०१ उपोद्घातः

एवं परमाचार्य-भूतस्य सर्वेश्वरस्य श्रियः-पत्युः परमात्मनः
हृदयङ्-गमः पुत्रः शिष्यः प्रेष्यः शेषभूतो दासभूतश् च
+इत्य् एष जीवात्मा तत्-तच्छास्त्रैः स्फुटम् अवधार्यते ।

तथा

स्वाभाविक-शेषिणः
अखिल-हेय-प्रत्यनीक–कल्याण-गुण-गणस्य
+++(नित्य-लीला-विभूतीति-)+++उभय-विध-विभूति-नाथस्य
सर्वेश्वरस्य दिव्य-महिषी-परिजन-परिच्छदान्वितस्य
दिव्यलोके निरतिशयम् आनन्दम् अनुभवतः
एतादृशम् ऐश्वर्यवन्तम् आनन्द-रूपम् आत्मानम्
सर्वेऽपि जीवात्मानः सदा अनुभूय
कृतार्था भवेयुर्

इति सौहार्द-शालिनो भगवतः सर्व-देश–सर्व-काल–सर्वावस्थोचित–सर्व-विध–कैङ्कर्येषु
स्वरूप-योग्यतावत्तया नित्य-सूरिर् इव दाय-भाग्य् अपि
जीवात्मा ऽसौ
अनादि-मायया सुप्तः
मरु-कान्तारे परिभ्रमन्
तत्त्व-हित-विषयक–यथावत्-प्रकाश-रहितः
मृगया-सक्त–नृपति-कुल-परिभ्रष्ट–शबर-कुल-प्रविष्ट–राज-कुमारवत् +++(5)+++
स्वाभाविकं स्वस्वरूपं विस्मृत्य
औपाधिकं पर-स्वरूपम् आत्मनि आरोप्य बभ्राम

सत्याम् एवं स्थितौ
केचिद् धार्मिकाः
सद्-उपदेशानुष्ठानादिना
स्व–स्व-रूपानुगुण-वृत्तानि समुपदिश्य
स्वरूपानुरूपातिशयित-पुरुषार्थ-रुचिं
हेयोपादेय-विभाग-क्षमतां च सम्पादयन्ति अस्य जीवस्य,
राज-कुमार-लक्षणादिना जाति-विशेषं विजानन्तः कारुणिका इव राजकुमारस्य ।+++(5)+++

ततश् च +अस्य चेतनस्य
स्वाभाविकं भगवच्-छेषत्वं,
यादृच्छिकानुषङ्गिक-प्रासङ्गिकादि-सुकृत-विशेष-मूलकं सहज-करुणा-कटाक्ष-विषयत्त्वं,
धार्मिक-मूलकम् आस्तिक्यं,
हेयोपादेय-विभाग-क्षमत्त्वम्,
अद्वेषाभिमुख्यादिकं च
अनुरूपम् अवलोकयन्तः
परमकारुणिकेन परम-शेषिणा प्रेरिताः
कारुणिकोत्तमाः केचिद् आचार्याः
स्वाभाविकं भगवत्-सम्बन्धम् उपदिश्य
भगवत्-प्राप्त्य्-उपायाभिनिवेशम् उत्पाद्य
तदीयं प्रयोजनम् एव परमं स्वयं-प्रयोजनं मन्य-मानाः
सद्यः-समुत्पन्न-वत्सेषु धेनव इव स्निह्यमानाः
अ-ज्ञान-संशय-विपर्यय-निवर्तकानि दिव्य-सुभाषितान्य् उपदिशन्ति

ततस् तादृश-सुभाषितान्य् अवलम्ब्य
ईश्वरेशितव्ययोः स्वरूप-स्वभाव-सम्बन्धाः
भोगापवर्गयोश् च त्याज्योपादेयाः
स्वरूपोपाय–गति-प्रकाराः+++(=??)+++
उक्तानुक्त-विरोधिनश्+++(=??)+++ च
इत्य् एते अर्था अवश्यं ज्ञातव्या मुमुक्षुणा ।

त एते सर्वेप्य् अर्था
अध्यात्म-विषयक-शब्द-राशौ सारतमे
रहस्य-त्रये प्रति-तन्त्र-सारोद्धारेण सङ्गृह्यन्ते ।