२१ गतिचिन्तनम्

अथ वत्सलो हार्दः परमात्मा स्थूल-शरीर-लक्षण–ब्रह्म-पुरात्
ब्रह्म-नाडी-रूप–प्रधान-द्वारेण
एनं मुमुक्षुं प्रस्थाप्य अर्चिर्-अहः–पूर्व-पक्षोत्तरायण-संवत्सर-
वाय्व्-आदित्य-चन्द्रामानव-संज्ञक–वैद्युत-पुरुष-
तत्-सहकारि–वरुणेन्द्र-प्रजापत्य्-अभिधानैः अतिवाहिकैः प्रसिद्ध-तत्-तल्–लोक-पालैः
नित्यसूरिभिर् वा
स्वयम् एव देवयान-पथं गमयत्य् अनुभावयति
तत्-तल्–लोक-पाल-कृतां सपर्याम्

अथ चिर-काल-काङ्क्षितं देश-विशेषं प्रापय्य,

कर्म-फल-विशेष-भोगार्थतया विना
केवल-विद्यया ऽवस्थापितं गत्यर्थम् एव
अनुवर्तमानं सूक्ष्मशरीरं नदी-तरणायोपात्तं पोतम् इव विनिवर्त्य
विरजां तारयित्वा
दिव्य-शरीरं प्रदाय,
ऐरंमद-नामकं सरो-विशेषं, सोम-सवन-संज्ञकम् अश्वत्थं च उपगमय्य, मालाञ्जन-चूर्ण-वासो-भूषण-हस्तानाम् अप्सरसां पञ्च-शत्या अभ्यागमय्य
ब्रह्मालङ्कारं कारयति

अथास्मिन् ब्रह्म-गन्ध-रस-तेजांसि प्रवेश्य
“भगवतः कुल-दासाः समागता”
इति अत्यादरेण क्रमशः प्रत्युद्गच्छत्सु मकुटालङ्कृतेषु नित्य-सूरिषु
दिव्य-ध्वज-पताक-तोरणाद्य्-अलङ्कृतम्
अत्युच्चातिदीर्घ-प्राकारालङ्कृतं गोपुर-द्वारम्
इन्द्र-प्रजापत्य्-अभिधानौ तत्-पालकौ सङ्गमय्य
पूर्ण-कुम्भाद्य्–अ-प्राकृत–राजोपचारान् कारयित्वा
आनन्दमय-मणि-मण्टपे दिव्यास्थाने प्रवेश्य
आत्यन्तिक-दुःख-निवृत्त्य्-अर्थं यथा-मनो-रथं निरतिशय-भोग्यम् आत्मानं स्वयम् एव प्रदर्श्य
गुणाष्टकाविर्भावं संपाद्य
स्व-चरणारविन्दोपधानतया स्वीकरोति ।+++(5)+++

अथ समान-भोगत्व-लक्षण-सायुज्य-प्रदानेन
कालतः स्वरूपतो ऽपरिच्छिन्नानन्दैः नित्य-सूरिभिः सहावस्थापयति

इत्थं समस्त-प्रतिबन्धक-निवृत्ति-पूर्वकं
स्व–स्व-रूपाविर्भाव-पूर्वकं च
देश-कालावस्था-सङ्कोच-रहितं
स्व-मनो-रथानुगुणैतदीय–मनो-रथ-विषयी-भूतं
यावद्-आत्म-भाविनं सर्वं कैङ्कर्य-वर्गम् अनुगृह्य
स-वयोभिर् इव स्थितैः नित्य-सूरिभिः सार्धम्
इदानीम् एवागतेनानेन च निर्विशेषं संश्लिष्य
ऐकान्तिकात्यन्तिक–नित्य-किङ्कर-भूतस्य अस्य आनन्देन
स्वयं निरतिशयानन्द-भाग् भवति ॥

अत्र वस्व्-आदि-पद-प्राप्ति-पूर्वक–
मोक्ष-साधनी-भूत–मधु-विद्यादि-निष्ठानां
सत्य-लोकाद् एव मोक्षम् अधिगच्छतां
चाधिकारि-विशेषाणाम् उपदिश्यमानाः मार्ग-क्रम-विशेषाः
तत्-तद्-अधिकारिणाम् एव ज्ञातव्या
इति नात्र विविच्य कथनम् अपेक्षितम् ॥

इत्थं स्व-तन्त्र–प्रपत्ति-निष्ठस्य अर्चिर्-आदि-गत्य्-अनुसन्धानादिकं
स-द्वारक-प्रपत्ति-निष्ठस्येव उपायाङ्गतया प्रत्यहम् अ-कर्तव्यम् अपि प्रपत्त्य्-उपायानुष्ठान-वेलायाम् अधिकार-सिद्ध्यर्थं
फलार्थितायां सत्यां
फल-पर्व-विशेषानुसन्धान-रूपतया तत्रान्तर्भवति

प्रपत्त्य्-अनन्तरं तु
पूर्व-प्रार्थित-पुरुषार्थ-स्मरण-रूपं सत्
निरतिशयं पुरुषार्थं प्राप्स्यामीति प्रीत्य्-अतिशयं परिपोषयच् च सत्
स्वयं-प्रयोजनं भवति ।

तस्माद् अत्र
समुदाय-ज्ञानाद् अपि
अपेक्षित-सिद्धिर् अस्तीति सिद्धम् ॥