अनुभव-सङ्कोच-विरहात् पुनरावर्तिर् नास्तीत्य् अभिधीयते ।

इत्थम् उत्तरावधि-रहितम् इमम् अनुभवं प्राप्स्यतां
चरमं शरीरं देव-मनुष्यादिषु कीदृशम्
इति न ज्ञायते ।

यस्मात् ब्रह्मादीनां धर्म-व्याधादीनां च मोक्षः श्रूयते,
तस्मात् मुमुक्षु-दशायाम् उत्कर्षापकर्षाभ्यां मुक्ति-दशायाम् अनुभव-तारतम्यं वदन्तः सर्वेषां मुक्तानां ब्रह्मणश् च परम-साम्य-प्रतिपादक-श्रुत्य्-आदिकं विस्मरन्ति ।

आचार-वैकल्यवतां मुमुक्षूणाम् आनन्द-ह्रास
इति केषाञ्चिद् वचनं
प्रामाणिकम् अपि मुक्ति-प्राक्-कालिकानुभव-सङ्कोचाभिप्रायकम् ॥

प्राक्तन-मुक्तापेक्षया
इदानींतन-मुक्तानां ब्रह्मानुभवांशे
काल-कृत-सङ्कोचे सत्य् अपि
अनुभव-स्वरूपे न विशेषः ।
विष्णु-लोकादिषु सालोक्य-सामीप्यादि-भाजां मुक्त-व्यपदेशस् तु
अदूर-विप्रकर्ष-निबन्धनः ।
परम-पद-प्राप्त्य्-अनन्तर-भावि सायुज्यम् एव
मोक्ष-पदस्य मुख्यार्थः ।

तादृशे च मोक्षे
सालोक्यादिकं सर्वं
सहस्रे शतादिकम् इव अन्तर्भूतम्,
तस्मात् तत्र नास्ति परस्परं वैषम्यम् ॥

तत्र सायुज्यं सयुजो भावः ।
सयुक् च एकस्मिन् भोग्ये भोक्ता सन् सहान्वयी ।
प्रकृते स-प्रकार–पर-ब्रह्म-रूपे भोग्ये
परमात्मा मुक्तश् च
सह-भोक्तारौ भवतः ।
अतः मुक्तः सयुग् इत्य् उच्यते ।

भोग्ये तारतम्य-राहित्यं सायुज्य-पदार्थः,
भोगे तारतम्य-राहित्यं तु
सार्ष्टिता-पदार्थः
इत्य् अनयोः क्वचित् सह-प्रयोगे ऽपि न पौनरुक्त्यम् ॥

मुक्तस्य जगद्-व्यापाराभावे ऽपि
कृषि-कर्ता पिता
निर्व्यापारस् तत्-पुत्रादिश् च यथा कृषि-फलम् अनुभवतः
तथा जगद्-व्यापार-जनितम् आनन्दं
स्रष्टा परमेश्वरः, द्रष्टा मुक्तश् च समम् अनुभवतः

अतः मुक्तस्य ज्ञान–स्व-रूप–भोगादिभिर् एव परमं साम्यं,
जगत्-कारणत्व–मोक्ष-प्रदत्व–सर्वाधारत्व–सर्व-नियन्तृत्व–
सर्व-शेषित्व–सर्व-शरीरत्व–सर्व-शब्द-वाच्यत्व–सर्व-वेद-वेद्यत्व–
सर्व-लोक-शरण्यत्व–सर्व-मुमुक्षूपास्यत्व–सर्व-फल-प्रदत्व–
सर्व-व्याप्त-ज्ञानानन्द-स्वरूपत्व–लक्ष्मी-सहायत्वादयः
छत्र-चामरादिवत् लक्षणतया अभिधीयमाना धर्माः
ईश्वरस्यैव प्रतिनियताः ।
मुक्तस्य तु आधेयत्व-शेषत्वाणुत्वादयो धर्माः व्यवस्थिताः ॥

स्वातन्त्र्यम्

क्वचिन् मुक्तः स्वतन्त्र इति वचनम् अ-कर्म-वश्यार्थकम् ।
“तर्हि अ-स्व-तन्त्रस्य मुक्तस्य कदाचित् केनापि हेतुना पुनरावृत्तिः स्यात्”
इति चेत् - हेतु-विरहाद् इति प्रतिविधीयते ।
अत्र हेतुः - किं स्वेच्छा, उत भगवद्-इच्छा?
नाद्यः,
मुमुक्षु-दशायाम् आविर्भूतम् ऐश्वर्य-कैवल्य-विषयकं वैराग्यं
मुक्त-दशायां ब्रह्मात्मकतयैव सर्व-साक्षात्-कारेण केवलानुभव-प्रसङ्ग-विरहात् पुरुषार्थान्तर-दोषाणां नित्यं प्रत्यक्षी-कृतत्वेन तद्-अभिलाषासम्भवाच् च प्रतिष्ठितं भवति ।

मुमुक्षु-कालिकं चिद्–अ-चिद्–ईश्वर-विषयकं, हेयोपादेय-विषयकं च ज्ञानम्
इदानीं विच्छेद-सङ्कोच-रहितं सत्
विकसितं भवति
भगवद्-विषय-वैलक्षण्येन पूर्वम् उत्पन्नं भक्ति-शब्द-वाच्यं प्रीति-रूपापन्नं ज्ञानम्
इदानीं शास्त्राणाम् अप्य् अगोचरी-भूतस्य भगवद्-वैलक्षण्यस्य साक्षात्-कृतत्वेन
निरतिशय-प्रीति-रूपतापत्त्या परिपूर्णम् ।
तस्मात् वैराग्य-ज्ञान-भक्तीनां सङ्कोचाभावात्
न स्वेच्छया पुनरावृत्ति-शङ्का ॥

नान्त्यः-
मुक्तस्य भगवति प्रीतेः निरतिशय-दशापत्त्या
भगवतोप्य् अस्मिन् प्रीत्य्-अतिशयः
स्वेनाप्य् अपरिच्छेद्यः सन्
एतदीयेष्व् अपि प्रवहति ।
शास्त्र-वश्यता-रूपाधिकारस्य निवृत्तत्वात्
मुक्ति-दशायाम् आज्ञातिलङ्घनं नास्ति ।+++(5)+++
नास्त्येव च भगवत्-प्रीत्यैव स्वस्य प्रीतिमत्त्वात्
भगवद्-अनभिमतानुष्ठानम्।
तस्माद् भगवद्-विषयकाप्रीत्य्-आज्ञातिलङ्घन-विरुद्धाचरणानाम् असम्भवात्
भगवतो ऽप्य् अस्मिन् अ-प्रीत्य् अनुदयात्
न भगवद्-इच्छया ऽपि पुनर्-आवृत्ति-शङ्का ॥

तस्मात् कैङ्कर्य-पर्यन्त–परिपूर्ण-ब्रह्मानुभव-रूप-मोक्षाख्यः पुरुषार्थः
अर्चिर्-आदिना देश-विशेष-प्राप्तेर् अनन्तरं
यावद्-आत्म-भावीति सिद्धम् ॥

उपसंहारः

इत्थम् अनादेः कालात् संसरतः,
अवसर-प्रतीक्ष-भगवत्-कृपया समीचीन-शास्त्र-मुखेन तत्त्व-हित-पुरुषार्थ-विशेषान् विज्ञातवतो मुमुक्षोः,
स्वाधिकारानुरूपं कञ्चनोपाय-विशेषं परिगृह्य
कृत-कृत्यस्य अस्य
यथाशास्त्रं निरपराधं चानुष्ठेयस्य कैङ्कर्य-रूप-पुरुषार्थस्य प्रकारः
शरीर-पातानन्तरम् अर्चिर्-आदि-गत्य्–अ-प्राकृत-देश-विशेष-प्राप्त्य्–अनन्तर-भाव्य्–
अनवच्छिन्न-भगवद्-अनुभव-परीवाह-लक्षण–
परिपूर्ण-कैङ्कर्य-रूप–परम-पुरुषार्थ-सिद्धि-प्रकारश् च निरूपितः॥
अयम् अर्थानुशासन-भागः ॥