१६ पुरुषार्थ-काष्ठा

भगवत्-कैङ्कर्यं हि अस्य पुरुषार्थः
स चेत् भागवत-कैङ्कर्य-पर्यन्तः स्यात्
सैव हि पुरुषार्थ-काष्ठा
तत्प्रकारस् त्व् इत्थम्-

सर्वेश्वरं प्रति शेष-भूतोऽसौ चेतनः
शेषि-विषये कञ्चनातिशयम् +++(न प्रतिकूलम्)+++ आदधीत
स चातिशयः वस्तु-शक्त्य्-अनुरोधेन प्रवर्तते -
शरीरत्वादि-मुखेन क्रियमाणस्य अतिशयस्य अचेतन-साधारण्यात्।+++(=??)+++

विशिष्य चैतन्य-मुखेनातिशये कर्तव्ये सति
तत्र शास्त्र-विरुद्ध-प्रवृत्तौ सत्यां
शासितुः दण्ड-धरस्येश्वरस्य लीला-रसोत्पादन-द्वारा अतिशयम् आधत्ते ।
शास्त्राविरुद्ध-प्रवृत्तौ सत्याम्
ईश्वरस्य सन्तोषम् उत्पाद्य
तदीयौदार्यादि-गुण-प्रकाशन-द्वारा अतिशयम् आधत्ते ।

एवं मुक्ता नित्याश्च
ईश्वराभिप्राय-साक्षात्कार-पुरस्सरं क्रियमाणेन कैङ्कर्येण
भोग-विशेषोत्पादन-मुखेन यथा ऽतिशयाधायकाः,
तथा असाव् अपि कृत-कृत्यः शास्त्र-मुखेन ईश्वराभिप्रायं विदित्वा
अतिशयाधायको भवति ।+++(5)+++

तत्र शास्त्र-विरुद्धाचरणेन लीला-रसोत्पादनं
स्वस्य अन्-अर्थ-पर्यवसायि भवति ।
बद्ध-दशायां शास्त्रेण, मुक्ति-दशायां प्रत्यक्षेण
भगवद्-अभिप्रायानुगुणाचरणेन
भगवतो लीला-भोग-रूप–पुरुषार्थ-जननम्
आनुषङ्गिक-स्वाभिमत-पुरुषार्थ-पर्यवसायि भवति ।

तत्र च ईश्वराभिप्राय-विमर्शे
राज्ञो राजकुमारोपलालनवत्
भगवतो भागवत-कैङ्कर्यम् अत्यन्तम् अभिमतत्वात् प्रधानं सत्
भगवन्तं स्वान्तर्यामि-कैङ्कर्यम् इव च प्रीणयति ।
एवं न केवलम् अभिमतत्वाद् एव -
अपि तु शेषत्वस्य स-द्वारकत्वाद् अपि
कैङ्कर्यं सद्वारकं स्यात् -
भागवत-सहितस्यापि भगवतः शेषित्वात् ।

किञ्च- यथा स्वच्छन्द-लीलः स्व-तन्त्रो राजा
स्वोपभुक्तं माल्याभरणादिकं गज-तुरगादि-कण्ठे अर्पयति
तथा अत्यन्त-परतन्त्रम् एनं भगवान्
यथेष्टं विनियोक्तुम् अर्हति
ततश् च भगवच्-छेषत्वं
भागवत-शेषत्व-पर्यन्तं स्यात् ।+++(4)+++
तस्मात् यथाशक्ति भगवत्-कैङ्कर्याकार-विवृद्धि-रूपं
भागवत-कैङ्कर्यम् अनुष्ठेयम्

तत्र भागवतानां परस्-परेण कृतम् अतिशयम् अनुपजीव्य
परस्-परस्य अतिशयम् आदधताम् अतिशयाधायकत्व-वेषेण शेषत्वम्
अतिशयाश्रयत्ववेषेण शेषित्वं च
परस्-परोपकार्योपकारकवत् सम्भवतीति न विरुध्यते ।
तत्रेश्वरः स्व-तन्त्रेच्छया सर्वेषां भागवतानां शेषित्वं
तत्-तद्-भागवतेच्छा-सहकृतेच्छया शेषत्वं चोत्पादयति ।
ततश् च परस्-परं भागवतानां
स्व-रूप–सत्ता-लाभः, पुरुषार्थ-काष्ठा-लाभश् च सम्पन्नो भवति ।
ईश्वरस्य त्व् ईश्वरत्व-लाभः भोक्तृत्व-लाभश्च सिद्धो भवति ॥

एवं निश्चितार्थैः सार-विद्भिः कृत-कृत्यैः
अपराध-रुच्य्–अतिशङ्का–देवतान्तर-स्पर्श–स्वाधीन-भोग–स्वार्थ-भोग–प्रभृति-दोष-विधुराणां
परमैकान्तिनाम् एव प्रसादः
सर्वदा स्वयं प्रयोजनतया अपेक्षणीय इत्य् अनवद्यम् ॥