ये पुनर् इत्थम् अर्थान् अध्यात्म-शास्त्र-विशेषैर् अवधार्य
स्वयं-प्रकाशत्व–
ज्ञातृत्व-भोक्तृत्व-शरीरित्व-अणुत्व–
नित्यत्व-निरवयवत्व–
च्छेदन-दहन-क्लेदन-शोषणाद्य्-अनर्हत्व–
वृद्धि-ह्रास-रहितत्वादि-रूपैः विशेषैः
स्व-विशेषणी-भूत–देहेन्द्रिय-मनः-प्राण-धीभ्यो वैलक्षण्यं च विज्ञाय
पर-लोक-गमन–देहान्तर-प्राप्त्य्-अर्हत्व-निश्चयेन
सामान्यतो लोकोत्तीर्ण-पुरुषार्थ-योग्याः
नरक-पतन-जन्मान्तर-क्लेशेभ्यो ऽतिभीताः
तद्-धेतु-भूत-पापेभ्यो निवृत्ताः
आधेयत्व-विधेयत्व-शेषत्व–अल्प-शक्तित्व–अणुत्व-
अज्ञान-संशय-विपर्यय-दुःखादि-योग्यत्व–अशुभाश्रयत्वादिभिः
परमेश्वर-व्यावृत्ति-निश्चयेन
स्व-रूप-प्राप्त–भगवत्-कैङ्कर्य-रूप–परम-पुरुषार्थ-योग्याः
अल्पत्व-अस्थिरत्व–दुःख-मूलत्व+++(-दुःख-मिश्रितत्व–दुःखोदर्कत्व=उत्तरत्व–विपरीताभिमान-मूलत्व)+++–स्वाभाविकानन्द-विरुद्धत्व-रूपान्
सप्त-विषयानुभव-दोषान्
यथा-सम्भवम् आत्म-मात्रानुभव-दोषांश् च
तत्-प्रति-द्वन्द्वि-भूतान् भगवद्-अनुभव-गुणांश् च
सर्वापेक्षित-सङ्ग्रह-रूप–मन्त्र-रत्न+++(=अष्टाक्षर)+++-मुखेन +अनुसन्धाय
प्रवृत्ति-धर्मात् निवर्तन्ते,
निवृत्ति-धर्मे च प्रवर्तन्ते,
त एव खल्व् अत्राधिकारिणः ।
पूर्वोक्त-प्रकारैः
परावर-तत्त्व-वेदिनो ऽपि
यदि वैराग्य-पूर्वकं परम-पुरुषार्थानुष्ठाने न प्रवर्तेरन्
तर्हि शान्ति-शील-वृत्ति-रूपैः श्रुत-फलैर् विधुराः हास्याः स्युः ।
अथ च ये श्रुतानुरूप-स्वोचित-परम-पुरुषार्थोपायानुष्ठाने त्वरातिशयवन्तो भवन्ति
ते स्वानुष्ठानेन अन्येषाम् अपि तोषम् आवहन्तो
ऽतिशयिताम् एव समृद्धिं समवाप्नुयुर् इति ।