एवं भगवच्-छेषतैक-स्वभावस्य शास्त्र-नियत-तत्-कैङ्कर्यैक-रसिकस्य +अधिकारिणः
अनापदि बुद्धि-पूर्वकापराधः
स्वी-कृत-कैङ्कर्यैक-निष्ठा-विरुद्धत्वात् प्रायशो न सम्भवति ।
प्रारब्ध-कर्म-विशेष-वशात्, देश-कालावस्थादि-वशात्, प्रमाद-वशात्, सुषुप्त्य्-आद्य्-अवस्था-वशाच् च
सम्भवन्न् अपि अश्लेष-विषयतया विनश्यति ॥
अथ मोक्षार्थ-प्रपत्त्य्-अनुष्ठान-वेलायां
बुद्धि-पूर्वक-पापारभक-पापानाम् अपि निवृत्तिम् अनन्तर्भावयतां
सर्पेणेव शरीरेण सह निवसताम्
आत्म-गुण-पूर्ति-विरहात्,
मन्द-धैर्याणाम् इव ऋषीणां +++(??)+++
बुद्धि-पूर्वके ऽपि क्वचिद्-विपरीतानुष्ठाने सति
निसर्ग-सुहृद्-रक्षणोन्मुखः श्रियःपतिः
लज्जानुतापादिभिः यथाधिकारं प्रायश्चित्तम् आसादयति ॥
एवं प्रारब्ध-कर्म-विशेष-वशात् कठिन-प्रकृतीनां
यथाधिकारं प्रायश्चित्तम् अ-कृतवतां
काणत्व-खञ्जत्वादि-लक्षणोपक्लेश-रूप–पाप-निवर्तकोपायान् पुरस्कृत्य,
क्षमाप्रेम-दया-वात्सल्यादिना मन्दी-भूत-प्रतापः भगवान्
लघुना दण्डेन संरक्षति ।
एवं-करणम् अपि
पूर्व-प्रपत्ति-फली-भूत–क्षमा-प्रकार-भेद इति भगवति कृतज्ञताम् एव परिपोषयेत् ॥
तस्मात्
संभवत्य् अपि बुद्धि-पूर्वकाघे
तत्-प्रायश्चित्ताकरणे ऽपि दण्ड-विशेषो नास्ति।
विलम्बासहिष्णूनां परम-फलस्य नास्ति विलम्बः ।
प्रारब्ध-सुकृत-विशेषाधीनैहिक-कैङ्कर्य-विच्छेदो नास्ति
+इत्यादि-पक्षाः शरण्य-गुणानां शरणागति-प्रभावस्य च वैभव-वादाः ।
अन्यथा प्रपन्न-पूर्वाचार्यानुष्ठानस्य, शास्त्रस्य च विरोधो दुष्परिहरः ।
किञ्च +++(तेन न्यायेन)+++ उपासकस्यापि +++(अप्रपन्नस्य)+++ बुद्धि-पूर्वोत्तराघे
विद्या-माहात्म्यात् न स्यात् प्रत्यवायः ।
तस्मात् प्रपन्नस्य राज-पुत्रापराधवत् लघुर् दण्डः ।
तादृशस्यापि दण्डस्य परिहाराय
पुनः-प्रपदनादिकं विधीयते ।
शिष्टतया व्यपदेश्यानां तु
लोक-सम्प्रदाय-प्रसिद्ध-निमित्तेषु
यथा-शक्ति प्रसिद्धम् एव प्रायश्चित्तं कर्तुम् उचितम् ॥
तत्र एवं सति यद्य् अयम् आगामि-बुद्धि-पूर्व-पापात् बिभेति
तदा तत्-कारणी-भूत-प्रारब्ध-पापांशस्यापि निवृत्तिम् उद्दिश्य
मोक्षार्थं प्रपदनम् अनुष्ठेयम् ।
अनन्तरं वा पृथग् एतद्-अर्थम् अनुष्ठेयम् ।
अत एव
सर्वेश्वर इव नित्य-सूरयो ऽपि
अवतार-दशायां कर्म-वश्यत्वम् अभिनीय
लोक-हिताय अपराध-परिहारादिकम् अन्वतिष्ठन् ॥
तत्रापि भागवतापचारः राज-दारापराधवत् -
भूयो भगवन्-निग्रह-सङ्कल्पावहः ।
तस्मात् स्वस्य, पराशर-व्यासादीनां च
भागवतत्व–परम-पुरुषार्थ-योग्यत्वादिना साम्ये ऽपि
तुलसी-चम्पकानाम् इव
गोमय–मृग-मदादीनाम् इव च
भगवत्-सङ्कल्प-विशेष-प्रयुक्त–तत्-तद्-उपाधि-स्वभाव-वशात्
सिद्धौ उत्कर्षापकर्षौ
असूया-प्रादुर्भाव-प्रकरणाम्नान-नयेन
न तिरस्कारार्हौ ॥
जाति-गुण-वृत्ताद्य्-उपाधि-वशात्
भागवत-विशेष-विषये शुश्रूषादि-प्रवृत्ति-विशेषस्य यथा-शास्त्रं नियमे सत्य् अपि
शेषित्व-प्रतिपत्तिः अन्यूना एव कर्तव्या ।
तावता ऽपि शेषत्वोचित-किञ्चित्-कार-रूप-कैङ्कर्यस्य सिद्धिः ।
एतादृश-भागवत-विषये
क्वचित् सम्भवत्य् अपि स्खलने
तदैव तस्य क्षमा प्रार्थनीया ।
अन्यथा स्वरूपोच्छित्तिर् एव स्याद् इति निष्कर्षः ।