आत्म-निक्षेप-रूपायाम् अस्यां विद्यायाम्
आनुकूल्य-सङ्कल्पः, प्रातिकूल्य-वर्जनम्, कार्पण्यम्, महाविस्श्वासः, गोप्तृत्व-वरणं चेति पञ्च परिकराः ।
परिकराः
आनुकूल्य-सङ्कल्पो नाम
स्वाम्य्-अभिमत-करणानुकूल–पारार्थ्य-ज्ञान-जन्यः
“विहिते प्रवृत्त्या भगवदानुकूल्यं करिष्ये” इति सङ्कल्पः ।
प्रातिकूल्य-वर्जनं
स्वाम्य्-अभिमत-करणानुकूल–पारार्थ्य-ज्ञान-जन्यः
“निषिद्ध-निवृत्त्या भगवत्-प्रातिकूल्यं न करिष्ये” इति सङ्कल्पः ।
अनयोश् च प्रयोजनम् अपाय-परिहारः ।
कार्पण्यम् -
उपायान्तरासामर्थ्य–प्रयोजनान्तर-वैमुख्य–शरण्यान्तर-वैमुख्यानुसन्धानम् ।
तच् च शरण्य-कारुण्योत्तम्भनार्थम्, उपायान्तर-स्पर्श-राहित्यार्थं चोपयुज्यते ।
महा-विश्वासः -
“अनुकूलान् अस्मान् भगवान् रक्षिष्यती"ति सुदृढो ऽध्यवसायः ।
स च वक्ष्यमाण-शङ्का-पञ्चकम् अपनुद्य
प्रपत्तेः अवश्य-कर्तव्यतायां
भर-न्यसनानन्तरं लेश-मात्रेऽपि
स्व-रक्षण-व्यापारे स्वस्यानन्वितत्व-रूपे निर्भरत्वे च प्रयोजकः ।
गोप्तृत्व-वरणं तु स्वाभिप्राय-निवेदनं,
तच् च भगवतः फल-प्रदानेच्छोत्पादने समुपयुज्यते ।
एवम् एतानि प्रपत्त्य्-अनुष्ठान-दशायाम् उपयुक्तत्वात्
प्रपत्त्य्-अविनाभूत-स्वभावानि ।
शङ्का-पञ्चकम्
शङ्का-पञ्चकं तु -
सार्वज्ञ्य-सर्व-शक्ति-युक्तो भगवान्
कथं कर्म-योगादीनाम् अप्य् अनर्हता-सम्पादकैर्
अनन्तैर् अपराधैर् अपराध्यतो ममाभिगन्तव्यः स्यात् ॥१ ॥
तत्-तत्-कर्मानुगुण-फल-प्रदः
कथं विधि-शिव-सनकादीनाम् अपि दुर्लभम्, अपरिच्छेद्यं फलं
मह्यं प्रयच्छेत् ॥ २ ॥
सर्वोपकार-निरपेक्षः
काय-क्लेशार्थव्यय–काल-दैर्घ्यादिकं विना
सकृद्-अनुसन्धान-रूपेण
समुदाय-ज्ञान-पूर्वक–सकृद्-उच्चारण-रूपेण वा व्यापारेण
कथं प्रसाद्येत् ॥ ३ ॥
क्षुद्र-देवतावत् क्षिप्र-फल-प्रदान–स्व-भाव–रहितः
कथं विना विलम्बं दद्यात् ॥ ४ ॥
समाधिक-दरिद्रः सर्वेश्वरः
कथं वा तारतम्यम् अविचार्य
जन्म-वृत्तादिना अतिनीचाय
मह्यम् अपरिमितं प्रयच्छेद् ॥ ५ ॥
इति ॥
शङ्का-निवर्तकानि
अस्य च शङ्कापञ्चकस्य यथाक्रमं निवर्तकानि
पुरुष-कार–सम्बन्ध–गुण–व्यापार–प्रयोजनानि।
तत्र पुरुष-कारो नाम
अभिमत-दान-समर्थं पुरुषं प्रत्य् अभिगम्यतायै
सहायतया स्वीकृतं चेतनान्तरम् ।
अस्य च विशेषः अ-प्रत्याख्येयत्वम् ।
एतादृशा अ-प्रत्याख्येय-पुरुष-कार-विशेषेण
सर्व-ज्ञोऽपि सर्व-शक्तिर् अपि
अन्तः-पुर–परिजनानाम् इव
अनन्तापराध-क्षमा-पूर्वकम् अभिगम्यो भगवान् भवति ।
सम्बन्धो नाम
स्वामित्व-दासत्व-भावः ।
अस्य च विशेषः सर्व-प्रयत्नेनापि अनिरसनीयत्वम् ।
अनेन अ-निरसनीयेन सम्बन्ध-विशेषेण
कर्मानुरूप-फल-प्रदोऽपि
प्रपत्ति-रूप-व्याजेन प्रसन्नः,
स्वतः प्राप्तम् अपरिच्छेद्यं फलं प्रयच्छति ।
गुणः वात्सल्य-सौशील्यादिः ।
तस्य विशेषः निरुपाधिकत्वम् ।
अनेन निरुपाधिक-वात्सल्यादिना
अवाप्त-सर्व-कामोऽपि सर्वोपकार-निरपेक्षो ऽपि
अनेन कृतं यं कञ्चिद् उपकारं
परमोपकारितया शिरसा प्रतिगृह्य
कृतज्ञः सन् समुपकुरुते ।
व्यापारः सङ्कल्पः ।
अस्य विशेषः सहकार्य्-अन्तरापेक्षा-राहित्यम् ।
अनेन निरपेक्ष-सङ्कल्पेन
यजन-भजनादीनां विलम्ब्य फलप्रदोऽपि
अनन्य-शरण-प्रपदनस्य
अपेक्षित-समये फल-प्रदो भवति ।
प्रयोजनं तु फलम् ।
तस्य विशेषः आश्रित-प्रयोजन-+एक-प्रयोजनत्वम् ।
समाधिक-दरिद्रोऽपि
निरङ्कुश–स्व-तन्त्रत्वात्
आश्रित-प्रयोजनैक-प्रयोजनत्वात्
अविचार्यैव तारतम्यम्
अपरिच्छेद्यम् अपि फलं प्रयच्छत्य् एव ।
एवं विशिष्टं पुरुष-कारादि-पञ्चकं
सदाचार्य-कटाक्ष-विक्षेपात्
सम्यग् विदुषाम् एव एतादृश-महाविश्वासोदयः ।
तद् एतत् सर्वम् अनुष्ठान-वेलायां +++(प्रपत्ति-)+++करण-मन्त्रे ऽनुसन्धेयम् ।