प्रयोजनम्
एवं सिद्धेपि सामान्यतः प्रकृति-पुरुषेश्वर-विवेके
पर-देवता-विशेष-निर्णयं विना
प्रयोजनान्तर-वैमुख्य-सहित-
देवतान्तर-वैमुख्य-रूप–परमैकान्तित्वासिद्धेः
परमैकान्ति-व्यतिरिक्तस्य व्यवधानं विना मोक्षासिद्धेश् च
सो ऽयम् ईश्वरस् तु एतादृश-देवता-विशेष
इति निष्कर्ष आवश्यकः ।
विष्णु-पारम्य-प्रामाणिकता
तत्र चेतनाचेतनयोर् अत्यन्त-भेदस्य प्रामाणिकत्वात्
“सर्वं जगत् परं ब्रह्मैव”
+इति पक्षो न घटते ।+++(5)+++
स्वाभाविकस्य जीवेश्वर-भेदस्य
देवादि-रूप-जीवानां परस्परं भेदस्य च
सुख-दुःखादि-व्यवस्थया प्रामाणिकत्वाद्,
ब्रह्म-रुद्रादीनां सर्वेषां देवानाम्
ईश्वरेण सह स्वेषां च
परस्-पर-भेद +++(एकविध??)+++
इति पक्षोऽपि दुर्घटः।
एतेष्व् अपि देवेषु
प्रधान-भूतानां ब्रह्म-रुद्रादीनां
कार्यत्व-कर्म-वश्यत्व-सिद्ध्या,
स्वेच्छावतीर्णस्य त्रि-मूर्ति-मध्य-स्थस्य विष्णोर् एव पूर्वावस्था
विशिष्ट-वेषेण सर्व-जगत्-कारणत्व-नित्यत्वादि-सिद्ध्या च -
“त्रि-मूर्ति-त्रयं समम्” इति
“मूर्ति-त्रयम् एक-तत्त्वम्” इति
“त्रिमूर्त्य्+++(अंश)+++-उत्तीर्ण ईश्वर” इति
“तेष्व् एव ब्रह्मो वा रुद्रो वा +ईश्वर” इति
साम्यैक्योत्तीर्ण-व्यक्त्य्-अन्तर-परत्व-पक्षा न संघटन्ते ।
एते च ब्रह्म-रुद्रादयो देवाः
सर्वेश्वरस्य नारायणस्य कार्य-भूताः,
कर्म-वश्या, माया-पर-तन्त्रा,
विभूति-भूताः, शरीर-भूता,
ज्ञान-सङ्कोच-विकासवन्तः,
शुभाश्रयत्व-विधुराः, मुमुक्ष्व्-अनुपास्या
इति च सर्व-सम्प्रतिपन्न-प्रमाण-प्रसिद्धम्,
नारायण एक एव सर्व-प्रकारेणापि
समाभ्यधिक-रहितः स्व-व्यतिरिक्त-सकल-जन्तु-समुपास्य इति च ।
देवतान्तरभक्तौ फलम्
क्वचिद् ब्रह्म-रुद्रादीनां मोक्षोपकारकता-कथनम्
आचार्यादीनाम् इव ज्ञान-हेतुता-मात्रेण इति निर्णीतम् ।+++(4)+++
सूर्यादि-देवतान्तर-भक्तेष्व् अपि
परावर-तत्त्वेषु ऐक्य-बुद्धि–व्यत्यय-बुद्धि–समत्व-बुद्ध्य्-आदि-रहिता
अनासुर-स्वभावा एव पुरुषाः
परम्परया भगवद्-अनुग्राह्याः स्युः,
अनीदृशा भगवन्-निग्राह्या एव स्युः ।+++(4)+++
अत एव मोहन-शास्त्रोक्त-कर्मसु
क्षिप्रं दृष्ट-फल-सिद्धि-प्रदर्शनम् अपि
भगवन्-निग्रह-प्रकार-विशेषः।+++(5)+++
सत्य-सङ्कल्पस्य भगवतो
निग्रह-विषयी-भूतं पुरुषं
न खलु ब्रह्मादयोऽपि रक्षितुम् ईशते ।
तथा ऽनुग्रह-विषयी-भूतं
भगवान् सकलाभ्यो विपद्भ्यो रक्षति ।
मोक्ष-दातृता
देवतान्तर-भजनेन
विलम्ब्यापि मोक्ष-सिद्धिर् न सुलभा।
भगवद्-भजनेन तु
निरतिशयैश्वर्य-सिद्धिर् अपि दृष्टा।
तद् इदं +++(ताप-निवृत्त्य्-अर्थं)+++ भजनं ताप-निवृत्त्य्-अर्थं गङ्गा-स्नानम् इव
रजस्-तमो-निबर्हणं सत्त्वोन्मेषणं च विदधत्
मोक्ष-पर्यन्तम् अपि भवेत् ।+++(5)+++
परन्तु अत्रास्ति +++(मोक्ष-प्राप्तौ)+++ विलम्बः ।
मोक्ष-रुच्यैव स्व-शक्योपाये प्रवृत्तस्य तु
नास्ति विलम्बोऽपि ।
स्व-तन्त्र-प्रपत्ति-निष्ठस्य तु
स्व-सङ्कल्पं विना
+++(मोक्षे)+++ विलम्बाविलम्बयोर् नास्ति किम् अपि नियामकम् ।
तद् एते +++(मोक्ष-विलम्ब)+++नियमाः स्व-तन्त्रेच्छा-सिद्धा
इति प्रमाण–पर-तन्त्र+++(-जन)+++–सम्मतम् ।
अन्तरात्मता-विज्ञान-फलम्
अथ यद्य् अपि
केनचिच् चार्वाकेण सेवकेनाराधिते राज्ञि
शरीरान्तर्-अवस्थितो जीवात्मा यथा परितुष्यति
तथा निरूपित-विवेक-विधुरैर् अपि
समर्पितेषु देवतान्तरेषु
तेषाम् अन्तरात्मा परमात्मा परितुष्यति ।
तथापि शास्त्रार्थ-वैकल्येन
फल-वैकल्यं प्रमाण-प्रतिनियतम् ।
तत्र भगवद्-आत्मकत्व-ज्ञान-वतां
क्षिप्रं फल-कामनया देवतान्तरम् उपासितवतां
तत्-तत्-फलं सकलम् एव ।+++(5)+++
फलान्तर-कामनया भगवद्-भजनम्
तत्र फलान्तर-कामनया ऽपि
भगवन्तम् एव आश्रितवताम्
अतिशयता+++(=उत्कर्ष)+++-फल-सिद्धिः ।
अनन्य-प्रयोजनतया समाश्रितवतां तु
+आनुषङ्गिक-शरीरारोग्यैश्वर्यादि-सिद्धिर्
भगवत्-सङ्कल्प-नियता
विद्या-विशेष–राग-विशेषादि-नियता च ।
निगमः
सो ऽयं पर-देवता-विशेषो महा-पुरुषः
श्री-पतित्व-लक्षणेन
इतरेभ्यो व्यावृत्तः
प्राप्यः प्रापकश् च ।
तम् अन्तरा प्राप्यान्तरं शरण्यान्तरं नास्तीति निगमः+++(=निश्चयः)+++ ।