एवम् ईश्वर-निरूपितम् ईशितस्य संभवितम्
आधेयत्व–विधेयत्व–अपृथक्-सिद्धत्व–शेषत्व–
शरीरत्व–व्याप्यत्व–रक्ष्यत्व–
किङ्करत्व-भोग्यत्व-भोक्तृत्व-लक्षणं
दश-विधं सम्बन्धम् उपजीव्य
पञ्चार्थान् विचारयन्ति तत्त्व-विदः ।
ते च प्राप्यः, प्राप्ता, प्राप्त्य्-उपायः, प्राप्तिः, प्राप्ति-विरोधी चेति ।
प्राप्यः
तत्र प्राप्यः—
सर्व-शास्त्रैक-कारणम्
सकल-जगत्-सृष्ट्य्-आदि-व्यापार-शीलः
अपरिमित-ज्ञानानन्तैक-स्वरूपः
अखिल-हेय-प्रत्यनीकः
प्राप्यत्व-प्रापकत्वोपयुक्त–
ज्ञान-शक्त्य्-आद्य्-अनन्त-कल्याण-गुण-गणः
शरीर-भूत-शुद्धाशुद्ध+++(=नित्य-लीला)+++-विभूति-द्वययुक्तः
पर-व्यूहादि-पञ्च-प्रकार-दिव्य-मङ्गल-विग्रहोपेतः
सर्वास्व् अवस्थासु सह-धर्म-चारिण्या श्रिया अविनाभूतः
सर्व-लोक-शरण्यः
शरणागत-वत्सलः
सर्व-प्रकार-निरतिशय-भोग्यः
पर-ब्रह्माभिधानः पुरुषोत्तमो नारायणः ।
प्राप्ता
प्राप्ता
देहेन्द्रियादि-विलक्षणः
स्वयं-प्रकाशः,
स्वस्मै भासमानः,
बद्ध-मुक्त-साधारणैः भगवत्-कैङ्कर्य-रूप-योग्यता–ज्ञान-फलकैः
ज्ञानत्व-आनन्दत्व-अमलत्व-अणुत्वादि-रूपैर्,
उपायाधिकार्य्-असाधारणैः
उपायानुष्ठान-योग्यता-ज्ञान-फलकैः शेषत्व-पारतन्त्र्यादि-रूपैश् च
धर्मैः सहितः,
पर-शेषतैकरसः
पराधीन–स्व-रूप–स्थिति-प्रवृत्तिकः
परिपूर्ण-भगवद्-अनुभव-योग्यः
स्व-रूपानुगुण–स्व-च्छन्द-कैङ्कर्याभिलाषी
जीवात्मा ।
प्राप्त्युपायः
प्राप्त्युपायः —
संसार-सागरोत्तरणाय साधनतया
स्व-बुद्ध्या अपेक्षणीयः
शास्त्र-प्रतिपादितः अर्थः ।
स च द्विविधः -
सिद्धोपायः साध्योपायश् चेति।
तत्र आद्यः—
नित्य-सिद्ध–स्व-रूप–गुण-सहितः
सर्व-ज्ञतया पर-हित-वेदी
सर्व-शक्ततया सर्वानिष्ट-निवारण-क्षमः
सर्व-भूत-निसर्ग-सुहृत्तया सर्वानिष्ट-निवारणे सदाभिमुखः
अवसर-प्रतीक्षः
व्याज-विशेष-वशी-करणीयः+++(5)+++
सङ्कल्प-विशेष-सहकारि-निरपेक्षः
स्वार्थ-प्रवृत्तः
मोक्ष-प्रदानाव्यवहित-कारणः
सङ्कल्पाश्रयः श्रियः पतिः ।
साध्योपायस् तु
सामान्यतः पुरुषेण अनुष्ठेयतया शास्त्र-चोदितं पुरुषार्थ-साधनम् ।
मोक्षार्थ-साध्योपायस् तु भक्तिः प्रपत्तिश् चेति द्विविधः ।
तत्र भक्तिः-
कर्म-योग–ज्ञान-योग–संस्कृतान्तः-करण-साध्या
अष्टाङ्ग-योग-युक्ता
वर्णाश्रम-धर्म-+इति-कर्तव्यताका
तैल-धारावद्-अविच्छिन्न-स्मृति-सन्तति-रूपा
अहर्-अहर्-अभ्यासाधेयातिशया+++(5)+++
आप्रयाणम् अनुवर्तनीया
प्रारब्धेतर-पुण्य-पाप-निवह-रिक्ता
स्व-यत्न-साध्या
अन्तिम-प्रत्यय+++(=??)+++-विशेष-लक्षणा ।
प्रपत्तिस् तु —
महा-विश्वासादि-संस्कृतान्तःकरण-साध्या
+++(आनुकूल्यसम्कल्पादि??-)+++-षड्-अङ्ग-योग-संज्ञिता
अनन्योपाय-सर्वाधिकारिका
आनुकूल्य-सङ्कल्पादि-मात्र-परिकरवती
सुकरा
प्रार्थनान्वित–सकृद्-भर-न्यास-रूपा
अनाधेयातिशया+++(5)+++
आदेह-पातं स्व-स्वरूपावृत्त्य्-आदि-कर्तव्य-विशेष-रहिता
प्रारब्ध-कर्म-निवर्तन-क्षमा
स्व-यत्न-साध्या
अन्तिम-प्रत्यय-निरपेक्षा ।
प्राप्तिः
अथ प्राप्तिः
स्वाधिकारानुगुण–वशी-करण-विशेषेण
+उत्तर-पूर्वाघ-श्लेष-विनाशवतः स्थूल-शरीर-वियोग-पूर्वकेण
ऊर्ध्व-गति-विशेषेण
समुत्क्रान्तस्य अर्चिर्-आदि-मार्गेण
अतिवाहकैर् अतिवाहित-त्रि-गुण-मण्डलस्य
अवधूत-सूक्ष्म-शरीरस्य
अ-प्राकृतं देशम् अधिगतवतः
आविर्-भूत–स्व-रूपस्य
अपहत-पाप्मत्वादि-गुणाष्टक-विशिष्टस्य
पूरुष-धौरेयस्य
देश-काल-परिच्छेद-रहित–
सर्व-विध-कैङ्कर्य-पर्यन्त–
परिपूर्ण-ब्रह्मानुभवः ।
प्राप्ति-विरोधी
प्राप्ति-विरोधी तु –
बीजाङ्कुर-न्यायेन
अनादितया प्रवृत्तेन
अ-कृत्य-करण–कृत्याकरण-प्रवाहेन
सञ्जात-प्रायश्चित्त-धुराणाम्
अनतिलङ्घनीय-फलः
आगमैक-समधिगम्यः
अन्-उपेक्षणीय-विपाक-समयः
आ-ब्रह्म-स्तम्ब-पर्यन्तम् अभिव्याप्तः
अत्यन्त-विषम-प्रवाहः
अतिघोर-नरकाद्य्-अनर्थ-परम्परा-हेतु-भूतः
चक्रवत्-परिवर्तमानः
कार्य-कारण-वर्ग-सहितः
सन्तन्यमानो भगवन्-निग्रहः ।
तस्य चायं विस्तरः॥
असौ खलु निग्रहः+++(विग्रहः)+++
चैतन्य-सङ्कोच-कर–त्रिगुणात्मक-प्रकृति-संसर्ग-विशेषम् उत्पाद्य
प्रकृति-परिणाम-विशेषैः शरीरादिभिः सम्बन्धं च जनयित्वा
चेतनान् तत्+++(=प्रकृति)+++-परतन्त्रान् करोति ।
तस्याम् अप्य् अवस्थायां
शास्त्रानधिकार-तिर्यग्-आदि-दशायां
बहु-कालम् अवस्थापयति ।
शास्त्र-योग्य-मनुष्यादि-जन्मस्व् अपि
बाह्य-कु-दृष्टि-दृष्टिभिर् आकुलयति ।
तादृश-मतेष्व् अननुप्रविष्टांस् तु
मूल-प्रकृति-प्रभृति–मोहन-पिच्छिकया
तत्त्वाज्ञान–विपरीत-ज्ञान-विष-प्रावण्य-विशिष्टान् करोति ।
तत एव
सुख-लवार्थम्
अ-कृत्य-करणादि-रूपम्
आज्ञा-ऽतिलङ्घनं कारयित्वा
पुनर् अपराध-परम्परायां प्रवेश्य
तत्-फलतया गर्भ-जन्म-जरा-मरण-नरकादि-चक्र-परिवृत्तौ विपरिवर्त्य
क्षुद्र-सुख-लव-साधन–राजस-तामस-शास्त्र-मुखेन
सन्तन्यमान-कर्म-पाश-प्रग्रथित-देवतान्तर-भक्तान् विधाय
तद्-वितीर्ण-क्षुद्र-पुरुषार्थैः कृतार्थाभिमानिनो व्यामोहयति ।+++(5)+++
उपासन-प्रवृत्तान् अपि
क्षुद्र-देवतोपासनेषु
सामान्य-चेतनोपासनेषु वा प्रवेश्य
क्षुद्र-फलैर् एव विफलयति ।+++(5)+++
आत्मोपासकान् अपि
प्रकृति-संसृष्टस्य स्वस्य ब्रह्म-दृष्टया +उपासने
स्वरूपेण उपासने वा प्रवेश्य
तान् एतान् चतुर्विधान् अल्पास्वादं स्वदयित्वा
पुनर् आवर्तयति ।
ब्रह्मात्मक-स्वात्मोपासक-प्रवृत्तान्
स्वात्म-शरीरक-ब्रह्मोपासन-प्रवृत्तांश् च
अन्तराय-भूतेन स्वात्मानुभवेन
अष्टैश्वर्य-सिद्ध्या वा
वस्व्-आदि-पद-प्राप्त्या वा
ब्रह्म-काय-निषेवणादिना वा
राज्याभिषेकार्थम् आनीयमानस्य राज-कुमारस्य
हस्तावलम्बन-दायिन्यां भुजिष्यायाम् अनुरागेण
गमन-विलम्ब इव
प्रारब्ध-कर्म-फल-भूत–देहेन्द्रियेषु
तद्-अनुबन्ध-परिग्रहेषु
तन्-मूल-भोगेषु वा अभिलाषेण
विलम्बम् उत्पाद्य
अन्य-परान् करोति।
सर्वे चैते सर्व-विशेषाधीन-तार-तम्यवन्तो ऽपि संसारिण एव ।
अथ कथं ब्रह्मोपासन-प्रवृत्तानाम् अपि
भगवत्-प्राप्ति-विरोधी स्याद् अयं निग्रहः?
कर्म-योगाप्रवृत्तानाम् अपि
अभिक्रमादि-नाश-विरहेण
फलावश्यं-भाव-स्मरणाद्
इति; अत्रोच्यते –
पुरुषाणां प्रारब्ध-कर्म +अतिविचित्रम्,
तेन कल्पान्तरे मन्व्-अन्तरे युगान्तरे जन्मान्तरे
कदा कस्य मोक्ष
इति न विज्ञायते।
अत्यन्तानुकूलानां वसिष्ठादीनाम् अपि
मोक्षे विलम्बोऽनुश्रूयते।
अत्यन्तं प्रतिकूलानाम् अपि
क्षत्र-बन्ध्व्-आदीनां क्षिप्रं मोक्षः सञ्जात
इत्य् अवधार्यते।
तस्माद्
विलम्ब-रहित–मोक्ष-हेतु-भूत–सुकृत-विशेषः कस्य,
विलम्ब-हेतु-भूतअ्–निग्रह-कारण–दुष्कृत-विशेषः कस्य
इति +एतद् अ-शक्यम् अवधारयितुम् ।
तस्माद् एवम् अनिष्ट-परम्परायाः निदान-भूतेन आज्ञाऽतिलङ्घनेन
सञ्जातस्य भगवन्-निग्रहस्य प्रधान-विरोधिनः परिहरणं
भगवच्-चरणारविन्दयोः शरण-वरणम् एवेति
समीचीनः सिद्धान्तः इति ॥+++(4)+++