भक्ति-प्रपत्ती
एवं परम-पुरुषार्थोपायेषु निवृत्ति-धर्मेषु प्रवृत्ता अधिकारिणो द्विविधाः
अ-द्वारक-प्रपत्ति-निष्ठाः, स-द्वारक-प्रपत्तिनिष्ठाश् चेति ।
तत्राद्याः मोक्ष-निष्पत्तौ भक्तिम् अद्वारी-कृत्य,
स्व-तन्त्रतया प्रपत्तिम् अनुतिष्ठन्ते ।
अनन्तरास् तु मोक्ष-निवृत्तौ भक्तिं द्वारीकृत्य
तद्-अङ्गतया प्रपत्तिम् अनुतिष्ठन्ते ।
उभयविधा अपि स्वतन्त्राङ्ग-प्रपत्तिभ्यां प्रपन्नाः
फल–साधन–भक्तिभ्यां च भक्ता अपि ।
उक्ति-निष्ठा ऽऽचार्य-निष्ठा च
तत्र उक्ति-निष्ठा ऽऽचार्य-निष्ठा +इत्येते ऽधिकारिणो ऽपि
+अ-द्वारक-प्रपत्तिनिष्ठानाम् अवान्तर-विशेषाः ।
तत्र उक्तिर् नाम
+आनुकूल्य-सङ्कल्पाद्य्-अङ्गेषु विशदतमावभास-विहीनानां
भगवद्-व्यतिरिक्त-गत्य्-अन्तर-शून्यत्व-रूपाधिकारवतां
“सत्याम् अपेक्षायाम् रक्षिष्यती"ति महाविश्वास-शालिनां
शरण्य-विज्ञेय–पूर्ण-प्रपत्ति-गर्भ–सद्-आचार्योपदिष्टेन वाक्येन
“मद्-रक्षणं तवैव भरतया स्वीकरणीयम्”
इति भगवति प्रार्थना ।
मुग्ध-सामन्त-कुमारः सार्वभौम-समीपे
धात्री-समुपदिष्ट-वाक्येन “रक्षणान्तर-शून्योऽहं भवन्तम् एव शरणम् उपगतः” इति प्रार्थनावत् ।
आचार्यनिष्ठा नाम
आचार्यस्यात्मात्मीय-समर्पणे
शिष्याद्य्-आत्म-रक्षा-समर्पणस्याप्य् अन्तर्भावः
शिष्याद्य्-अर्थम् आचार्यस्य पृथग् अनुष्ठानं वा ।
भागवत-संसर्गः
एवं भागवताभिमान–भगवद्-विषय-वासादीन्य् अपि
++++(भक्त्य्-)+++उपासने प्रपदने वा प्रवर्तयन्ति,
निष्पन्नोपासनानाम् उत्तरोत्तरम् उपचयं जनयन्ति ।
स्व-तन्त्र-प्रपत्ति-निष्ठानां कैङ्कर्योपचयं जनयन्ति ।
नान्यः पन्था
इत्थं विशद-ज्ञान-पूर्वकं समुदाय+++(→स्थूल)+++-ज्ञान-पूर्वकं वा
अङ्गतया स्वतन्त्रतया वा
स्वयं वा आचार्येण वा
+अनुष्ठितां प्रपत्तिं विना
सर्वेश्वरः परम-पुरुषार्थं न प्रयच्छतीति शास्त्र-सिद्धम् ।
उपासन-प्रपत्त्योः फलम्
तत्र व्यासादीनाम् इव
+उपायान्तर-समर्थानां स-द्वारक-प्रपत्ति-निष्ठानाम्
आकिञ्चन्य-रहितानाम् विलम्ब-क्षमावताम्
अनन्य-गतिकता-रहितानाम् अन्तिम-प्रत्ययावधिकस्य उपासनस्य
यथावन्-निष्पत्त्य्-अनन्तर-भावी प्रारब्ध-कर्म-पर्यवसान-दशा-भावी च
मोक्षः फलम् ।
सर्वाधिकारां सर्वानिष्ट-निवर्तन-क्षमां सर्वेष्ट-साधिकां
सुकरां सकृत्-कर्तव्याम् आशु-कारिणीं प्रतिबन्धानर्हां
ब्रह्मास्त्र-न्यायेन सहकारि-प्रयोगासहां च
स्व-तन्त्रां प्रपत्तिम् अनुष्ठितवतां तु
फलं प्रति कस्यचिद् अपि प्रतिबन्धकस्य अभावात्
एतद्-देहासाध्य-कैङ्कर्यानुभवाभिसन्धि-कारणी-भूत-
स्व+++(=शरणागत)++++अनुमति-स्थापित-शरीरावसानावधिकः
परिपूर्ण-कैङ्कर्य-प्राप्ति-रूपो मोक्षः फलम् ।
सर्वेश्वरस्य सकल-पुम्-अर्थ-दान-समर्थस्य
भगवतः पादारविन्दयोः प्रपत्तिर्
उपास्तिर् इव चतुर्-विधस्यापि फलस्य साधकत्वात्
यथा-मनो-रथं समय-विशेषे मोक्षस्यापि साधकत्वाच् च
ज्यायसीति सिद्धम् ।
इच्छा-वैषम्यम्
एवं सद्वारकाद्वारक-प्रपत्ति-निष्ठानां
प्रभूत-कैङ्कर्यापेक्षायां तुल्यायाम् अपि
ऐतद्-देहिक-कैङ्कर्य-वैषम्यम् इच्छा-वैषम्य-प्रयुक्तम् ।
तद् वैषम्यम् अपि प्रारब्ध-सुकृत–वैषम्य-निबन्धनम् ।
अन्तिम-शरीरानन्तर-भावि-फल-प्राप्तौ तु
न किञ्चिदपि वैषम्यम् ।
ईश्वर-निरूपितं पारतन्त्र्यम्
अ-कर्म-वश्यता-रूपं+++(=??)+++ स्वातन्त्र्यं च
समम् एव सर्वेषाम् इति ।