अथास्यां न्यास-विद्यायाम्
अधिकार-विशेषः परिकर-विशेषो ऽङ्गि-स्वरूप-विशेषश् चावगन्तव्यः ।
तत्र सामान्येन अधिकारो नाम
तत्-तत्-फल-कामना-सहितं तत्-तद्-उपाय-सामर्थ्यम् ।
सामर्थ्यं च
ज्ञानम्, यथा-ज्ञानम् अनुष्ठानार्हत्वम्, शास्त्रानुमत-जाति-गुणादि-योगित्वं च । निरुक्ताधिकार-विशिष्टस्य साध्यतया
ऽनूद्यमानं प्रयोजनं फलम् ।
एतादृश-फल-साधनतया विधीयमान उपायः ।
अत्र स्वतन्त्र-प्रपत्ति-निष्ठस्य
भक्ति-योग-निष्ठापेक्षया मुमुक्षुत्व–शास्त्र-जन्य-सम्बन्ध-ज्ञानादौ तौल्ये सत्य् अपि
आकिञ्चन्यम् अनन्य-गतिकत्वं च विशिष्टाधिकारः ।
तत्र आकिञ्चन्यम् उपायान्तर-सामर्थ्याभावः ।
अनन्य-गतिकत्वं प्रयोजनान्तर-वैमुख्यं, शरण्यान्तर-वैमुख्यम् अपि ।
तीव्रतम-मुमुक्षा-विरहात् देहानुवृत्त्य्-आदि-प्रयोजनान्तर-सक्तस्य तु
प्रपत्त्यनुष्ठाने सति
प्रयोजनान्तर-सङ्गानुगुणो मोक्षविलम्बो भवति ।+++(5)+++
निरुक्ताकिञ्चन्यानन्यगतिकत्वयोर् निबन्धनम्+++(=कारणम्)+++
उपायान्तरेषु अज्ञानम्, अशक्तिः, फल-विलम्बासहिष्णुता च ।
शरण्यान्तर-वैमुख्य-निबन्धनम्
भगवद्-एक-पारतन्त्र्याध्यवसायः, प्रयोजनान्तर-वैमुख्यं च ।
एतादृशाधिकार-सम्पत्तौ सत्त्यां
प्रपत्तेर् जात्यादि-नियम-विरहात्
सर्वाधिकारता सिद्धा भवति ।