०५ तत्त्वत्रयम्

प्रवेशः

अथ तत्त्व-त्रयम् उपव्याख्यास्यामः-
तत्र आदौ प्रकृत्य्-आत्म-भ्रमस्य स्व-तन्त्रात्म-भ्रमस्य निरीश्वर-वाद-रुचेश् च निरसनीयतया
भोक्तृ-भोग्य-नियन्तृ-रूपं, चेतनाचेतनेश्वरात्मकं, तत्त्व-त्रयं विज्ञातव्यम् ।

सर्वस्यापि वस्तुनः स्वरूप-स्थिति-प्रवृत्तयः
प्रमाण-प्रतिनियताः +++(वक्ष्यमाणया रीत्या)+++ ।

स्वरूप-स्थिति-प्रवृत्तयः

तत्र स्वरूपं स्वासाधारण-धर्म-निरूपणीयो धर्मी
सैव सत्तेत्य् उच्यते ।

स्थितिः कालान्तरानुवृत्तिः ।
सा हि ईश्वर-सङ्कल्पानुगुणा -
नित्य-वस्तुनो नित्या
अनित्य-वस्तुनश् च अनित्या ।

प्रवृत्तिस् तु व्यापारः - प्रवृत्ति-निवृत्ति-रूपः ।

प्रमाणम्

प्रमाणं हि प्रमा-जननावसरे
वस्तुनः स्वरूपं,
स्व-रूप–निरूपक-धर्मान्, निरूपित-स्वरूप-विशेषणान्,
अर्थ-क्रिया-कारित्व-लक्षणं व्यापारं , च +अवगमयति ।

तत्र स्वरूपं स्व-निरूपक-धर्म-विशिष्टम् एव बोधयति ।
तच् च स्वरूपं स्वरूप-निरूपक-धर्म-पुरस्करणं विना
व्याहर्तुम् अप्य् अशक्यम् ।
तादृश-धर्मं विहाय जिज्ञासा यदा,
स्वरूपं शश-विषाणम् अनुरुन्ध्यात् ।

चेतन-स्वरूपम्

अत्र प्रकृते चेतन-स्वरूपं
ज्ञानत्व-आनन्दत्व-अमलत्व-अणुत्व-आदि-रूप–
स्व-रूप–निरूपक-धर्मैर् निरूप्य
सत्यं, ज्ञानम्, आनन्दम्, अमलम्, अणु,
इत्य् एवं प्रकारेणैव युक्तं व्यवहर्तुम्

चेतन-गतम् ईश्वर-निरूपितम् शेषत्वं तु
+++(पर-)+++निरूपित–स्व-रूप–विशेषणम् इति वदन्ति -
+++(लोके-दृश्यमान-भर्त्राद्य्-उपाधि-रहित-)+++निर्-उपाधिक-सम्बन्ध-रूपत्वात्,
सम्बन्धि–स्व-रूप–निरूपणम् अन्तरा
ज्ञातुम् अशक्यत्वाच् च ।

स्वरूप-निरूपक-धर्मः

स्वरूप-निरूपक-धर्मश् च द्विविधः-
स्व-रूप–मात्र-प्रतिपत्त्य्-अर्थो,
सजातीय-विजातीय–सकलेतर-व्यावृत्ति–प्रतिपत्त्य्-अर्थश् च +इति ।

तत्र शेषत्वस्य प्रथमाकारासम्भवे ऽपि
अणुत्वे सति
चेतनत्ववत् स्वतः शेषत्वे सति
चेतनत्वस्य जीव-लक्षणत्व-सम्भवात्
द्वितीयाकारः सम्भवतीति
स्वरूप-निरूपकत्वम् अपि वक्तुं साम्प्रतम् ।

ईश्वरः, आत्मा

एवं विभुत्त्वे सति
चेतनत्वं, अनन्याधीनत्वं, निर्-उपाधिक-शेषित्वम् इत्यादिकम्
ईश्वर-लक्षणम्
जीवेश्वर-रूपस्य आत्म-सामान्यस्य लक्षणं चेतनत्वं प्रत्यक्त्वं च ।
तत्र चेतनत्वं ज्ञानाश्रयत्वम्।
प्रत्यक्त्वं स्वस्मै स्वयं प्रकाशमानत्वम् ।
तथा-प्रकाश-वेलायां धर्म-भूत-ज्ञान-निरपेक्षम् “अहम्” इत्य् अवभासते ।

जीवाः

ईश्वर-व्यतिरिक्ता एते चेतनाः
बद्ध-मुक्त-नित्य-रूपेण त्रिविधाः।

तत्र बद्धाः अनादि-कर्म-प्रवाहेण अनुवृत्त-संसाराः ब्रह्मादि-स्तम्ब-पर्यंताः क्षेत्रज्ञाः

मुक्ताः शास्त्र-बोधितोपाय-विशेषेण सञ्जातेन भगवत्-प्रसादेन
अत्यन्तं विनिवृत्त-संसाराः
सङ्कोच-रहितेन भगवद्-अनुभवेन निरतिशयानन्दवन्तः ।

नित्यास् तु अनादेः कालात्
ज्ञान-सङ्कोचाभावेन अस्पृष्ट-संसाराः
नित्यं कैङ्कर्यं कुर्वन्तो
ऽनन्त-गरुड-विष्वक्सेनादयः ।

चेतनानां चैतेषां स्थितिर् अविशिष्टा,
प्रवृत्तिस् तु पराधीनं, परार्थं कर्तृत्वं, भोक्तृत्वं च ।
यतश् चेश्वरः स्व-भोगायैव एतेषां चेतनानां कर्तृत्वं भोक्तृत्वं चोत्पादयति ।+++(5)+++

बद्धः

तत्र बद्धानाम् अविद्या-पाप-कर्म-वासना-रुचि-प्रकृति-सम्बन्धवत्त्वम्
अन्येभ्यः स्वरूपे विशेषः
परस्परं विशेषस् तु ज्ञान-सुखादि-तारतम्यात् प्रत्यक्ष-सिद्धः ।

एते च बद्धाः स्व-कर्मानुगुणानि ईश्वर-दत्तानि शरीराणि
धर्म-स्वरूपेण धर्म-भूत-ज्ञानेन च बिभ्रति
तत्र स्वरूप-साध्यं धारणं शरीर-सत्तायाम् उपयुज्यते ।
धर्म-भूत-ज्ञान-साध्यं तु +++(धारणम्)+++ पुरुषार्थ–तद्-उपाय-स्थाने,
कृत-कृत्यानां भगवद्-अनुभव-कैङ्कर्ये,
पाप-कृतां त्व् एतद्-विपरीत-फले च
इति विशेषः ।

एतेषाम् एव बद्धानाम् इतरेभ्यः स्थितौ विशेषः
संसारबद्धस्य यावन्-मोक्षम् अनुवृत्तिः ।

प्रवृत्तौ तु पुण्य-पापानुभय-रूपस् त्रिविधो व्यापारः

मुक्तः

अथ मुक्तानां प्रतिबन्धक-निवृत्त्या आविर्-भूत–स्व-रूपत्वम्
इतरेभ्यः स्वरूपे विशेषः
स्थितौ +++(विशेषः)+++ पूर्वावधिमतो ऽस्य आविर्भावस्य उत्तरावधि-राहित्यम् ।
प्रवृत्तौ +++(विशेषः)+++ तु परिपूर्ण-भगवद्-अनुभव-जनित–प्रीति-कारित–यथाभिमत–कैङ्कर्य-प्राप्तिः ।

नित्यः

नित्यानाम् अनाद्य्-आविर्भूत-+++(सर्वज्ञत्वादि-)+++स्वरूपत्वे सति परतन्त्रत्वम्
इतरेभ्यः स्वरूप-विशेषः
स्थितौ +++(विशेषः)+++ अनाद्य्-अनुवृत्त-भगवद्-अनुभवः ।
प्रवृत्तौ +++(विशेषः)+++ अनादयः, प्रवाहतो नित्याः, कैङ्कर्य-विशेषाः ।

धर्म-भूत-ज्ञानम्

एतेषाम् आत्मनां धर्म-भूत-ज्ञानम् अपि द्रव्यम् ।
तस्य च स्वरूपं +++(स्व-क्रियमाण-)+++विषय-प्रकाश-दशायां
स्वाश्रयं प्रति स्वयं-प्रकाशमानत्वम् ।

तद् एतद् ईश्वरस्य नित्यानां च नित्य-विभु ।

इतरेषां संसारावस्थायां कर्मानुरूप-बहु-विध-सङ्कोच-विकास-विशिष्टं
मुक्तावस्थायां नैज-विकासेन यावत्-कालं विभु ।

स्थितिस् तु स्वरूपतो नित्यत्वात् नित्या ।

प्रवृत्तिस् तु विषय-प्रकाशकत्वं
प्रयत्नावस्थया शरीरादि-प्रेरकत्वं +++(5)+++
बद्ध-दशायां सङ्कोच-विकासवत्त्वम्
आनुकूल्य-प्रातिकूल्य-प्रकाशन-मुखेन भोग-रूपावस्था-योगित्वं च ।

ज्ञान-प्रकाशः

एतेषां सर्वेषाम् एव आत्मनां स्वरूपं
स्वस्मै स्वयं प्रकाशते
अस्य च प्रकाशस्य च
कदापि कस्यापि सङ्कोच-विकासौ न स्तः ।

धर्म-भूत-ज्ञानं तु
विषय-प्रकाश-वेलायाम् एव
स्वाश्रयं प्रति स्वयं प्रकाशते ।

अनयोश् च धर्म-धर्मिणोर् ज्ञानत्वं, स्वयं-प्रकाशकत्वं साधारणम् ।

विषयत्वं प्रत्यक्त्वं च यथाक्रमम् असाधारणम्।

तत्र ज्ञानत्वं कस्यचिद् वस्तुनः प्रकाशत्वम्
तच् +++(=प्रकाशत्वम्)+++ च स्वस्य वा, परस्य वा,
कस्यचिद् वस्तुनो +++(वागादि-)+++व्यवहार-प्रयोजकः+++(=हेतुः)+++ सम्बन्धः
स च धर्मिणः तादात्म्य-रूपः,
धर्मस्य संयोगादि-रूपः ।

स्वयं-प्रकाशत्वं
स्वात्मानं विषयी-कुर्वतो ज्ञानान्तरस्य +अपेक्षाम् अन्तरेण
स्व-+++(वागादि-)+++व्यवहार-प्रयोजकः+++(=हेतुः)+++ सम्बन्धः।

विषयत्वं स्व-व्यतिरिक्त-वस्तु-प्रकाशत्वम् ।

प्रत्यक्त्वं स्वस्मै भासमानत्वम् ।
तच् च स्व-प्रकाश-प्रयोज्य–व्यवहार-रूप-प्रयोजन-भाक्त्वम् ।

एवं धर्म-स्वरूप-गतं प्रत्यक्त्वम् अपि स्वयं-प्रकाशम् +++(यथाग्रय् उदाह्रियते)+++ ।
यथा “घटम् अहं जानामी"ति धर्म-भूत-ज्ञान-प्रकाशे
कर्मतया भासमानात् “घटाद्” विलक्षणतया भासमानं +++(“जानामी"ति)+++ ज्ञानत्वं स्वयं प्रकाशं,
तथा “अहम्” इति धर्मि–स्व-रूप–प्रकाशे धर्म्य्-अंशे
कर्मतया भानाभावात् प्रत्यक्त्वम् अपि स्वयं प्रकाशम् इत्य् आस्थेयम् ।

एवं +++(“जानामि”, “अहम्” इव)+++ धर्म-धर्मिणोः स्वयं प्रकाशत्वे ऽपि
नित्यत्वादि-धर्म-पुरस्कारेण
ज्ञानान्तर-वेद्यत्वम् अस्ति
+++(यथा - “आत्मज्ञानं नित्यम्”)+++।

यदा स्व-धर्म-भूत-ज्ञानं
+++(अनुमानादिजन्येन)+++ स्व-ज्ञानान्तरेण अवभासते
तदा +++(विषयम् प्रति)+++ प्रसरण-भेद-मात्रेण
ज्ञानान्तर-व्यपदेशः ।

अचेतनम्

अथ अचेतनं त्रिविधं प्रकृति-काल–शुद्ध-सत्त्व–भेदात् ।

त्रिविधम् अप्य् अचेतनं, परेषाम् एव भासमानम् ।
तत्र अचेतनत्वं ज्ञानानाश्रयत्वम् ।
परेषाम् एव भासमानत्वं
स्व-प्रकाश-साध्य–व्यवहार-रूप-प्रयोजन-शून्यत्वम् ।
एतल्-लक्षण-द्वयं धर्म-भूत-ज्ञानस्यापि साधारणम् ।

एतेष्व् अचेतनेषु प्रकृति-कालौ जडौ ।
शुद्ध-सत्त्वम् अजडम् ।
अजडत्वं स्वयं-प्रकाशत्वम् । तद्भिन्नत्वं जडत्वम्

शुद्ध-सत्त्वस्याजडत्वम्

शुद्ध-सत्त्वम् अपि जडम् इति केचित् ।
“अजडत्वे अस्मद्-आदीनां शास्त्रम् अन्तरा कुतो न भासेते"ति वदन्ति ।

तान् एवं प्रतिब्रुवते भगवच्-छास्त्राभिज्ञाः -

यथा हि जीवात्म-स्वरूपं स्वस्मै स्वयं-प्रकाशं,
धर्म-भूत-ज्ञानं च स्वाश्रयस्यैव स्वयं-प्रकाशं, नेतरेषां,
तथा शुद्ध-सत्त्वम् अपि नियत+++(=मुक्तादि)+++-विषयं स्वयं-प्रकाशम्

यथा वा धर्म-भूत-ज्ञानस्य स्वयं-प्रकाशन-सामर्थ्यं
विषय-प्रकाश-विरह-दशायां कर्म-विशेषेण प्रतिबद्धं
मुक्ति-दशायाम् अ-प्रतिबद्धं
तथा +अस्यापि +++(शुद्ध-सत्त्वस्य)+++ स्वात्म-प्रकाश-सामर्थ्यं बद्ध-दशायां प्रतिबद्धं
मुक्ति-दशायाम् अप्रतिबद्धम् ।

तस्मात् आत्म-स्वरूपम् इव ज्ञानादि-शब्द-व्यपदेश्यं
शुद्ध-सत्त्वम् अपि स्वयं-प्रकाशम् इति प्रमाण-प्रतिपन्नम्।
अत्र न युक्तयः प्रक्रमन्ते ।

इत्थम् +++(पृथिव्याद्य्-)+++अन्य-स्वरूप-प्रकाशत्वे
रूप-रसादि-गुणवत्त्वं, पृथिव्यादि-विभागार्हत्वं, परिणामशालित्वं च कथम्?

इति चोद्यं
धर्म-भूत-ज्ञानस्य, धर्मि-स्वरूपस्य च विद्यमानं वैषम्यम् +++(=विषयत्व-प्रत्यक्त्वे)+++ इव
प्रमाण-बलेन परिहार्यम् ।

प्रवृत्तिः

इत्थम् एतेषां त्रि-विधाचेतनानां
स्वरूपं स्थितिश् च प्रत्यपादि।
प्रवृत्तिस् तु +ईश्वर-सङ्कल्पानुरूपाः विचित्र-परिणामादयः ।

तेषु त्रिगुण-द्रव्यस्य सतत-परिणाम-शीलस्य
सत्त्व-रजस्-तमांसि यदा समानि
तदा प्रलयः।
यदा तु विषमानि तदा सृष्टिः स्थितिश्च ।

गुण-वैषम्य-विशिष्ट-प्रदेशे
महद्-आदयो विकासाः।

२४ तत्त्वानि

अत्र अविकृतं विकृतं च प्रकृति-प्रदेशम् एकीकृत्य
प्रकृतिर्, महान्, अहङ्कारः, पञ्च-तन्मात्राणि, पञ्चभूतानि, एकादशेन्द्रियाणि
च +इति चतुर्-विंशति-तत्त्व-विभागः
विवक्षा-विशेषेण च क्वचित्-तत्त्व-संख्याने न्यूनाधिक-भावः ।

एतेषां तत्त्वानाम् अभिमानिनो देवाः नित्यसूरयः
सर्वेश्वरस्य पर-रूपम् अस्त्र-भूषणादि-रूपेण स्थिता इत्यतः
तत्त्वानि अस्त्र-भूषणादि-रूपाणीति शास्त्र-व्यवहारः ।+++(5)+++

तानि च द्रव्याणि स्वरूपतो नित्यानि,
नामान्तर-भजनार्हावस्था-विशिष्टतया अनित्यानि ।
सजातीयावस्था-सन्तत्य्-अनुच्छेदवत्तया कानिचित् प्रवाहतो नित्यानि ।+++(4)+++

आनुकूल्यम्

एतेषां सर्वेषां स्वरूप-स्थिति-प्रवृत्तीनाम् ईश्वराधीनत्वं
ईश्वर-सत्तायाम् ईश्वरेच्छायाम् चासत्यां तेषां सत्तादि-शून्यत्वम् ।
तस्माद् एषाम् आनुकूल्यं
स्वभाव-सिद्धम् ईश्वर-सङ्कल्पायत्तम् ।

अतो मुक्तानाम् ईश्वरस्य
सर्वं सदा ऽनुकूलम् एव,+++(5)+++
बद्धानां पुनस् तत्-तत्-कर्मानुगुणं
पुरुष-भेदेन काल-भेदेन च +++(सर्वं)+++
प्रतिकूलम् अनुकूलं च ।

स्वात्म–स्व-रूपस्य तु +++(स्वस्मै)+++
यथा-स्वं सर्वदा ऽनुकूलत्वम् एव
ईश्वर-सङ्कल्प-नियतम् ।

अत एव देहात्म-भ्रमवताम्
अत्यन्तं हेयम् अपीदं शरीरं
कर्म-विशेषेण +अनुकूलतया प्रतिभाति ।
मुमुक्षूणाम् औपाधिकेन प्रतिकूल-रूपेण +++(शरीरं)+++ हेयं भवति ।
मुक्तानां पुनः शरीरं
स्वाभाविकेन अनुकूलरूपेण उपादेयं च भवति ।

तस्मात् अहङ्कार-ममकार-युक्तस्य
स्वार्थं स्वीक्रियमाणम् सर्वं प्रतिकूलम् ।

स्व–स्व-रूप-ज्ञानवतः
स्वामि-शेषत्वं च विजानतः
सर्वम् अनुकूलम् एव ।

ईश्वरः

स्वरूपम्

एवं स्वाधीन-सत्तादिमतः परमेश्वरस्य
स्वरूपम् अपि
सत्यत्वादि-रूप–स्व-रूप–निरूपक-धर्माधीन-निरूपणतया
सत्यं ज्ञानम् आनन्दम् अनन्तम् अमलम् इत्य्-आदि-पदाभिधेयं भवति ।

गुणाः

तस्यानन्तेषु गुणेषु ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजांसि परत्वोपयुक्तानि
सौशील्य-वात्सल्यादीनि सौलभ्योपयुक्तानि
एते सर्वेपि गुणाः स्वरूपाश्रिता वेदितव्याः ।

रूपाणि

तस्येश्वरस्य परं रूपम्
अनन्तम् एकम् एव
पर-व्यूह-विभवार्चान्तर्यामि-भेदात्
पञ्च-प्रकारम् इव व्यपदिश्यते।

तत्र व्यूहश् चतुर्-विधः
वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धादि-भेदात् ।
पर-रूपस्य व्यूहान्तर्गत-वासुदेव-रूपस्य च विशेष-विरहात्
त्रिविधो व्यूह इति केचित् ।
एतेषु त्रिषु रूपेषु
पूर्वोक्तानां ज्ञानादि-गुणानां षण्णां द्विक-त्रिकस्य
उपासकानुग्रहाय आविष्कारः
+++(यथा - सङ्कर्षणः (ज्ञानं, बलम्), प्रद्युम्नः (वीर्यैश्वर्यमयः) अनिरुद्धः (तेजः, शक्तिः))+++।
केशवादीनि द्वादशरूपाण्यपि व्यूहान्तराणि ।

विभवास् तु पद्म-नाभादयः
षट्-त्ररिंशत् अष्टा-त्रिंशद् एकोन-चत्वारिंशद् इति
संहिता-भेदेन प्रभेदवन्तः ।
हिरण्य-गर्भ–रुद्र-बुद्धादि-क्षेत्रज्ञान्
विग्रह-विशेषेण शक्ति-विशेषेण वा ऽधिष्ठायातिशयित-कार्यकारिणो विद्याधिदेवादि-प्रादुर्भावा अपि विभवभेदा एव ।+++(5)+++

अर्चावतारास् तु
+आश्रितापेक्षानुगुणं विशिष्ट-प्रतिष्ठाऽनन्तरं
शिलादि-प्राकृत-बिम्बेषु पर-व्यूहाद्य्-अप्राकृत-विग्रह-विशिष्ट-वेषेण
क्षीर-नीर-न्यायेन अनुप्रविष्टाः ।
देश-कालादि-विप्रकर्षं विना
मांस-चक्षुषाम् अपि अनुभवयोग्याः
अर्चन-प्रणाम-ध्यानादि-सौकर्यातिशय-जनन-द्वारा मुक्ति-प्रदा रूप-विशेषाः ।

अन्तर्याम्य्-अवतारास् तु
सर्व-व्यापिनो दिव्यात्म-स्वरूपाद् अतिरिक्ताः।
हार्दान्तर्यामिण उपासक-हृदय-सन्निहिता हृद्याग-समाराध्याः रूपविशेषाः ।

इदं च अवतार-रहस्य-ज्ञानम्।
एतस्मिन्न् एव जन्मनि
स्वाधिकारानुगुणं समीहितम् उपायं पूरयित्वा
जन्मान्तरानुभवम् अन्तरा
मुक्त्य्-उपकारकम्
इति स्थितम् ईश्वरस्य रूपम्।

स्थितिः

स्थितिस् तु नित्यैव ।

प्रवृत्तिः

प्रवृत्तिः पुनः
सकल-जगत्-सृष्टि-स्थिति-संहार–
मोक्ष-प्रदत्वान्तः-प्रवेश–नियमनादिकम् ।

लक्ष्मी-सहितता

सो ऽयम् ईश्वरः
सर्वास्व् अप्य् अवस्थासु
लक्ष्मी-विशिष्ट एवावतिष्ठते ।
तत्रेश्वरस्य दण्ड-धरत्वादिकं
श्रियः पुरुष-कारत्वादिकं च वैषम्यम्
उभयेच्छाधीन-व्यवस्थित-विभाग-प्रयुक्तम् ।

परिसङ्ख्यान-भेदाः

तद् एतत् तत्त्व-जातं
केचित् सर्व-विशिष्ट-वेषेण एकधा अनुसन्दधते।
अपरे ईशेशितव्य-भेदेन आत्मानात्म-भेदेन च द्वेधा
अन्ये चिद्-अचिद्-ईश्वर-भेदेन त्रेधा,
एवं रक्ष्य-रक्षक–हेयोपाय–भेदेन चतुर्धा
प्राप्तृ-प्राप्य–प्राप्त्य्-उपाय–प्राप्ति–प्राप्ति-विरोधि-भेदेन पञ्चधा,
तत्र सम्बन्धम् अन्तर्भाव्य षोढा,
प्रकृति-काल-जीवेश्वर–नित्य-विभूति–धर्म-भूत-ज्ञानाद्रव्य-रूपेण सप्तधा
अनुसन्दधते ।
तत्-तादृशम् अनुसन्धानं
तत्-तत्-प्रयोजन-विशेष-निबन्धनम् इति निरवद्यम् ।