१५ उत्तरकृत्याधिकारः

एवं कृत-कृत्याः स्व-निष्ठाभिज्ञानवन्तः अधिकारिणः
स्वादुतमत्वात् स्वयं-प्रयोजनं,
शास्त्र-विभक्त-काल-विशेष-नियतं,
शृङ्खलावद् अन्योन्यम् अनुबद्धं,
स्वामि-सन्तोषस्य कारणं कार्यं च
स्वरूपानुरूप–काल-क्षेपार्थम् उत्तर-कृत्यम् अनुतिष्ठेयुः

तन्-निष्ठानुगुणं च ज्ञातव्यांशेषु
अज्ञातम् अंशं निष्कृष्य +++(=निष्कर्षं लब्ध्वा)+++,

कृत-कृत्या इत्य् अनादृत्य,
ज्ञान-भक्त्य्-आद्य्-अपेक्षायां बाधकाभावात्
परम-शेषिणि चित्त-रञ्जनार्थं विशेष-ज्ञ-सकाशात् विज्ञाय,

स्व-स्व-वर्णाश्रम-जाति-गुणाद्य्-अनुगुणं कर्तव्यांशं निष्कृष्य, अनुष्ठाय च,
एतद्-अनुष्ठान-भावनया स्वोत्कर्षं पर-निकर्षं च कदापि नानुसन्दधीरन् +++(आकिञ्चन्य–भगवत्-प्रसादाद्य्-अनुसन्धानेन)+++ ॥

अथ कदाचित् शरण्य-प्रसाद-विशेष-मूलेषु फलोद्गम-पर्वसु प्राप्तेष्व् अपि स्वाधिकार-प्रविष्टम् आकिञ्चन्यम्, अनिवार्यं कार्पण्यंपुरस्-कृत्य,
अनादेः कालात् प्रवृत्ताम् अनर्हतां,
महतीं च कैङ्कर्य-विनष्टिम् अनुचिन्त्य, अनवाप्यावसादं,

पथ्यतमेन हिततमेन च शरण्योपदेश-विशेषेण
अवतार-रहस्यादि-रूपं तीर्थम् अवगाह्य, आश्वास्यात्मानम्
अ-पर्यनुयोज्य+++(=वादे निग्रहस्य चोद्यता)++++अन्-अवधिक-शरण्य-प्रभावेन
इदानीं प्राप्तां योग्यतां,
तद्-अनुगुणाम् आज्ञानुज्ञानुवर्तनरूप–कैङ्कर्यानुभूतिं च +अवलम्ब्य
सात्त्विकाहार-सेवनादिना काय-करणादि-शुद्धिं सम्पाद्य
अयोग्येषु विषयान्तरेषु प्रसरन्तीम् अनादि-वासनां प्रत्यावर्तयेयुः

तत्राप्य् अभिमत-देशान्तर-गमनाय नदीं तितीर्षवः
पर-तीर-गतां नावं प्रतीक्षमाणाः
तद्-अन्तरान्वेच्छया सु-परिहारे विहार-द्यूते प्रवर्तमानाः
दुष्परिहरे पण-बन्धे अन्-अनुप्रविष्टा अपि
द्यूत-शास्त्र-नियमम् अनुसृत्यैव यथा दीव्यन्ति राजकुमाराः,
यथा वा अ-यत्न-सिद्धौषध-विशेष-परिहृत-पित्ताः भाग्य-शालिनः
केवलं भोगायैव क्षीरं सेवन्ते +++(पित्त-भयं विना)+++,
तथा सर्व-प्रशासितुः भगवतः आज्ञानुज्ञानुरूप-शासनानुगुणं काल-विशेषादि-नियतं कैङ्कर्यं
केवलं भोग्य-बुद्ध्यैव अनुतिष्ठेयुः ॥+++(5)+++

एवं देवर्षि-सिद्ध-मनुष्यादि-रूप–तत्-तद्-अधिकारि-विशेष-च्छन्दानुरोधेन,
परमैकान्तिनः स्वस्य च छन्दानुरोधेन
समवतीर्णे अर्चावतारे,
भगवति सर्वातिशायि-षाड्गुण्य-संपूर्तिं,
निरतिशयं पावनतमत्वं,
प्रत्यक्षादि-प्रमाण-त्रितये हेतु-फल-भावेन सम्भावितानां
कु-वासना–कु-बुद्धि–कु-तर्क–कु-हित–कु-भाव–नास्तिकत्वादि-रूप-दोषाणां सद्यो-विनिवर्तकत्वं,
वाङ्-मनसा ऽपरिच्छेद्यम् आश्रित-पारतन्त्र्यं,
मनो-हरत्वं चानुसन्धाय
तत्-तत्-सम्बन्ध-वर्ग–परत्व-सौलभ्याद्य्-अनुगुणां वृत्तिम् अङ्गीकुर्वीरन्

इत्थं भगवद्-उपक्रमायाः भागवत-पर्यन्तायाः कैङ्कर्याख्य-पुरुषार्थ-सिद्धेः
प्रधान-कारणं सदाचार्य-कटाक्ष एवेत्य् अवधार्य
श्वोऽभिषेक्ष्यमाण–राज-कुमारस्य सन्निधौ रात्राव् आरोपितं प्रदीपम् इव
तत्-कटाक्ष-लब्धं तत्त्व-ज्ञानं, तन्-मूलकं कैङ्कर्यं च अनुसन्धाय,

एवम् आचार्य-सम्बन्धोपक्रमस्य मुक्ति-पर्यन्तस्य अर्थस्य,
मुक्ताव् अपि यावद्-आत्म-भाविनो भगवद्-अनुभवस्यापि प्रधान-कारणम्
अ-पर्यनुयोज्य-स्वातन्त्र्य-मूलं सर्व-संशय-विनिवर्तकं
सत्य-सङ्कल्पस्य श्रीपतेः सहजं कारुण्यम् इति चानुसन्धाय
कृतज्ञा आसीरन्

अथैनम्
उत्तर-कृत्ये मनो-वाक्-काय-रूप-करण-त्रितयेन त्याज्येषु उपादेयेषु च सारतमार्थांस् तु … ??

परम-पुरुषार्थ-रुच्य्-अ-सङ्कोचाय विस्मर्तव्येषु प्रधानो विषयास्वादः
कृतघ्नता-विनिवृत्तये स्मर्तव्येषु प्रधानः आचार्य-कृतः प्रथम-कटाक्ष-प्रभृतिर् उपकारः
कार्पण्याविलोपाय अ-वक्तव्येषु प्रधानः स्वात्मोत्कर्षः
उपाय-निष्ठा ऽविस्मरणाय वक्तव्येषु प्रधानः द्वयमन्त्रः
स्वामिनो भगवतो ऽप्रीत्य्-अनुदयाय कर्तव्येषु प्रधानः
भगवत्-कैङ्कर्योत्तरावधिभूतः शास्त्रानुमतः आचार्यादि-भागवत-कैङ्कर्य-विशेषः ॥