२० निर्याणम्

अथ भगवच्-छरणाव् एव शरणं प्रपन्नाः
भगवता दत्तं हस्तम् अवलम्बमानाः
तेनैव स्वाभिमते देश-विशेषे पर्यवस्थापिताः
समभिषिक्त–सार्वभौम-महिषीवत् पारमैकान्त्य्-आनुगुणां वृत्तिम् आतिष्ठेरन्

एवं स्थितेष्व् अधिकारिषु
प्रारब्ध–दुष्-कृत–विशेष-वैचित्र्याधीनो ऽहङ्-कारः, मम-कारः, तद्-अधीनापचारः,
प्रयोजनान्तराभिलाषः, तत्-प्रयुक्तो देवतान्तर-स्पर्शः,
बुद्धि-दौर्बल्यम्, उपायान्तर-प्रत्याशा
चेत्य्-एवम्-आदि-वैपरीत्यवतां

प्रारब्ध-सुकृत-विशेषेण पूर्व-प्रपत्ति-सङ्कल्प-विशेषेण च
अच्छिद्रे कैङ्कर्ये प्रतिष्ठितवतां च

अस्मात् संसारात् निर्याणे
विलम्बो ऽविलम्बश् च सम्भवतः ॥

तत्र पूर्वेषां प्रपन्नानां चार्वाकादीनाम् इव अहङ्कार-ममकारौ न प्रसरतः
गच्छतः स्खलनम् इव
कदाचित् प्रसरन्ताव् अपि
उदीच्य-विवेकेन विलीयेताम्

तथा सम्भूताश् चापराधाः
प्रायश्चित्तावधिकाः शिक्षावधिकाः अनुभवावधिका वा
सङ्कल्पित-समयाद् अर्वाक्
निरस्ता भवेयुः

इत्थं प्रयोजनान्तर-रुचिर् अपि
मुमुक्षुत्वात् न प्रतितिष्ठेत्
उभय-भावनावताम् इव
केषाञ्चित् सम्भवन्त्याम् अपि तस्यां
हिततमः परमेश्वरः कानिचित् प्रयोजनान्तराणि दर्शयित्वा
तेषु अल्पास्थिरत्वादि-विवेकोत्पादन-मुखेन अ-रुचिम् उत्पाद्य
+++(मत्स्य-मैथुन-व्यामोहित-)+++सौभरि–कुचेलादीनाम् इव केषाञ्चित् भोगेन वा निर्वेदम् उत्पाद्य
सङ्कल्पित-समयानां तत्-समयात् पूर्वम् एव
प्रयोजनान्तर-वैमुख्यं जनयति
सङ्कल्पित-समय-रहितानां वैराग्यावधिकं तत् स्यात् ॥

देवतान्तर-स्पर्शस् तु यादृच्छिकेन परमैकान्ति-संसर्गेण लज्जावधिकः सन् निवर्तेत
कस्यचित् सोऽपि प्रतिष्ठितश् चेत्
पूर्वम् उपायो नैव निष्पन्नः ।
सम्भवेद् अपि पश्चान् नरकादिः ।
अनुष्ठितांशस् तु
अभिक्रम-नाश-विरहात्
यदा-कदाचिन् निष्पादयेद् एव उपायम् इति ॥

सम्पूर्णेन महा-विश्वासेनानुष्ठितोपायानां
बुद्धि-दौर्बल्यम् उपायान्तर-प्रत्याशा च नैवोद्भवतः
यद्य् उद्भवतः, मन्दस् तर्हि पूर्वः विश्वासः ।
तान् अपि सम्पूर्ण-महा-विश्वासान् सम्पूर्णोपायांश् च कारयत्य् एव भगवान् ।

एतादृशाहङ्कार-ममकारादि-वैपरीत्य-विधुराणाम् इतरेषां विलम्बादि-शङ्कापि नास्ति ।
किन्तु इच्छावधिको विलम्बः।
सङ्कल्पित-समयाविनाभूतश् च मोक्षः ॥

अथ निरुपाधिक-सर्व-शेषी निरुपाधिक-स्वतन्त्रः सत्य-सङ्कल्पः सर्वेश्वरो
ऽस्याधिकारिणः समस्त-भय-निदानं निग्रह-सङ्कल्पं
सद्वारक-प्रपत्ति-निष्ठानाम् उपासन-प्रारम्भ-दशायाम् इव
प्रपत्ति-वाक्योच्चारण-प्रथम-क्षण एव परित्यज्य,
एतम् एतदीयांश् च नित्य-सूरि-परिषद्य् अन्तर्भाव्य
एतदीयान् अपराधान् निरन्वयं विनाश्य
अनुबन्धिनाम् अपि सर्वान् अपराधान् अनुत्थापादिना परिहरयितुम् अनुगृह्णाति

अथास्यापेक्षित-मोक्ष-विलम्बे
स्वयं सानुतापस्, त्वरमाणश् च सन्
अस्य स्वानुबुभूषाम् उत्पाद्य, संवर्ध्य,
प्रारब्ध-शरीरावसाने परपदं प्रापयिषुः,
शरीर-पात-समये ऽस्य अनुकूल-प्रतिकूल-वर्गयोः सुकृत-दुष्कृते संविभज्य
मनुष्य-पितृ-देवानाम् अहनि रात्रौ वा
स्व-सङ्कल्पित-समये ऽप्रच्युत-पूर्व-संस्कार-मनोरथं विधाय
प्रशस्ताप्रशस्त-नियम-रहितं तत्-कालोपस्थितं
यत् किञ्चिच् छरीर-विश्लेष-निमित्तम् उत्पादयति

अथ वागादिकं बाह्येन्द्रिय-दशकं मनस्येकीकृत्य
तादृशं मनः प्राण-वायुना संयोज्य
तादृशं च वायुं जीवे संयुनक्ति
तं च जीवं त्रि-स्थूण+++(→ग्रीवापृष्ठस्थास्थित्रयमेलन)+++-क्षोभ-दशायां स्थूल-देहान् निर्मथ्य
समुद्धृतैः पञ्चभिः सूक्ष्म-भूतैः संयोज्य
अति-विह्वलम् एनं निसर्ग-सौहार्दो हार्दः उपलालयति
इत्थं विद्वद्–अ-विद्वत्-साधारणोऽयं स्थूल-शरीराद् उत्क्रान्ति-क्रमः

अथ चोराणाम् इवात्मापहारिणां
स्वर्ग-नरकादि-गमन-साधन-भूतानि मार्गान्तराणि पिधाय
अर्चिर्-आदि-मार्गस्य मुख-भूतायां शताधिकायां ब्रह्म-नाड्यां प्रवेश्य
सूर्य-किरणावलम्बिनम् एनम् अतिवाहयति

अत्र “नष्ट-स्मृतिर् अपी"त्यादि-प्रमाण-बलात्
प्रपन्नस्य अन्तिम-स्मृत्य्-आदिषु नैव निर्बन्ध इति प्रतीयते ।
प्रतीयते च शरीर-पात-समये
“केवलं मदीययैव दयया ऽतिप्रबुद्ध” इत्य्-आदिना
अन्तिम-स्मृति-सम्भवश् च ।
अनयोर् अविरोधाय
इत्थं केचिद् आचार्या समादधिरे -

अन्तिम-स्मृति-सम्भव-कथनं
स्मृतिम् अपि प्रपत्ति-फलत्वेन क्रोडी-कृत्य भर-न्यास-कर्तॄन्
विषयी-कुरुते ।
अ-सम्भव-कथनं तु
केवल-भर-न्यास-कर्तॄन्

इति ॥

तत्रासम्भव-पक्षे
प्राणि-मात्र-साधारणाया अन्तिमायाः स्मृतेः निर्विषयत्वासम्भवात्, भगवद्-व्यतिरिक्त-विषयकत्वे तद्-भाव-प्राप्त्या ऽनर्थपर्यवसानात्, केवल-भगवत्-सङ्कल्पायत्तान्तिम-स्मृति-सम्भव-पक्ष एव श्रेयस्तया स्वीकर्तव्यः ।
प्रमाणम् अपि इमम् अर्थम् एव बोधयति ।
अ-सम्भव-बोधक-प्रमाणानि तु
भक्तेर् इव स्व-यत्न-साध्यान्तिम-स्मृतेः उपायतया अनपेक्षितत्वं बोधयन्तीति
केचिद् आचार्या अनुसन्दधिरे ।

अथ अन्तिम-स्मृत्य्-अनन्तरम् एव
विद्वद्-अविद्वत्-साधारणो हार्द-परमात्मनि विश्रमः सुषुप्त्य्-अवस्था-तुल्यः
अथैतद्-अवस्थाया अनन्तरं
प्राज्ञ-प्रबोधितः प्रविष्टश् च
ब्रह्म-नाड्यां सकृद्-विभातं
यावत्-काल-तत्त्वम् अ-पुनस्-स्वापं जागर्तीति ॥