अथ अस्मिन् शास्त्रार्थे
यथावस्थितात्म-निक्षेपः अङ्गी ॥
स च +++(यथावस्थितात्म-निक्षेपः)+++
आत्मात्मीय-रक्षण-व्यापारे स्वाधीनतया
आत्मात्मीय-रक्षण-फले स्वार्थतया च
स्वस्यान्वयं विनैव
रक्षा-भर-न्यासोद्देशकः,
सर्व-रक्षकं सर्व-शेषिणं सर्वेश्वरं प्रति अत्यन्त-पारतन्त्र्य-विशिष्ट–शेषत्वानुसन्धान-लक्षणः ।
अस्य अनुसन्धान-विशेषस्य विशिष्टाकारस् तु
शेषिणः स्व-तन्त्रस्य सर्वेश्वरस्य
स्व-प्रयोजनाय, स्वयम् एव संरक्षण औपयिकः,
अनन्यार्हानन्याधीन-शेष-भूतो ऽहं न मम शेषत्वायार्हः,
“यत् किञ्चिद् वस्तु-पशु-पुत्रादिकं निरुपाधिकतया मदीयम्”
इत्यप्य् अभिमन्तुम् अप्य् अनर्हम्
आत्मानम् आत्मीयं च सर्वं भवत एव शेष-भूतं,
अस्य रक्षण-भरः सर्व-रक्षकाय भवत एव ,
रक्षण-फलम् अपि प्रधान-फलिने भवत एव
इति भावना ।
इत्थम् +++(पूर्वाधिकरणोक्त-)+++अङ्ग-पञ्चक-विशिष्टस्य अस्य अङ्गिनः
विचार-दशायां प्रत्येकम् अनुसन्धान-सम्भवेऽपि
विशिष्ट-वाक्यार्थ-प्रतिपत्ति-दशायां साङ्गस्य प्रधानस्य एक-बुद्ध्य्-आरूढत्वात्
सकृत्-कर्तव्यत्वं सिद्ध्यति ।
एवम् अभ्यास-पाटव-शालिनो धानुष्कस्य लक्ष्य-वेधार्थम्
अनेक-व्यापार-साध्यस्य बाण-मोक्षस्येव
क्षण-कृत्यत्वं च सिद्ध्यति ।
साङ्ग-प्रधानानुष्ठान-क्रमस् तु -
कर्तृत्व-त्याग–ममता-त्याग–फल-त्याग–फलोपायता-त्याग-पूर्वकम् आनुकूल्य-सङ्कल्पाद्य्-अर्थानुसन्धानेन सह
गुरु-परम्परोपसत्ति-पूर्वकं
द्वय-वचन-मुखेन स्व-रूप–फल–न्यास-गर्भम्
आत्म-रक्षा-भर-समर्पणम् इति ।
अत्र आनुकूल्य-सङ्कल्पस्येव प्रातिकूल्य-वर्जन–महा-विश्वासयोर् अपि सङ्कल्प-रूपत्वात्
उपाय-परिकरतया सकृत्त्वेऽपि,
अनन्तरम् उपाय-फलतया यावद्-आत्म-भावित्वात्
यावज्-जीवं निरपराध-कैङ्कर्यं,
प्रारब्ध-शरीरावसाने मोक्षं च
फलतया समुच्चित्य
प्रपत्ति-कर्तारो निपुणा इति हृदयम् ।
इति श्रीमद्रहस्यत्रयसारसङ्ग्रहे प्रथमः परिच्छेदः
श्रीमते निगमान्तमहादेशिकाय नमः ।