१४ स्वनिष्ठाभिज्ञानाधिकारः

एवम् एतादृश-नैर्भर्य-प्रयोजकतया
कृत-कृत्यताम् अवधारयितुं
स्व-रूप-+उपाय–पुरुषार्थ-विषयक–निश्चय-लक्षणायाः
स्व-निष्ठाया अभिज्ञानम् आवश्यकम् ।

स्व-रूप-निष्ठा

तत्र स्व-रूप–निष्ठायाम् अभिज्ञापकानि लिङ्गानीमानि -
पर-कृत-परिभव-वेलायां परिभावकोदाहृत-दोषाणां देहानुबन्धित्व-ज्ञानेन स्व-रूपाननुबन्धित्व-ज्ञानेन च विषाद-राहित्यं,
तेषु च परिभावकेषु वृथा पतिष्यन्तीति अपार-कारुण्यं,
स्व-गत-दोष-स्मारकतया उपकार-स्मरणं,
स्व-स्व-कर्मानुगुण-फल-प्रदान+++(-तत्-क्षय-)+++-लक्षण–दया-रसवता भगवता प्रेर्यमाणाः परिभवन्तीति
तेषु निर्विकार-चित्तत्वं,
प्रारब्धं च कर्म स-मूलं विनश्यतीत्य् अतिसन्तोषश् च ।

तद् एतेषु चिह्नेषु परिदृश्यमानेषु
अचिद्-विलक्षणे सर्व-भूतानुकूल्याद्य्-अर्ह-ज्ञान-शालिनि
सर्वतो-मुखाकिञ्चन्यवति
स्वतः सर्व-समस्य कर्मानुगुण-फल-प्रदस्य स्व-तन्त्रस्य शेषिणः शेष-भूते
पर-तन्त्रे, परायत्त-हिते, स्व–स्व-रूपे निष्ठास्तीति विजानीयात्

उपाय-निष्ठा

अथ उपाय-निष्ठायाम् अभिज्ञापकानि चिह्नानि-
भगवद्-व्यतिरिक्ते स्वस्मिन् परस्मिन् वा
स्व-रक्षण-सामर्थ्य-राहित्य-बुद्धिः,
मरण-पर्यन्तेषु भय-हेतुषु सत्स्व् अपि
अभिमतासक्ति-विशेषेण प्रीतिः,
रक्षकावष्टम्भेन महती धृतिः,
भर-न्यास-विषये स्व-यत्न-निवृत्तिः,
अनिष्टनिवृत्तीष्टप्राप्तिषु तादधीन्य-मतिश् च ।

सत्सु चैतेषु चिह्नेषूपायेप्य् अस्ति निष्ठेति विजानीयात् ॥

पुरुषार्थ-निष्ठा

अथ पुरुषार्थ-निष्ठायाम् इमान्य् अभिज्ञान-लिङ्गानि -

प्रारब्ध-कर्म-विशेषानुरूप–भगवत्-सङ्कल्पायत्तत्व-बुद्ध्या
देह-यात्रायां नैश्चिन्त्यं,

शास्त्राविरुद्धस्य अ-प्रयत्नागतस्य विषयस्य
प्रारब्ध-कर्म-फल-रूप–ऋणापकरण-बुद्ध्या स्वीकरणं,

प्राप्तयोर् अपि सुख-दुःखयोः हर्ष-शोक-परित्यागः,

स्वरूपानुरूप–परम-प्राप्य–कैङ्कर्याभिरुचिः
तादृश-कैङ्कर्य-प्राप्तौ त्वरा चेति ।

सत्स्व् एतेषु चिह्नेषु
अ-परिच्छेद्य-परम-पुरुषार्थे ऽपि अस्ति निष्ठेति जानीयात् ॥

एवं स्वस्मिन् निष्ठा-त्रय-सम्पत्तिं विजानतो ऽस्याधिकारिणः
ब्रह्म-विद्-अपचार-व्यतिरिक्तेषु भीति-हेतुषु,
स्व-रूप–प्राप्त-कैङ्कर्य-व्यतिरिक्तेषु प्रीति-हेतुषु
न प्रसरेयुः कटाक्षाः ।

यद्-ऋच्छया सत्याम् अपि प्रसृतौ
भीतिः प्रीतिर् वा नैवोत्पद्येत ॥