अथ निरतिशय-परम-पुरुषार्थः, तद्-उपायश् च
प्रत्यक्षानुमानाभ्यां दुरधिगमः
शब्दैक-समधिगम्यश् च ।
तत्र च शब्द-संदोहे
बाह्य-कुदृष्टि-शास्त्र-समुदायः
अत्यन्तासारतया अनुपादेयः ।
वेदेऽपि पूर्वभागे ऐहिक-फल-साधनस्य कर्मणः प्रतिपादकोऽंशः
अल्प-सारतया अनुपादेयः ।
तत्रैव आमुष्मिक+++(=स्वर्ग)+++-फल-साधक-भागस् तु
ऐहिक-सुखाद् अतिशयितस्य सुखस्य अवबोधितया
केषाञ्चित् सारत्वेन प्रतीयमानोऽपि
दुःख-मूलत्व–दुःख-मिश्रत्व–दुःखोदर्कत्वादि-दोष–
दुष्ट-सुखावबोधितया अनुपादेय एव ।
उत्तरे भागे
स्वात्मानुभव-मात्र-साधन-प्रतिपादकांशः सारतरोऽपि
निरतिशय-परमात्मानुभवापेक्षिणाम् अनुपादेयः ।
तस्मात् परमात्म-प्राप्ति-तद्-उपायानां
प्रतिपादको ऽंश एव सारतमः
विवेकिनाम् उपादेयः।
तत्रापि रहस्य-त्रयम् इदं
सुतरां सारतमम् ।
तत्र प्रथम-रहस्यं स्वार्थ-विज्ञानेन सर्वार्थ-विज्ञान-संपादकतया,
द्वितीयं सकृद्-उच्चारण-मात्रेण कृत-कृत्यता-करण-प्रभाववत्तया,
तृतीयं पुनः-स्वेन विधीयमानस्यैवैकस्य उपायस्य
सर्वोपाय-फल-साधनत्व-व्यवस्थापकतया च
प्रधान-प्रतितन्त्र+++(=स्वीय-विशेष्ट-सिद्धान्तांश)+++-तत्त्व-हितानां संग्राहकम्।
इदं त्रयम् एव अत्यन्तम् आदरणीयम् ।