इत्थं प्रपत्ति-रूपोपाय-विशेष-निष्ठः पुरुषः
प्रपत्तेर् अनन्तरं फलं प्रति कर्तव्यांश-विरहात्
कर्तव्यांशस्य सकृद्-अनुष्ठानेनैव सिद्धत्वात्
स्व-तन्त्रे सत्य-सङ्कल्पे भगवति न्यस्त-भरम् आत्मानम् अवधार्य निर्भरः,
विश्वसनीयं, समर्थं, सिद्धोपायत्वेन स्वीकृतं सर्वेश्वरं फल-प्रदम् अनुसन्धाय निस्संशयः,
स-वासनं परित्यक्तान् अन्य-पुरुषार्थान्,
स-साधनं परित्यक्तान् अन्योपायान्,
अ-किञ्चनस्य अ-यत्नेन निधि-सिद्धिवत् सम्पत्स्यमानां परम-पुरुषार्थ-सिद्धिं
चावलोक्य सन्तुष्टः
स्व-सजातीयाग्नीन्द्रादि-देवतान्तर-परिचरण-कारणी-भूतस्य ऋणस्य अपाकृतत्वात्
नित्य-नैमित्तिकेषु कर्मसु
मन्त्र-गतानाम् अग्नीन्द्रादि-शब्दानाम् अवयव-शक्ति-पौष्कल्येन नारायण-पर-तत्त्वम् अवधार्य
शास्त्र-वेद्याज्ञानुज्ञा-परिपालन-रूप-कैङ्कर्य-मुखेन प्रत्यक्ष-विदित-परम-पुरुषाभिप्रायो
मुक्त इव भगवतः किञ्चित्-करः सन्
उपाय-पूर्त्या कृत-कृत्य इति
पुरुषार्थ-पूर्त्या कृतार्थ इति च
शास्त्रैः शास्त्र-ज्ञैश् च प्रशंसनीयो भवति ॥
शोकः
एतादृक्षस्य मुमुक्षोः
प्रपत्तेः प्राग् उद्यतः शोकस्य अधिकारि-कोटि-प्रविष्टत्वात्
तादृश-शोकाभावे अधिकारापूर्त्या नोपाय-पूर्तिः ।
प्रपत्तेश् चानन्तरम्
अनुष्ठितोपायम् आत्मानम् अवधार्यापि
विश्वास-मान्द्यादिना शोकश् चेद् अप्य् उपाय-पूर्तिः ।
ततो न कृत-कृत्यता ।
तस्माद् वीत-शोक एव कृत-कृत्य इति विनिश्चयः ।