०९ उपायविभागः

ज्ञान-विकासः

अथ इत्थम् उभय-विधयोर् अधिकारिणोर् अनुष्ठेय उपायः
ज्ञान-विकास-विशेषः ।
अनेन चोपायेन साध्यः प्राप्तिरूप उपेयो ऽपि ज्ञान-विकास-विशेषः ।

तत्र प्रथमः
करण-सापेक्षः अज-शास्त्र-विहितः
सत्यत्वादि+++(=सत्यत्वम्, ज्ञानत्वम्, अनन्तत्वम्, आनन्दत्वम्, अमलत्वम्)+++-रूप-निरूपक-+++(ब्रह्म-साधारण-)+++धर्म-सहित-
तत्-तद्-+++(→दहर-प्रपत्त्यादि-३२-मोक्ष-विद्यासु)+++विद्या-विशेष-प्रतिनियत-
गुण-विशिष्ट-वेषेण पर-ब्रह्म-विषयकः ।

द्वितीयस् तु
करण-निरपेक्षः स्वरूप-प्राप्तः गुण-विभूत्य्-आदिभिः
परिपूर्ण-ब्रह्म-विषयकः ।

तस्य चैतन्यानुभवस्य परीवाह+++(=तटाकाधिक-जल-प्रवाह)+++-रूपतया
कैङ्कर्य-विशेषो ऽप्य् उपेयः ।

ब्रह्म

निरुक्तोपायोपेय-भूत–ज्ञान-विकास-विशेषस्य विषयी-भूतं परं ब्रह्मापि
फल-प्रदत्व–भोग्यत्व-रूपाभ्याम्
उपाय उपेयं च भवति ।

तत्राद्वारक-प्रपत्ति-निष्ठ-विषये
उपायान्तर-व्यवधानापेक्षा-विरह-सह-कृत-
फल-प्रदत्व-रूपेण
+उपायान्तर-स्थान-निवेशेन विशिष्टत्वाद्
ईश्वरस्य उपायत्वम्

स-द्वारक-प्रपत्ति-निष्ठ-विषये तु
कर्म-योगारम्भम् आरभ्य +उपासना-पूर्ति-पर्यन्तं
मध्ये ऽनुष्ठेयैर् दुष्करैर् उपायैः साध्यायाः
पाप-निवृत्तेः सत्त्व-विवृद्धेश् च
प्रपत्ति-वशी-कृतस्य भगवत उपायान्तर-स्थान-निवेशेन सञ्जननात्,
प्रकृतोपासनायाः संपूरणाच् च
उपायत्वं ध्येयम् ।

कर्म-ज्ञान-योगौ

तत्र कर्म-योगो नाम
शास्त्र-जन्य-जीव-परमात्म-याथार्थ्य-ज्ञान-पूर्वकं
स्व-शक्यैः फल-सङ्गादि-रहित-काम्य-कर्मभिर् नित्य-नैमित्तिक-कर्मभिश् च
+अङ्गीभूतैः साकं
यावत्-फलोदयम् अनुष्ठेयतया, अङ्गितया च परिगृहीतः
देवार्चन-तपस्-तीर्थ-दान-यज्ञाद्य्-अन्यतमः कर्म-विशेषः ।

अयम् एव हि कर्म-योगः
अधिकारि-भेदेन ज्ञान-योगं द्वारी-कृत्य, अद्वारीकृत्य वा,
यम-नियमादि-परिकर-सहितेन +आत्म-साक्षात्कारानुगुण-चित्त-समाधान-रूपेण योगाभ्यासेन,
आत्मसाक्षात्कार-साधनं भवति,
यथा प्रपत्तिर् भक्तिं द्वारीकृत्य +अद्वारीकृत्य वा मोक्ष-साधनं भवति ।

ज्ञान-योगो नाम
कर्म-योग-विजितान्तःकरणेन क्रियमाणं
स्व–स्व-रूपस्य नित्यत्व-ज्ञानत्व+आनन्दत्व+अमलत्वाद्य्-आकारेण निरन्तरं चिन्तनम् ।

भक्ति-योग-क्रमः

अथैताभ्यां कर्म-योग–ज्ञान-योगाभ्यां
योग-द्वारा आत्म-साक्षात्कारे निष्पन्ने
वैषयिक-निखिल-सुख-वैतृष्ण्यावहे स्वात्मानुभवे
पर्यवसानम् अनासादयतां +++(अनुवर्तमानानाम्)+++
भक्ति-योग-प्रवेश-दशायाम्
सम्पुटित-महा-रत्न-दर्शने सम्पुट-दर्शनम् इव +अन्तर्यामि-दर्शने
+++(भगवत्-)+++शरीर-भूत-जीवात्म-दर्शनम् उपयुक्तं सत्
भक्ति-योगाधिकार-कोटौ निविशते ।+++(5)+++

भक्ति-योगो नाम
अनन्य-निष्ठस्य, अनन्याधीनस्य, अनन्य-शेषस्य भगवतः
स्वरूप-रूप-गुण-विभूत्य्-आदि-विषयको निरतिशय-प्रीति-रूपो ध्यान-विशेषः
स एव च
तैल-धारावन् निरन्तर-स्मृति-रूप
आ-प्रयाणम् अहर्-अहर्-अभ्यासाधेयातिशयः
अन्तिम-प्रत्ययावधिकः
ज्ञान-विकास-हेतु-भूत–
सत्त्व-विवृद्धि-प्रति-बन्ध–
रजस्-तमो-निवर्तक-
वर्णाश्रम-धर्मेतिकर्तव्यताकः
साक्षात्-कार-सदृश-वैशद्य-विशिष्टः ।+++(5)+++

सोयं मोक्षोपायतया विहितो भक्ति-योगः
पर-भक्तिर् इत्युच्यते ।
अस्य हेतुभूतः सात्त्विक-परिशीलनादि-जन्यो भगवद्-विषयक-प्रीति-विशेषः
शास्त्र-जन्य-भगवद्-विषयक–विशद-ज्ञानाभिनिवेश-हेतुत्वात् भक्तिर् इत्य् उच्यते ।
सा च पर-भक्तिः साक्षात्-काराभिनिवेशम् उत्पाद्य
तज्-जन्य-भगवत्-प्रसाद-विशेषेण
तत्-काल-नियतं साक्षात्-कारम् उत्पादयेत्
सोयं साक्षात्कारः पर-ज्ञानम् इत्युच्यते ।

एवं निरतिशय-भोग्य-रूप-भगवत्–स्व-रूप–साक्षात्-कारानन्तरं सञ्जातः प्रीत्यतिशयः परम-भक्तिः
सा हि परिपूर्ण-ब्रह्मानुभवाभिनिवेशम् उत्पाद्य
अव्यवधानेन मोक्षं भगवन्तं प्रदापयति ।

प्रपत्ति-गरियस्त्वम्

अस्मिंश् च भक्ति-योगे अ-त्रैवर्णिकानाम् अनधिकारात्
त्रैवर्णिकेष्व् अपि ज्ञानेन, शक्त्या, उभाभ्यां वा विहीनानां
विलम्बासह-तीव्र-संवेग-शालिनां च +अनधिकारात्
अ-द्वारक-प्रपत्तिर् एव मोक्षोपायतया भक्ति-योग-स्थाने विधीयते ।

उपासकस्य पर-भक्त्य्-अनन्तर-भावि-दशावत्
स्व-तन्त्र-प्रपत्ति-निष्ठस्य स्वापेक्षानुगुणं
प्रपत्त्य्-अनन्तर-भाविन्यो ऽनुकूलाः अवस्थाः
सर्वा अपि प्रपत्तेः फलभूताः ।

एवं प्रपत्तेः भक्तेश् च अधिकारि-भेदेन
तुल्य-फलत्वात् विकल्पः ।

प्रपत्ति-भेदाः

सेयं प्रपत्तिः वाचिकी कायकी मानसिकी त्रैकरणिकी चेति चतुर्धा ।
सर्वापि यथाधिकारं फल-प्रदा चेति ।