०० गुरुपरम्परासारः

आदौ गुरुपरम्परासारः

अथातः श्रीमद्रहस्य-त्रय-सार-ब्रह्मविद्यां
संजिघृक्षामो विशिष्टैकार्थ्यसं-सिद्धये ।
ताम् एतां विद्यां ज्ञातुम् इच्छुः मुमुक्षुः
सद्-आचार्य-परम्पराम् अनुसन्दधीत ।

आचार्यवत् त्वम् एव हि
सर्वेषां मोक्षकारणम् ।
सा च आचार्यपरम्परा
स्वाचार्यम् आरभ्य
सर्वेश्वरम् अभिव्याप्नोति ।

स हि सर्वेश्वरः
सर्वेषां लोकानां परमाचार्यः ।
यतः खलु +असौ पुरा
सर्वान् अनुजिघृक्षुः
हंस-मत्स्य-हयग्रीव–नर-नारायण–गीताचार्याद्य्-अवतारैः साक्षात्
चतुर्मुख-सनक-सनत्कुमार-नारद-पराशर-वाल्मीकि-शुक-शौनकादिभिः परम्परया च
अध्यात्म-विद्याम् इमाम् अतिमहतीं प्रवर्तयामास ।

प्रतिष्ठापयामास च ताम् एताम् अविप्लवं
पराङ्कुश-परकाल-मधुरकवीश्वरमुनि-नाथमुनि-यामुनमुनि-रामानुजमुनि-प्रभृतिभिः आचार्यैः ।

तस्मात् प्रशस्ततमा +इयं विद्या
सदाचार्यैः सच्छिष्येभ्य एव उपदेष्टव्या ।

तेपि शिष्याः कृतज्ञतमाः सन्तः
ताम् एतां गुरुपरम्परां भजेरन्
सर्वदा अनुसन्दधीरन्श् च ।