१७ शास्त्रीयनियमनम्

अथेत्थं शेषत्व-सम्बन्ध-मूलस्य भगवद्-भागवत-कैङ्कर्यस्य +अनुष्ठानं
शास्त्र-सापेक्षानुरागात् आहोस्वित् तन्-निरपेक्षानुरागाद् वा

इति मीमांसायां प्रकृति-मण्डलान्तर्गतस्य अस्याधिकारिणः
प्रदीपवत् शास्त्रम् एव अपेक्षितम्,
अतो न यथारुचि कर्तुं युक्तम्,
किं तु शास्त्रोक्त-नियमानुसारेणैव युक्तम् अनुष्ठातुम् ।
शास्त्रेणैव विकल्पिते विषये यथारुचीति ज्ञेयम् ॥

इत्थं शास्त्रोक्त-नियमानुवर्तनम्
अ-पूर्णोपायानाम् अधिकारिणाम्
उपाय-पूर्ति-प्रतिरोधि-दुरित-शमन-मुखेन भगवत्-प्रसादं जनयति ।
पूर्णोपायानां तु अतिलङ्घन-हेतुकाप्रीत्य्-अनुदय-मुखेन भगवत्-प्रीतिं वर्धयति ॥

तत्र शास्त्र-विहितो धर्मः
आज्ञानुज्ञाभेदेन द्विविधः ।
तत्र आज्ञा-सिद्ध-धर्मानुष्ठानम्,
अननुष्ठान-निबन्धनं प्रत्यवायं प्रतिरुणद्धि ।
अनुज्ञा-सिद्ध-धर्मानुष्ठानं तादृश-प्रत्यवायानावहम् अपि
भगवत्-प्रीत्यर्थम् एव उपादित्सितं सत् क्रमस्य आज्ञा-सिद्धत्वात्
अ-ज्ञात-क्रम-दोष-परिहाराय स-क्रमम् एवोपादेयम् इति सिद्धम् ॥