०३ प्रधानप्रतितन्त्रः

प्रधान-प्रतितन्त्रो नाम
प्रधानो मुख्यः
इतर-सिद्धान्तिभिः अनङ्गीकृतः
स्व-सिद्धान्त-मात्र-सिद्धः अर्थविशेषः ।
स च जगद्-ईश्वरयोः शरीरात्म-भाव-सम्बन्धादिः ।+++(5)+++

ईश्वरस्य शरीरित्वं नाम
चेतनाचेतन-द्रव्यं प्रति
नियमेन धारकत्वं, नियन्तृत्वं, शेषित्वं च ।+++(5)+++
चेतनाचेतन-द्रव्यस्य शरीरित्वं तु
ईश्वर-निरूपितं धार्यत्वं नियाम्यत्वं शेषत्वं च ।

तत्र धारकत्वं
स्वरूपेण त्रि-विध-चेतनाचेतन–सत्ता-स्थिति-प्रवृत्ति-प्रयोजकत्वम्
तथा हि—
परमेश्वरः स्व–स्व-रूपक-धर्मान् इव
निरूपित–स्व-रूप–धर्मान् इव
स्व-व्यतिरिक्त-समस्त-द्रव्याणि
साक्षात् स्वरूपेण बिभ्रति,
तत्-तद्-द्रव्याश्रित-गुणांस् तु
तत्-तद्-द्वारेति ।

तत्-तज्-जीवैर् ध्रियमाणानि शरीराणि तु
तत्-तज्-जीव-द्वारा धरतीति
केचिद् आचार्याः।+++(4)+++
तत्-तज्-जीव-द्वारा साक्षाद् अपि च
इत्य्-अपरे।

एवं च स्व-व्यतिरिक्तं सर्वं वस्तु
स्व-स्वरूपं प्रति
पृथक्-सिद्ध-विशेषणम् इत्य्
अस्य सर्वस्यापि सत्ता-स्थिति-प्रवृत्तय
आश्रय+++(→ब्रह्म)+++-सत्ता-निर्वाह्याः ।

अथ नियन्तृत्वं
स्व-सङ्कल्पेन सर्व-वस्तु-सत्ता-स्थिति-प्रवृत्ति-प्रयोजकत्वम्
तथा हि-
अनित्यानां वस्तूनाम् अनित्येच्छोत्पन्नत्वं
नित्यानां नित्येच्छासिद्धत्वं च
सत्तायां सङ्कल्पाधीनत्वम्।

एवं सत्तानुवृत्ति-रूपा स्थितिः, प्रवृत्तिश् च
ईश्वर-सङ्कल्पाधीना एव ।
सर्वम् ईश्वर-सङ्कल्पाश्रितम्
ईश्वर-सङ्कल्प-विधृतम्
इति च कथयतां शास्त्राणां च
अत्रैव तात्पर्यम् ।

तर्हि सर्व-वस्तूनां सत्ता-स्थिति-प्रवृत्तिषु
सङ्कल्प-मात्रेण सम्पत्स्यमानासु सतीषु
किं स्व-रूपेणेति ?

उच्यते –
सङ्कल्पः सर्वाणि वस्तूनि
परमात्म-स्वरूपाश्रितानि करोति ।
तस्मात् सर्व-सत्ता-स्थिति-प्रवृत्तयः सङ्कल्पाधीनाः
स्वरूपाश्रिता
इति निष्कर्षः ।+++(4)+++

यथा – लोकेऽपि शरीरं
शरीरिणः स्वरूपाश्रितं सङ्कल्पाधीनं च पश्यामः ।
जीव-स्थितौ सत्यां शरीर-सत्ता,
जीव-स्थित्य्-अभावे शरीरानवस्थितिर्
इत्य् अन्वय-व्यतिरेकात् शरीरं स्व-रूपाश्रितम् ।

अयम् अर्थः सुषुप्त्य्-आद्य्-अवस्थासु सुस्पष्टं विज्ञायते ।
जाग्रद्-दशायां
सङ्कल्पेनाधःपतनम् अन्तरेणावस्थापन-संभवात्
सङ्कल्पाधीनम् इत्य् अपि ।
अत्र स्वरूपाश्रितत्वं वस्तूनाम् आधेयत्वं
सङ्कल्पाधीनत्वं नियाम्यत्वम्
इति विशेषः ।+++(4)+++

तथा परमेश्वरः
सर्वं पारार्थ्यैक-स्वभावं वस्तु-जातं
स्वप्रयोजनायैव उपादत्ते,
ततश् च अतिशयवान् भवतीति
सर्व-शेषीत्य् उच्यते,
तत्-प्रतियोगित्ववत् सर्वं वस्तु शेष-भूतम् इत्युच्यते ।

अनेन आधाराधेय-भावेन
अन्य-चेतनस्य भगवदीय-ज्ञान-शक्त्य्-आदेर् इव
अपृथक्-सिद्ध-स्वरूप-लाभः फलति ।+++(4)+++

शेष-शेषि-भावेन
+आत्माभिमानानुगुण-पुरुषार्थ-व्यवस्था-प्रकारेण
शेषत्व-स्वरूपानुरूपे शेषि-विषयक–शेष-भाव-रूपे पुरुषार्थे
अभिरुचिश् च फलति ।+++(4)+++

नियन्तृ-नियाम्य-भावेन तु
स्वरूपानुरूप-पुरुषार्थानुरूपस्य निरपेक्षस्य उपाय-विशेषस्य
अवगमश् च फलति ।+++(4)+++

एवं च +अयं चेतनः
अनन्याधारः, अनन्य-प्रयोजनः, अनन्य-शरणश् च
+इति सिद्धम् ।

अत्र शेषत्व-शेषित्वे चेतनाचेतन-साधारण-धर्मौ।
दासत्व-स्वामित्वे तयोर् विशेषौ, चेतनैकान्तौ।
तेषाम् अयं निष्कर्षः।

स्व-परम-प्रयोजन-भूत–पर-गतातिशयाधायकत्वं शेषत्वम्
स्व-परम-प्रयोजन-भूत–
स्व-प्रतिसन्धानार्ह–
पर-गतातिशयाधायकत्वं दासत्वम्
शेषत्वाभिमत–प्रयोज्य-प्रयोजन-भूतातिशय-भाक्त्वं शेषित्वम्
शेषित्वाभिमत–प्रयोज्य–परम-प्रयोजन-भूत–
स्व-पुरुषार्थातिशय-भाक्त्वं स्वामित्वम् इति ।

+++(लोके सोपाधिक शेषित्वं पत्युः पत्न्या अपेक्षया, सोपाधिक-नियन्तृत्वं भृत्यापेक्षया।)+++
अस्य चेतनस्य रक्षण-विषये
परमेश्वरः
निरुपाधिक-शेषित्वात् प्राप्तः,
निरुपाधिक-नियन्तृत्वाच् च शक्तः,
स्वयं तु निरुपाधिक-शेषत्वाद् अप्राप्तः,
निरुपाधिक-नियाम्यत्वात्
विना +ईश्वराधीन-प्रवृत्तिर्+++()+++ असमर्थश् च ।

लोके ऽपि
निरुपाधिक-स्वामी समर्थश् च
स्वीयस्य असमर्थस्य वस्तुनो रक्षणे
स्वतः प्राप्तः ।+++(5)+++

अथाप्य् असाव् ईश्वरः
कर्म-वश्यान् इमान् चेतनान्
कस्मिंश्चिद् उपाय-विशेषे
प्रवृत्तिम् उत्पाद्यैव रक्षतीति
स्व-सङ्कल्प-नियतं,
नातः सर्व-मुक्ति-प्रसङ्ग इति ।