अथ यावज्-जीवम् एवं स्वयं-प्रयोजनतया निरपराधानुकूल-वृत्तिमतस्
त्वरावतश् च परमैकान्तिनः
अनुकूलम् अनुगुणम् आवास-स्थानं विमर्शनीयम् ।
तत्र आर्यावर्तादि-पुण्य-देशानां
युग-स्वभावेन इदानीं व्याकुलतया प्रतिष्ठित-चातुर्-वर्ण्य-धर्म एव प्रदेशः समुपादेयः ॥
तत्रापि भागवतोत्तरः,
ताम्र-पर्णी–कावेरी-कृत-माला–पयस्विन्य्-आदि-पुण्य-तीर्थोत्तरः,
भगवद्-भागवताभिमान-विषयी-भूतः श्रीरङ्ग–हस्ति-गिरि–वेङ्कट-गिरि–यदु-गिर्यादिः सत्त्वोत्तरो वा
क्षेत्र-विशेषः मुमुक्षुभिः परिग्राह्यः ।