अथ चरमश्लोकाधिकारः एवमनुष्ठेयस्योपायस्य अधिकारनैरपेक्ष्याद्यपेक्षितार्थ विशदीकारमुखेन विधायकं वाक्यं चरमश्लोकः । तत्र पूर्वोत्तरार्धाभ्यां शरणागतिमन्त्रपूर्वोत्तर खण्डयोर्विवरणमिति मन्तव्यम् । तत्र कर्मयोग ज्ञानयोग भक्तियोगान्मोक्ष साधनत्वेनोपदिश्य तदनधिकारितया शोचतः फल्गुनस्योपायान्तरमत्र विधीयते । ततस्सर्वधर्मपरित्यागशब्द उपायान्तरानधिकारं प्रतिपादयति । तदनधिकारश्च पञ्चदशविधः । उक्तंह्याचार्यैः - भक्त्यादौ शत्क्त्यभावः प्रमितिरहितता शास्त्रतःपर्युदासः कालक्षेपाक्षमत्वंत्विति नियतिवशादापतद्भिश्चतुर्भिः ।
एकद्वित्र्यांदियोगव्यतिभिदुरनिजाधिक्रियास्संश्रयन्ते सन्तश्श्रीशं स्वतन्त्रप्रपदनविधिना मुक्तये निर्विशङ्काः ॥
इति । अयमस्यार्थः । शक्तिः- ज्ञानं - शास्त्रापर्युदासत्वं कालक्षेपाक्षमत्वमिति चत्वारि परस्परसंवलितानि भक्तेरधिकारः । तेषां विपर्ययस्तु प्रपत्तेरधिकारः ।
सविपर्ययश्च एकैकनिवृर्त्या चतुर्धा । द्विकद्विकानिवृत्त्या षोढा त्रिकत्रिक निवृत्याचतुर्धा कृत्स्ननिवृत्याचैकश्चेति पञ्चदशविधः । शक्त्यादिमेळ्ननिषेधस्य सर्वत्राप्यविशिष्टत्वात् । ‘भक्त्यादौ शक्त्यभावः प्रमितिरहितता शास्त्रतःपर्युदासः कालक्षेपाक्षमत्वम्’ इत्यमीषामेकैकसद्भावे द्विकद्विकसद्भावे त्रिकत्रिकसद्भावे चतुर्णामपि सद्भावे प्रपत्यधिकारो भवतीत्युक्तम्भवति । एवं च दुष्करोपायान्तरानधिकारिणो मुमुक्षोस्सुकरोपायो विधीयतइत्यर्थः ॥
ननु कथं परित्यज्येति ल्यवन्तेसति अधिकारानुवादः । इत्थं समानकर्तृकयोः पूर्वकालइति समानकर्तृकत्वं पूर्वकालवर्तित्वं च ल्यबर्थः । नतु विधित्वमनुवाद्त्वंवा। तथाचसति ‘विधिस्तु धारणे अपूर्वत्वात्’ इति न्यायेन प्रतिपाद्यमानस्यार्थस्य प्रमाणान्तराप्राप्तत्वे विधित्व भवति, प्राप्तेत्वनुवादत्वमेव प्रदर्शयति । ‘अप्राप्तेहि शास्त्रमर्थवत्’ इतिहि न्यायविदः । एवंचोपायान्तरानधिकारिणस्तदनन्वयस्य प्रागेव प्राप्तत्वेनाधिकारिणोऽनुवादः क्रियतइति नविरोधः ।
अन्यथा-अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ।
त्रीन्लोकान् संपरिक्रम्य तमेव शरण गतः ।
लशुनं गृजनचैव भुत्क्त्वा चान्द्रायणचरेत् ।
इत्यादिषु ल्यबन्तप्रतिपाद्यस्य संसारप्राप्तयादेरपि विधेयत्वं स्यात् । तेनानधिकारमेव प्रदर्शयति । शक्तस्यचाशक्तस्य च त्यागविधानायोगादिति नीतिविदां निर्णयः तेन स्वरूपत्यागविधिपक्षो नाङ्गीकार्यः । प्रमाणाविरुद्धविशिष्टविधि पक्षप्रकारभेदाश्चानन्तरमेव उपपादयिष्यन्ते । अत्र सर्वधर्मशब्देन मोक्षोपाय तया विहितभक्तियोगाभिधानमिति प्रकरणादवगम्यते । अर्थप्रकरणादीनामर्थ निर्णायकत्वात् । तत्र धर्मानिति बहुवचनं सद्विद्या दहरविद्यादिभेदेन ब्रह्मविद्यानां बहुत्वप्रकाशनार्थम् । इह वसन्ताय कपिञ्जला नालभेत इतिवब्दहुवचनस्य त्रित्वे पर्यवसाने प्राप्ते अशेषाणां ब्रह्मविद्यानां धर्मशब्देन परिग्रहार्थं सर्वशब्दोऽपि विशेषणत्वेन प्रयुज्यते ॥
एवंचसति सर्वास्वपि ब्रह्मविद्यासु अनधिकारएव प्रपत्तेरधिकार इत्युक्तं भवति । यत्तु कैश्चिदुक्तं प्रपत्तौ विश्वासहीनानां भक्तावधिकार इति तन्न ।
प्रपत्तिशास्त्रोपदेष्टृणां व्यासादीनां भत्तत्यधिकारिणां प्रपत्यविश्वासाभावात् ।
अन्यथा कथं तद्वाक्यप्रामाण्यादस्माभिः प्रपत्तिरनुष्ठीयते । ’नरस्य बुद्धिदौर्बल्यादुपायान्तरमिष्यते’ इति वचनमशक्तानां प्रपन्नाधिकारिणामेव केषांचिदुर्बलबुद्धीनां भक्त्याशानिवृत्यर्थं निन्दावचनमिति नकश्चिद्दोषः । तेन स्वयं शक्ता व्यासाद्यो भक्तिमनुतिष्ठन्ति । अशक्तानस्मान् प्रपत्तिमनुष्ठापयन्तीत्यर्थः । परित्यज्येति त्यागशब्देन विद्यान्तरानधिकारो लक्ष्यतएव । शक्तस्यचा शक्तस्य च त्यागविधानायोगादित्युक्तम् । अत्र परीत्युपसर्गः कर्मज्ञानयोरपि भक्तियोगाङ्गभूतयोरनधिकारं द्योतयति । अतो वर्णाश्रमधर्मादीनां नपरित्याग प्रसङ्गः ॥
त्रिविधं हि कर्मानुष्ठानम् । स्वर्गाद्यर्थं ब्रह्मविद्यानिष्पत्यर्थं नित्यनैमित्तिकात्मकंचेति । उक्तं च सून्नकारैः ‘विहितत्वाच्ञ्चाश्रमकर्मापि ’ ’ सहकारित्वेन च’ इति । तत्र यथा मुमुक्ष्वधिकारिणां भक्तियोगनिष्ठा नामनुष्ठीयमानेष्वपि कर्मसु स्वर्गाद्यर्थता निवर्तते । एवमकिंचनाधिकारिणां कैङ्कर्यरूपतया यावत् शक्त्यनुष्ठीयमानेषु नित्यनैमित्तिककाम्येषु कर्मसु ‘सहकारित्वेनच’ इति सूत्र प्राप्तमेव विद्याङ्गत्वं निवर्तते । ‘विहितत्वात्’ इति सूत्रप्राप्तमाश्रमादिधर्मत्वंतु न निवर्ततएव । इयान्विशेषः-प्रपन्नाधिकारिभिरनुष्ठीयमाने कर्मणि भगवदाज्ञारूपतया केवलमकिञ्चनस्यैवाधिकारिणः स्वयम्प्रयोजनत्वेनानुष्ठीयत इति तेषामवश्यानुष्ठेयत्वम्। ‘मनीषीवैदिकाचारं मनसापि नलङ्घयेत्’ इतिसिद्धम्॥
अथवा सर्वधर्मशब्देनैव कर्मयोगादेरपि निवृत्तत्वात् परित्यज्येत्यत्र परि रुपायान्तरेषु नैराश्यं द्योतयति । अनेनानागतानन्तकालसमीक्षयाऽप्यदृष्टसन्तारोपायत्वरूपं आकिञ्चन्यमुक्तम्भवति । अतोऽयमनधिकारानुवाद इत्याद्योऽयमर्थः । अथवा नैरपेक्ष्यविशिष्टोऽयमुपायो विधीयते । तथाहि सद्विद्यादीनां कर्मयोगाद्यङ्गकत्वदर्शनात् ब्रह्मविद्यात्वसाधारण्यात् न्यासविद्यायामपि कर्मयोगाद्यङ्गकत्वमाशङ्कमानस्य तन्नैरपेक्ष्यविशिष्टशरणवरणं विधीयते ॥
यद्वा उपायान्तराशक्तस्यैवाधिकारिणः स्वाधिकार पुरस्कारात्मक कार्पण्य विशिष्टं शरणवरणं विधीयत इति विशिष्टविधिर्नविरुध्यते । किंचोपायान्तरसकृत्वादिभिः पञ्चभिर्हेतुभिस्सुकरोपाया विश्वासादुपायान्तरे प्रवर्तमानस्य दुर्बल बुद्धेः कस्यचिदधिकारिणः तत्प्रवृत्तिव्यतिरेकविशिष्टा शरणागतिर्विधीयत इति ।
एवंवात्र प्रवर्तमानोऽपि दुर्बलबुद्धिस्ततएवाविश्वासादुपायान्तरमभिवांछति ।
तस्याप्युपायान्तरप्रत्याशानिवृत्तिविशिष्टं शरणवरणं विधीयत इति ॥
अपिच यथाखलु भक्तेः प्रपत्तिसापेक्षत्वं एवं प्रपत्तेरपि भक्तियोगसापेक्षत्वं तद्ङ्गसापेक्षत्वं वाऽस्त्विति मत्वा प्रपत्यङ्गत्वेन भक्त्यादीन् स्वीकुर्वतःपुरुषस्य प्रपत्यङ्गत्वेन भक्त्यादिस्वीकारे पवनतनयबन्धनब्रह्मास्त्रन्यायेन प्रपत्तिरेव विगलेदिति विपक्षे बाधकप्रसङ्गेन तन्नैरपेक्ष्यविशिष्टं प्रपदनं संस्थाप्यतइति तत्राप्युपायान्तरसंसर्गासहत्वलक्षणं पूर्वविशेषणं शरणागतेरुपपद्यत इति विशिष्टविधित्वसिद्धिः ॥ तथाऽपि नस्वाङ्गनैरपेक्ष्यं प्रपत्तेः । अनुपकृतस्य करणत्वायोगात् । नस्वलु ब्रह्मास्त्रस्यापि रज्जुबन्धनादिनैरपेक्ष्ये सत्याप ब्रह्मास्त्रप्रयोग विध्युपस्थापित तद्ङ्गनैरपेक्ष्यमुपपद्यते । अन्यथा बन्धनकरणत्वायोगात् । उक्तं हि ‘नहि तत्करणं लोके वेदेवा किंचिदीदृशम्। इतिकर्तव्यतासाध्ये यस्यनानुग्रहेऽर्थिता’ इति । अभिहितंचैतत्सर्वमाचार्यैः-अतोऽशक्ताधिकारत्वमाकिञ्चन्यपुरस्क्रिया ।
अनङ्गभावो धर्माणामशक्यारम्भवारणम् ॥
तत्प्रत्याशाप्रशमनं ब्रह्मास्त्रन्यायसूचनम् ।
सर्वधर्मपरित्यागशब्दार्थास्साधुसम्मताः ॥
इति । अतः - ’ अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ।’ ‘त्रीन्लोकान् संपरिक्रम्य तमेव शरणंगतः ।’ इत्यादिवदकिंचनाधिकारिणः उपायान्तराभावमनूद्य शरणवरणं विधीयत इत्यनु वादपक्षः । तस्यैवाधिकारिणो नैरपेक्ष्यादिविशिष्टं प्रपदनं विधीयतइति विशि ष्टविधिपक्षः अतोद्वयोरपि पक्षयोर्निपुणं निरूपयतां नार्थविरोधः । उभयोरपि पक्षयोर्नित्यनैमित्तिकात्मनाऽनुष्ठीयमानस्य कर्मणो ब्रह्मविद्याशेषत्वेनास्वीकारात् वर्णाश्रमोचिततया भगवत्कैङ्कर्यरूपत्वेन स्वीकाराच्च । उक्तंचाचार्यैः - विशिष्टचानुवादेच पक्षयोरुभयोरपि ।
नस्वरूपपरित्यागः कर्तव्यानां च कर्मणाम् ॥
इति । इयान्विशेषः - विशिष्टविधिपक्षे विशेषणविशेष्ययोर्द्वयोरपि विधेयत्वम् ।
अनुवादपक्षे विशेष्यस्यैकस्येति अत्र उचितमर्थं स्वयमेव विदांकुर्वन्तु सन्तः ।
विधिविषये गौरवाल्लाघवमेव समुचितमिति मीमांसकाः । मामितिशरण्यगुण युक्तो भगवान् श्रियःपतिरभिधीयते । तेच गुणा नारायणशब्दव्याख्यानावसरे सौलभ्य सौशील्यादयः प्रागेव व्याख्याताः । एकशब्दस्यापि षोढार्थो वर्ण्यते ।
तदुक्तमाचार्यैःप्राप्यस्यैव प्रापकत्वं स्वप्राधान्यनिवारणम् ।
प्रपत्तेर्व्याजमात्रत्वमन्योपायैरनन्वयः ॥
तद्ङ्गैरप्यसम्बन्धस्सर्वसाध्येष्वभिन्नता ।
इत्थमर्थाष्षडाचार्यैरेकशब्दस्य दर्शिताः ॥
इति । एकशब्दस्त्वभिन्नं मुख्यं केवलं साधारणचार्थं प्रतिपादयति । अत्र एक शब्दस्याभेदवाचित्वे प्राप्यप्रापकयोरैक्यं प्रसिध्यति । प्राप्यतया प्रापकतयाचैकमेवस्थितं मामित्यर्थः । स्वर्गादिषु पुरुषार्थषु फलसाधनयोर्भिन्नत्वादत्रापि भिन्नत्वमाशङ्कय निवार्यते । उक्तं च लौकिकैरपि -’ सस्वेनैव फलप्रदःफलमपि स्वेनैव नारायणः’ इति साध्योपाय साध्यप्राप्ययोरत्रापि भेदोऽस्त्येव । भक्ति प्रपत्त्योस्साध्योपायत्वादनुभवकैङ्कर्ययोः साध्यप्राप्यत्वाच्च । अतस्सिद्धोपायरूपो भगवान् स्वयमेव सिद्धप्राप्य इत्येकशब्देनाभिधीयते । एकशब्दस्य मुख्यवाचित्वे प्रपत्तिकर्तुश्चेतनस्याप्राधान्यं द्योत्यते । तत्कर्तृत्वस्यापि परमात्माधीनत्वात् । उक्तं च सूत्रकारैः ‘कर्ता शास्त्रार्थवत्त्वात् ’ ‘परात्तु तच्छ्रुतेः’ इति ॥
अथवा मुख्यत्ववाचिना तेनैवैकशब्देन प्रपत्तेर्व्याजमात्रत्वं द्योत्यते ।
नखलु लिकुचफलप्रदानमीफ्सितराज्यप्राप्तये पर्याप्तम् । इदंकिलास्मदीयंपद्यम्चिदचिदधिपतीनां चिन्तनाचक्रवर्ती परमपुरुषसेवा नित्यसांराज्यलक्ष्मीम् ।
परिकलयति भक्त्यायोगिनां सार्वभौमप्रभृतिभिरविशेषं नम्रमात्रेण मूर्ध्ना ॥
इति । यद्वा कैवल्यमनेनैकशब्देन बोध्यते केवलं भक्तियोगनिरपेक्षमित्यर्थः ।
तेनैव न्यायेन भक्तियोगांग कर्मज्ञानापेक्षा विधुरत्वमापे विधीयते ॥
एतदुक्तं भवति प्रपन्नादन्यस्य न कदाचिदाप भगवान् मोक्षं प्रयच्छति प्रपन्नश्च द्विविधः । अङ्गप्रपत्तिनिष्ठस्स्वतन्त्रप्रपत्तिनिष्ठश्चेति । अङ्गप्रपत्तिनि ष्ठस्य भक्तियोगादिनिष्ठायुक्तो भगवान् मोक्षं प्रयच्छति । स्वतन्त्रप्रपत्तिनिष्ठस्य तु उपायान्तरस्थाने स्वस्थाने च स्वयमेवोपतिष्ठमानः फलं प्रयच्छति । इदमेवोपायान्तरस्थानापत्तिरिति निरपेक्षोपायत्वमिति च कथ्यते । अयमेव न्यासविद्यायां वेद्याकारः । ननु सर्वधर्मपरित्यागवचनेऽपि नैरपेक्ष्यमुक्तम् ।
अत्रापि कथं नैरपेक्ष्यमभिधीयते । अत्र कैश्चिदाचार्येनैरपेक्ष्यपरिग्रहः । अत्राव्यपरैराचार्यैरिति योजनाभेदान्नपौनरुक्त्यादिदोषः ॥
अथवा तत्र शरणं ब्रजेति विहितस्य साध्योपायस्य नैरपेक्ष्य विहितम् अत्रतु सिद्धोपायस्य परस्य ब्रह्मण इति विशेषः । तथाऽपि प्रपत्त्याऽपि नैरपेक्ष्यं सिद्धोपायस्य भगवतइति न मन्तव्यम् । शरणं व्रजेति विधानस्यैवायोगात् ।
इदमेवहि नैरपेक्ष्यं प्रामाणिकैरभिधीयते यत्स्वतन्त्रसहकारिनैरपेक्ष्यं तथा नप्रति पत्तिनैरपेक्ष्यं प्रामाणिकैरभिधीयत । किंतु स्वतन्त्रसकारिनिरपेक्षत्वम् । स्वाधी नसहकारिसापेक्षत्वंतु भगवतो भाष्यकारादिभिरभिधीयतएव । अन्यथा ईश्वरत्वस्यैव परित्यागप्रसङ्गः । नखल्वीशितव्यमन्तरेणेश्वरत्वं सम्भवति । अतः प्रपत्तिप्रसादितस्यैवेश्वरस्य मोक्षप्रदत्वं तन्नैरपेक्ष्यभञ्जकमित्यविचारकाणां वचनम् । अतः प्रपत्तिव्यतिरिक्तभक्तियोगादि नैरपेक्ष्यमत्रैकशब्देन विवक्ष्यतइति निर्णयः । प्रपत्तिस्वरूपमपि भगवदायत्तमिति नतत्सापेक्षतादिदोषः । तेन भगवानेव साक्षान्मोक्षसाधनम् । इतरत्तत्प्रसादनं तदपिच तदङ्गादिकं च तदधीनमिति ॥ एकशब्दस्य साधारणवाचित्वेऽपि भगवतस्सकलफलप्रदत्वं प्रतीयते ।
एकं सर्वेष्वपि फलेषु प्रदातृत्वेन साधारणं मामित्यर्थः । ’ एकेमुख्यान्यकेवलाः ’ इत्येकशब्दस्यान्यपर्यायत्वेन वैलक्षण्यवाचकत्वे ब्रह्मणि श्रीनिवास इतिवच्छियःपतित्वलक्षणं वैलक्षण्यं प्रकाश्यतइत्याहुराचार्याः । तेन श्रीमन्नारायणशब्दार्थोऽपि सिध्यति । शरणशब्दः पूर्ववद्व्याख्येयः । व्रजेति गत्यर्था बुध्यर्था इति न्यायेन विश्वासप्रार्थनापूर्वकमात्मरक्षा भरन्यासं प्रतिपादयति । एवं वाक्यार्थः उपायान्तराशक्त्यादियुक्तः त्वं मामेकं शरणं व्रजेति ॥
अथवा कर्मयोगादीनंगत्वेनास्वकृित्य मामेकं शरणं व्रजेति । यतु वर्णाश्रमधर्मादि स्वरूपत्यागं सर्वधर्मपरित्यागशब्दार्थं वर्णयान्त तेषां श्रुतिविरोधान्न्यायाविरोधात्प्रपत्तिप्रतिपादक तत्तदद्ध्यायविरोधात्संप्रदायविरोधाच्च यथेच्छा चारश्रद्धेव मूलमिति सन्तो न बहुमन्यन्ते । उक्तंहि प्रपत्त्यध्यायेप्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः ।
मनीषी वैदिकाचारं मनसाऽपि नलङ्घयेत् ॥
यथाहि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम् ।
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम् ॥
लङ्गयन् शूलमारोहेदनपेक्षोऽपितां प्रति ।
एवं विलङ्घयन् मतर्यो मर्यादां वेदनिर्मिताम् ॥
प्रियोऽपि नप्रियोमेऽसौ मदाज्ञाव्यतिवर्तनात् ।
इति । अत्रच सकृत्कृतश्शास्त्रार्थ इतिन्यायेन प्रपदनानुष्ठानस्य स्वतःप्राप्तं सकृत् कर्तव्यत्वं ‘आवृत्तिरसकृदुपदेशात्’ इत्युक्तब्रह्मविद्यात्वसाधारण्यादपोदितमपि ‘सकृदेवहि शास्त्रार्थः कृतोऽयं तारयेन्नरम् ।’ इत्यादिभिर्वाक्यैरुत्त भ्यते । इदमेवहि सकृत्वमभिप्रेत्य शरणागतिमन्त्रेऽपि प्रपद्यइति वर्तमाननिर्देशः प्रपदनस्य तत्कालमात्रसम्बन्धएवहि तत्र कर्ता वर्तमानत्वेन व्यपदिश्यते ।
एवंविधस्यापि शरणवरणस्योपादानवेलायां तत्रतत्र शरणागतिस्सम्बन्धज्ञानमात्रं, अधिकारिविशेषणमात्रम्, सिद्धोपायप्रतिपत्तिमात्रम् अनिवारणमात्रम्, अनुमतिमात्रम् अचिव्द्यावृत्तिमात्रं चेतस्समाधानमात्रं चैतन्यकृत्यमित्यादिकं यदभिधीयते प्रपत्तिशास्त्रनिष्ठैः कैश्चिद्विद्वद्भिस्तत्सर्वं विधेयभूत भरन्यासात्मक प्रपत्त्यनुष्ठानान्तर्गत तत्तदर्थप्रकाशनाभिप्रायेणेति तात्पर्यान्तरकल्पनया परिहर्तव्यम् ॥
तथाहि अस्ति खलु भगवति भरं न्यस्यतः शेषत्वज्ञानं तदेवखलु सम्ब न्धज्ञानमिति तैरभिधीयते । तच्च श्रवणादेव सिद्धमधिकारोपायफलदशास्वनुवर्तते च । तस्मिन्प्रपत्तित्वव्यवहारो राजान्तरङ्गपुरुषे राजत्वव्यवहारवदिति न विरोधः । एवमर्थान्तरेष्वपि स्वयमेवोहनीयम् । तेषां स्वरूपमेव प्रदर्शयामः ।
अधिकारिविशेषणं स्वर्गकामइतिवत्फलाकाङ्क्षा सिद्धोपायप्रतिपत्तिरीश्वरः सिद्धो पायइतिनिश्चयः । अनिवारणं संरक्षतो भगवतः प्रातिकूल्यवर्जमपराधाननुष्ठानमित्यर्थः । तच्च प्रपत्त्यङ्गमेव प्रातिकूल्यवर्जनात्मकत्वात् । अनुमतिः स्वयमेव रक्षणे प्रवर्तमानस्य तत्प्रीतिसंधुक्षणं तद्भरन्यासात्मकं च एतत्प्रपत्तिरेव । नचे त्तदविनाभूतं यत्किंचिदङ्गं भवतु तथाऽपि च न दोषः । चित्तसमाधानं भगवति स्वीकृतभरे निर्भरत्वानुसन्धानेन समाहितचित्तत्वं तच्च प्रपत्तिफलमेव चैतन्यकृत्यं स्वयं ज्ञातृत्वात्स्वज्ञानानुगुणस्वोचितकृत्यानुष्ठानम् । अन्यथा संम्बन्धज्ञानाद्यङ्गीकारेण भरन्यासरूप प्रपत्तिस्वरूपनिराकरणे बहुप्रमाणविरोधः सत्सम्प्रदायविरोधः, विधिवैयर्थ्यं मूलमन्त्राद्यर्थविभागविरोधो न्यायविरोधञ्च प्रसज्येत ॥
एवमचिद्व्यावृत्तिमात्रमित्यादि शब्दानामर्थो निर्वाह्यः । नैतेह्यर्थास्साक्षात्प्रपत्तिस्वरूपम् । तथाऽपिप्रपत्त्यनुष्ठातॄणां सम्भवति । एतावतैतेषु प्रपत्ति व्यवहार इति न सङ्कटं किंचित् । औपचारिकव्यवहारस्य सर्वत्र सुलभत्वात् ।
तथाच ‘न्यासइति ब्रह्म’ इत्यादिकमपि सिद्धोपायप्राधान्येन ब्रह्मणि प्रतिपत्त्यर्थमौपचारिकमेव । नखलु सिद्धसाध्योपाययोः स्वरूपैक्यं सम्भवति ॥
एवं पूर्वार्धेन प्रपत्यनुष्ठानं विधाय न्यस्तभरमधिकारिणमुत्तरार्धेन सर्व पापमोक्षणरूप तत्फलोपदेशपूर्वकं निश्शोकयति । अहमित्यादिना । अहं सर्व पापमोक्षणोपयुक्तज्ञानशक्त्यादिसामर्थ्ययुक्तः । त्वां न्यस्तभरतया निर्भरं त्वां सर्वपापेभ्यो मोक्षयिष्यामि । अयं खलु सर्वपापमोक्षणप्रकारस्स्वयमेवाचार्यैः स्पष्टमभिहितः - प्रारब्धेतरपूर्वपापमखिलं प्रामादिकंचोत्तरम् न्यासेन क्षपयन्ननभ्युपगतप्रारब्धखण्डं च नः ।
धीपूर्वोत्तर पाप्मनामजननाज्जातेऽपि तन्निष्कृतेः कौटिल्येसति शिक्षयाप्यनघयन् कृोडीकरोति प्रभुः ॥
अयमर्थः द्विविधं खलु पापम् । पूर्वाघमुत्तर। घंचेति । पूर्वाचं च द्विविधम् ।
प्रारब्धमप्रारब्धंचेति । अनुमतमननुमतंचेति । उत्तराघं च द्विविधम् । बुद्धि पूर्वकमबुद्धिपूर्वकंचेति । बुद्धिपूर्वकं च द्विविधम् । कृतप्रायश्चित्तमकृतप्राय श्चित्तंचेति । तत्र प्रारब्धव्यतिरिक्तं पूर्वाधमबुद्धिपूर्वमुत्तराचं च विद्यारम्भसमये भक्तिनिष्ठस्य निवर्तते । तत्र पूर्वाघस्य विनाशः उत्तराधस्याश्लेषः । प्रपत्तिनिष्ठस्यतु अप्रारब्धपूर्वाघनिवृत्तिवत् प्रारब्धपूर्वा घेऽप्यननुमतांशो निवर्तते ।
उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ।
साध्यभक्तिस्तु साहन्त्री प्रारब्धस्यापि भूयसी ॥
इति वचनात् । उपायभूता भक्तिर्यस्यास्सा उपायभक्तिः । साध्या भक्तिर्ययेति साध्यभक्तिः । अयमर्थः प्रपत्तिह्युपायान्तरभूतां भक्ति स्वयमङ्गभूतासती प्रसाधयति । फलभूतांतु भक्तिं स्वातन्त्र्येण स्वयमेव साधयति । प्रारब्धं तु दुरितं नाशयति । अतो भक्तेः प्रपर्त्तिभूयसीति । अतएवैतद्देहावसानएव माक्षः । आर्तदृप्तविभागोऽप्यनेन न्यायेन सिद्धः ॥
येखलु शरणागतिमन्त्रोच्चारणमेव प्रस्थानशङ्खनादीकृत्य परमपद प्राप्नु वन्ति तएवखल्वार्ताः । येतु देहावसानविलम्बं सहन्ते ते दृप्ता इति विभागः ।
उत्तराघेष्वबुद्धिपूर्वांशो भक्तिनिष्ठस्येव प्रपत्तिनिष्ठस्यापि न श्लिष्यते । विवेकिनस्तु प्रपन्नाः बुद्धिपूर्वकमुत्तराघमेव नारभन्ते । मध्यमाः पुनःप्रारब्धं पापं यथाधिकारं प्रायश्चित्तेन परिहरन्ति । तत्रापि तत्तत्पापानुरूपप्रायश्चित्तेषु शक्तौ सत्यां तान्येवानुतिष्ठन्ति । तदभावे तु पुनःप्रपत्तिरेव प्रायश्चित्तं भवति ।
अन्यथाऽतिप्रसङ्गात् । ’ अनन्यसाध्ये स्वाभीष्टे’ इति वचनविरोधाच्चेति । इदमेव अभिप्रेत्योक्तं प्रपत्तिविधानशास्त्रअपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत् ।
प्रायश्चित्तिरियं साऽत्र यत्पुनश्शरणं व्रजेत् ॥
इति । अत्रेतिपदं प्रतिपदोक्तप्रायश्चित्तासामर्थ्य परामृशति । असामर्थ्यस्य तत्रतत्र नियतत्वात् । नचैतावता पुनः प्रपत्तिविरोधः । संसारमोक्षणार्थत्वात्पूर्व प्रपत्तेस्तादात्विकभगवद्पचारोपशमनार्थत्वात् उत्तरप्रपत्तेः । एकफलत्वे हि पुनःप्रपत्तिदोषः । ये तावदस्मदादिवत्कठिनप्रकृतयो भगवदपचारानाप बुद्धिपूर्वान् लेशतोऽनुतिष्ठंति, नच प्रायश्चित्तं चरन्ति । तेषामविधेयपुत्रादीनां पित्रा द्यपराधइव हितैषिणा भगवतैव लघुदण्डप्रदानेनापचारनिवारणं क्रियते । उक्तं चाचायैःविवेकिनां प्रपन्नानां धीपूर्वागस्यनुद्यमः ।
मध्यानामनुतापादिरिशक्षा कठिनचेतसाम् ॥
इति । नखलु राजपुत्राणां राजापराधेऽपि भृत्यवद्दण्डकरणम् । ‘लघुर्दण्डः प्रपन्नस्य राजपुत्रापराधवत् ।’ इतिचाभिधीयते । ‘नखलु भागवतायमविपयं गच्छन्ति । इहैवैषां केचिदुपप्लवा भवन्ति कञ्जा भवन्ति काणा भवन्ति अविधेयपुत्रा भवन्ति’ इत्यादि च श्रूयते । ‘परिहरमधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां नवैष्णवानाम् ।’ इत्यादिच प्रसिद्धं यमवचनम् । ‘भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया ।’ इत्यत्रापि यमवचनं श्रूयते । अतः कृतकृत्यस्याधिकारिणः केनाप्युपायेन सर्वपापमोक्षणं कृत्वा मनोरथसुलभेन वैकुण्ठवैमानिकोन्नीतेन महारथेन स्वात्मानं प्रापय्य सर्वदेश सर्वकालाद्यनुगुण कैक्ङ्कर्य साम्राज्यं प्रयच्छति भगवान् श्रियःपतिरिति सर्वं सुलभम् । अनिष्टनिवृत्तेरिष्टप्राप्तिपर्यवसायित्वात् । ‘मामेवैष्यसि’ इति पूर्वोक्तत्वाच्च । ‘माशुचः ’ पूर्वं भवतश्शोकः पुनरधिकारान्तरनिवेशाद्गुणकोटिमाटीकते । इदानीं सर्वज्ञे परमकारुणिके सत्यसङ्कल्पे मयि स्वीकृतभरे पुनश्शोचासचेदनाभज्ञकृत्यमेवापाद्येतेति भावः ॥
अत्रापि शरणागतिमन्त्रवदमूनि त्रीण्यवान्तरवाक्यान्येकवाक्यतां भजंते ।
अयमर्थः उपायान्तरानधिकृतस्त्वं सर्वसुलभत्व सत्यसङ्कल्पत्व सर्वफलप्रत्ब करुणादिपरिकर्मितं मामेकमेव शरणमध्यवस्यानुकूल्यसङ्कल्पादिपारकरपञ्चकोपेतमात्मरक्षाभरन्यासं कुरु । सर्वशक्तिपरमकारुणिकत्वादिगुणोपेतोऽहं न्यस्त भरं ‘त्वां सर्वपापेभ्यो मोक्षयिष्यामि’ स्वीकृतभरे मयि जाग्रति त्वंतु निस्संशयस्सुखमास्वेति । तथाचायमत्र विध्यर्यः । सर्वपापनिवृत्तिपूर्वकपरमात्मप्रा प्तिकामोऽकिंचनस्तमेव भगवन्तं शरणमुपगच्छेदिति ॥
नच भाष्यकारैरेतस्य वाक्यस्यांगप्रपत्तिपरत्वेन योजनायाः कृतत्वा न्न स्वतन्त्रप्रपत्तिपरत्वमिति भ्रमितव्यम् । अयंखलु भाष्यकाराणामभिप्रायः ।
यथाखलु भगवान् सकलफलप्रदस्तत्रतत्र जोघुष्यते तद्वत्प्रपत्तिरपि सकलफल प्रदायिनी - अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।
तदेकोपायता याच्ना प्रपत्तिश्शरणागतिः ॥
इति वचनात् । तथाचायमर्थस्सम्पन्नो भवति । प्रपत्तेस्सकलफलप्रदत्वादङ्गत्वेन निवेशे भक्तियोगादीनपि साधयितुं शक्नोतीति भाष्यकारैरभिधीयते ॥
एवं च सति भक्तियोगाद्यनुष्ठानविरोधिप्राचीनपापतरणकामस्य कृच्छ्रचान्द्रयणादि तदुचितोपायान्तराभावेन तत्स्थाननिविष्टा प्रपत्तिर्यथा भक्तियोगादीन् सम्पादयति । एवं सर्वपापतरणकामस्य तदुचितोपायान्तराभावेन तत्स्थाननिविष्टा प्रपत्तिस्स्वतन्त्रासती सर्वपापमोक्षणं करिष्यतीति भाष्यकाराणां हृदयम्। ‘यो ब्रह्माणं विदधाति पूर्वं योवैवेदांश्च प्रहिणोतितस्मै तग्ँहदेवमात्म बुद्धिप्रकाशं मुमुक्षुर्वैशरणमहं प्रपद्ये’ इति श्रुतावेव साक्षान्मोक्षसाधनतया प्रपत्तिविधानात्तदुपबृंहणत्वाच्चरमश्लोकस्य । एतत्सर्वमभिप्रेत्योक्तमाचायैःसुदुष्करेण शोचेद्यो येनयेनेष्टहेतुना ।
ससतस्याहमेवेति चरमश्लोकसङ्ग्रहः ॥
इति। विशिष्टानुवादौ च तैरेव प्रकटितौ ।
अधिकारं पुरस्कृत्योपायस्य निरपेक्षताम् ।
एकशब्देन वक्तीति केचिद्वाक्यविदो विदुः ॥ इति ।
नैरपेक्ष्यं पुरस्कृत्य विहितस्य लघीयसः ।
उपायस्याधिकारन्तु शोकद्योत्यं विदुःपरः ॥
इति । द्वयमत्र प्रकाश्यम् । आकिंचन्यं नैरपेक्ष्यंचेति । अत्र तावदेके खल्वाचार्यास्सर्वधर्मपरित्यागशब्देन आकिंचन्यरूपमधिकारमनूद्य मामेकमित्येकशब्देन नैरपेक्ष्यं प्रकाश्यतइत्याचक्षते । अन्येतु सर्वधर्मपरित्यागवचनेनैव शरणवरणस्य विशेषणत्वेन नैरपेक्ष्यमभिधेयम् । ‘माशुच’ इति वचनेन उपायान्तरानधिकारनिमित्त शोकप्रतिक्षेपवचनात्तदेवाकिंचन्यमधिकारतया द्योत्यते इति कथयन्ति । उभयेषामाचार्याणामाकिंचन्यं नैरपेक्ष्यमप्यनुमतमिति नकश्चिदर्थविरोधः । केवलं वाक्ययोजनायामेव भेदः ॥
नित्यनैमित्तिकं कर्म स्वतन्त्राज्ञानुपालनात् ।
प्रपन्नानान्तु कर्तव्यमिति वेदान्तनिर्णयः ॥
शरणागतिनिष्ठाहि परमैकान्तिनो मताः ।
तेषां कैङ्कर्यरूपेण कर्तव्यं कर्म निर्मलम् ॥
इत्येवं भाष्यकारैश्च तच्छिष्यैरपि देशिकैः ।
सत्सम्प्रदायनियमस्तत्तन्नित्येषु वण्येते ॥
इत्थं प्रमाणाविरोधेन द्वयोरपि पक्षयोरर्थान्तरसम्भवे कैश्चिदाधुनिकैस्सर्वधर्मस्वरूपत्यागरूपार्थान्तरकल्पना प्रमाणविरोधात्प्राक्तनाचार्यग्रन्थविरोधात् आसे तुहिमाचलं श्रीमद्रामानुजाचार्य सिद्धान्तानुष्ठानविरोधात् ‘श्रुतिस्मृत्युदितम् ’ इति स्वाचार्यवचनविरोधात्प्रपत्त्यध्यायएव ‘अविप्लवाय धर्माणाम्’ इत्यारभ्य ’ मनीषी वैदिकाचारं मनसाऽपि न लङ्घयेत्’ इति विश्वजगन्मातुर्विष्णुपत्न्या वचनविरोधाच्च प्रामाणिकानां चेतसि न चमत्कारमाविष्करोतीत्येषा दिक् ॥
इत्थं यावच्छरीरपातं निरपराधकैङ्कर्यपराणां परमैकान्तिनामनितरसुलभेन देवयानेन परमपदं प्राप्य ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति श्रुत्युक्तक्रमेण यथावस्थितस्वरूपाविर्भावपूर्वका संकुचितब्रह्मानुभवेन तत्पूर्वकेण सर्वदेश सर्वकाल सर्वावस्थोचित सर्वविधकैङ्कर्यलाभेनच नित्यमेवावस्थानमिति ‘इमान्लोकान्’ इत्यादिश्रुतिः प्रातिष्ठिपत् ॥
यत्तु कैश्चिदुच्यते । ज्ञानयोगनिष्ठः केवलोऽप्यर्चिरादिमार्गेण परमपदं प्राप्य भगवन्तं दृष्ट्वा भगवद्नुभववैमुख्येन स्वात्मानमेवानुभवन् परित्यक्तपत्नीवत् कोणे कुत्रचिदास्त इति तत्सूत्रभाष्यादिद्विरुद्धत्वात् बहुप्रमाणविरोधाद्युक्ति विरोधाच्च नास्माभिरनुमन्यते । ‘श्रुतोपनिषत्कगत्यभिधानाच्च’ इत्यस्मिन्सूत्रे ब्रह्मविदामेवार्चिरादिगमनपूर्वकं ब्रह्मप्राप्तिरित्युपपादितम् । दहराविद्यायामापि प्रजा पतिवाक्ये जीवपरब्रह्मप्राप्तिरूपं फलनिर्देशो जीवानुसन्धानस्य ब्रह्मविद्याशेषत्वेनैवेति भाष्यकारैरभ्यधायि । तद्यथा ब्रह्मविद्याफलत्वेन उपसंहृतमिति तेन ज्ञानयोगस्य ब्रह्मविद्याङ्गत्वे अर्चिरादिमार्गेण परमपदप्राप्तयादिकमस्ति । कर्म ज्ञानयोरङ्गिफलेनैवाङ्गानां फलवत्त्वम् । स्वातन्त्र्ये पुनः प्रकृतिमण्डलएव यत्रकुत्राप्यवस्थाने जीवात्मानुभवः फलम् । तदेवोच्यते भगवता पराशरेणापि - ’ योगिनामृतं स्थानं स्वात्मसन्तोषकारिणाम् ।’ इति । अत्र स्थानस्यामृतत्व वचनं चिरकालावस्थानपरम् ॥
अथवा जीवस्वरूपनित्यत्वपरम् । तदातु स्थानमिति च स्वरूपमेवोच्यते । ब्रह्मविद्यायामेवार्चिरादिमार्गेण परमपदप्राप्तिरित्येतदपि तेनैव पराशरेण विशदमुक्तम् ।
एकान्तिनस्सदा ब्रह्म ध्यायिनो योगिनो हि ये ।
तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः ॥
इति । उपायदशायां रामानुजमितिवद्ब्रह्मशरीरभूतस्वात्मानुसन्धायिनो लक्ष्मणपूर्वजमिति स्वात्मशरीरकपरमात्मानुसन्धायिनो वा ब्रह्मध्यायिनएव फलदशायांत्वसंकुचितब्रह्मज्ञानरूपत्वात् सदा ब्रह्मानुभवसिद्धिः । पूर्वोक्तस्य केवलस्य तु नेति विभागः । तस्यापि तत्फलांते ‘सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक्’ इति च्यवनधर्मत्वमुच्यते ॥
तथा च पूर्वकर्मविशेषात्पुनर्विषयानुभवोऽपि न सम्भवतीति च्यवनधर्मत्वं युज्यते । भागधेयपरिपाकविशेषवशात् पुनर्भगवदुपासनमस्तिचेत्फलतयाऽर्चिरादिना भगवत्प्राप्तिरिति तत्त्वविदां निर्णयः । तावता तस्याप्यपुनरावर्तिवचनं युज्यतां नाम कोदोषः, तेन पुराणेषु तद्व्याख्यानेष्वाचार्यग्रन्थेषु ज्ञानयोगनिष्ठस्यार्चिरादिगमनानिषेधो यद्यस्ति तत्तु भक्तियोगद्वारेणैवेति निर्णेतव्यम् ।
न पुनर्भक्तियोगानङ्गभूतज्ञानयोगनिष्ठस्य साक्षाद्भगवत्प्राप्तिरर्चिरादिगमनं च भवति युक्तिविरोधस्तु परमपदं गत्वा भगवन्तं विहाय स्वात्मानमेवानुभवतीति कैश्चिदभिधीयमानः किं सर्वकर्मविनिर्मुक्तः, उत कर्मवशएव वा-अन्त्ये संसा र्येव भवति नतु मुक्तः । सर्वधर्मविनिर्मुक्तत्वे पुनः स्वाभाविकस्य असंकुचित ब्रह्मानुभवस्य सङ्कोचाभावाद्ब्रह्मानुभवविच्छेदएव न स्यात् । स्वाच्छन्द्यादेव परब्रह्मानुभवं मुक्तत्वाऽवतिष्ठते केवलइति हास्यमेतत् ॥
सर्वकर्मविनिर्मुक्तस्य परब्रह्मानुभवविच्छेदरूपमहानर्थप्रवृत्त्यसम्भवात् ईश्वरएकएव तस्मिन्विषये निगृह्णाति तेन तद्नुभवविच्छेदइति दुर्वचम् । ईश्वरो निष्कारणमेव कुत्रचिन्निगृह्णातिचेत् तस्य निर्हेतुकनिग्रहस्स्यात् । सतु महान्दोषः सकारणंचेत्कर्मैवहि कारणं तन्निवृत्तमेवेति प्रागेवोक्तम् ॥
तदेकदेशानुवर्तने मुक्तिरेव नभवेदित्यादिदोषसहस्रेण दुष्टमेव । तस्माद्यः परमैकान्ती भक्तिप्रपत्त्योरन्यतरोपायेन भगवन्तं प्रसाद्यावतिष्ठते सएव हि सिद्धोपायनिष्ठः सचार्चिरादिमार्गेण परमपदं प्राप्नोति, भगवन्तं प्राप्य भगवद्नुसारिभिः कैङ्कर्यकलापैस्सर्वतो विलसतीति समञ्जसमेतत् ॥
विमलमतिविशेषाद्वीक्ष्यहेयान् पुमर्थान् स्थिरविनिहितबुद्धिर्यस्तु कैवल्यमुक्तः ।
पुनरपि च भवेत्सा संसृतिस्तस्य काले हरिभजनविपाकान्मुक्तिरेवाथवास्यात् ॥
वरुणनिलयकन्या वल्लभस्यैव पादे शरणवरणवाणी तत्पराणां नराणाम् ।
चरणमनितराणां निर्मलं निर्मलानाम् शरणमिहपरत्राप्यन्वहं सम्प्रतीमः ॥
तस्माद्भवन्तमनवद्यमनन्तपारं सर्वज्ञमीश्वरमखण्डमकुण्ठधिष्ण्यम् ।
निर्वाणधीरहमिव वृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये ॥
श्रीमत्त्रय्यन्तसिद्धान्त देशिकेन्द्रस्य सूनुना ।
रहस्यत्रयसारार्थो वरदार्येण वर्णितः ॥
इति विश्वामित्रकुलोद्भूतेन निखिलकवितार्किकचूडामणिना सर्वतन्त्रस्वतन्त्रेण श्रीमद्वरदनाथापरनाम्ना कुमारवेदान्ताचार्येण विरचिते श्रीमद्रहस्यत्रयसारार्थसंग्रहे चरमश्लोकाधिकारस्तृतीयः