०२ द्वयाधिकारः

श्रीमते निगमान्तमहागुरवे नमः अथ द्वयाधिकारः शरणागतिमन्त्रस्य व्याख्या प्रारभ्यतेऽधुना ।
विश्वामित्रकुलोद्भूत वरदार्येण धीमता ॥
इत्थं श्रीमदष्टाक्षरेण शिक्षितस्वस्वरूपस्याधिकारिणः कर्तव्यमुपायम् अनु ष्ठेयार्थप्रकाशनमुखेन विशदीकुर्वन् सिद्धोपायभूतस्य भगवत उपायोपेयाव स्थयोः उपयुक्तविशेषणभूत सहधर्मचारिणीसम्बन्धमपि प्रख्यापयन् शरणागति मन्त्रः sन्त्रार्थविशदीकरणाय व्याख्यायते । एतस्य मन्त्रस्य मूलमन्त्र व्याख्यानरूपत्वमर्थस्वभावात् भगवच्छास्त्रे मूलमन्त्रानुबन्धी शरणागतिमन्त्र इत्युपपादनाच्च अवगम्यते । अयं च मन्त्रः पूर्वोत्तरखण्डाभ्यामुपायोपेयात्मकार्थद्वयप्रकाशकत्वात् द्वयमित्याचार्यैरभिधीयते । अस्य च माहात्म्यं भगव च्छास्त्रे विस्तरेणानुसन्धेयम् ॥ तत्र श्रीशब्देन - शृणाति निखिलान् दोषान् श्रीणाति च गुणैर्जगत् ।
श्रीयतेचाखिलैनित्यं श्रयते च परम्पदम् ॥
इत्यादिप्रमाणबलादाश्रितदोषान्निवारयन्ती, तद्रुणांश्च परिपक्वयन्ती पुरुषकार त्वेन तैराश्रीयमाणा तत्संरक्षणार्थं तमेव भगवन्तमाश्रित्य स्वयमपि सहधर्म चारिणीभवन्ती लक्ष्मीरभिधीयते । शृणोति श्रावयतीति च श्रीशब्दार्थो निरु च्यते । आश्रिताना मार्तनादं स्वयमपि श्रुत्वा तत्संरक्षणार्थं तमेव भगवन्तं श्रावयन्तीत्यर्थः । अत्रोपायभूतस्य भगवतो विशेषणत्वेन पूर्वमपि पुरुषकारभू ताया लक्ष्म्याः स्वीकारे नोपायद्वित्वप्रसङ्गः । विशेषणविशेष्ययोस्स्वरूपभेदेऽपि विशिष्टस्यैकत्वात् । विशेष्यस्यैव प्रधानत्वाच्च ॥
यथाखलूत्तरखण्डे लक्ष्म्या विशेषणत्वस्वीकारेऽपि नोपेयद्वित्वमिति भवन्तोऽप्यनुमन्यन्ते । तद्वत्पूर्वखण्डेऽपि नोपायद्वित्वम् । अत्र मतुपा नित्य योगादिकमभिधीयते । नखलु सर्षपमात्रेणापि भगवत्स्वरूपस्य कदाचिदपि कुत्रापि सहधर्मचारिणीवैधुर्यं प्रमाणपदवीमधिरोहति ॥
अतएव निश्रीकब्रह्मवा‌निरासः । ब्रह्मणः श्रीनिवासत्वेनैवहि परस्य ब्रह्मणः स्वरूपविशेषप्रतिपत्तिः भाष्यकारैरेव निर्णीता । ‘यथा सर्वगतो विष्णु तथैवेयं द्विजोत्तम’ ’ विष्णोरेषाऽनपायिनी ’ ’ अनन्या राघवेणाहं भास्करेण प्रभा यथा ’ ’ त्वयाच विष्णुनाचाम्ब जगद्व्याप्तं चराचरम् ’ ’ शान्तानन्तमहाविभूतिपरमं यद्ब्रह्मरूपम्’ इत्यादिकं प्रमाणशतमनुसन्धेयम् ॥
नारशब्देन समाश्रितसंरक्षणोपयुक्तगुणाः प्रख्याप्यन्ते । तेच कारुण्य स्वामित्व सौशील्य वात्सल्य सौलभ्यज्ञानशक्त्यादयः । तेषांच गुणानां नार शब्दवाच्यत्वम् । नरशब्दवाच्येन भगवता सम्बन्धात् तेषामयनं तदाधारइत्यर्थः । कृस्त्नस्यापि प्रपञ्चस्य नारशब्दवाच्यत्वेसत्यपि तावन्मात्रोपादानं रक्ष णौपयिकगुणतयेति मन्तव्यम् ॥
तेषां स्वरूपं प्रदश्र्यते । स्वार्थनिरपेक्षा परदुःखनिराचिकीर्षा दया ।
येतु परदुःखदुःखित्वं दयेति वर्णयन्ति तन्मते निखिलहेयप्रत्यनीकतया निरूपितस्वरूपस्य भगवतोः दुःखप्रसङ्गाभावेन दयास्वरूपमवोच्छिद्यते । ‘व्यस नेषु मनुष्याणां भृशं भवति दुःखितः’ इत्यादिकं समाश्रितानां स्वस्मिन्ननुराग विशेषसिद्धये दुःखित्वाभिनयमात्रमेवेति सर्वाचार्याणां निर्वाह इति प्राचीनमेव दयालक्षणं भाष्यकाराभिमतमिति मन्तव्यम् ॥
दयाऽन्येषां दुःखाप्रसहनं ‘दया परव्यसनहा ’ इत्यादिकमत्रैव संवादः स्वामित्वं, सर्वशेषित्वम् । तच्च प्रागेवोक्तम् । सौशील्यं महतो मन्दैस्सह नीरप्रसंश्लेषः । वात्सल्यं समाश्रितविषये दोषार्शित्वम् । उक्तंहि ‘यतो दोषं भक्तेष्विहवरदनैवाकलयसि’ इति । सर्वज्ञस्य भगवतो दोषादर्शनवचनं तद्दर्शनस्यापि तन्निवारणोपयुक्तत्वज्ञापनार्थमिति न कश्चिद्विरोधः ॥
येत्वाश्रितदोषभोग्यत्वं भगवतो वात्सल्यमिति लक्षणमभिदधते तेषां भग वदपचार भागवतापचारासह्यापचाराणामुत्तरोत्तरं प्रवर्तनाभिसन्धिरेव तादृश व्यवहारकारणमिति मूर्खपरिगृहीतोऽयं वादः । तस्माद्भगवद्भागवताचार्यापचार भीरुरेव भागवतलक्षणपरिपूर्तिमानिति मन्तव्यम् । तस्माद्बुद्धिपूर्वापचारः परि हर्तव्यएव प्रपन्नाधिकारिभिः । तेन केषांचिद्दोषभोग्यत्ववचनं भागवतविषये भगवत्स्नेहातिशयप्रदर्शनार्थम् । अबुद्धिपूर्वापचारविषयत्वेतु तदश्लेषस्य सौत्र त्वात् यथाकथं चिदभिधीयताम् । सौलभ्यमाबालगोपालं प्रसिद्धम् । ज्ञान शक्त्यादयोऽपि प्रसिद्धाएव । अत्र कश्चिदाह यदि भगवत्कृपायास्स्वाभाविकत्वं कथमस्य संसारानुत्रवृत्तिः । परदुःखनिराचिकीर्षारूपत्वात्तस्याः यदिचौ पाधिकत्वं कथं निर्हेतुकत्वं तस्याः भावत्कैरुद्घुष्यत इति । अत्र वदामः । नहि वयं तस्यास्सर्वदा निर्हेतुकत्वं ब्रूमः । नापि सहेतुकत्वम् । अपित्वाकारभेदेन निर्हेतुक सहेतुकपक्षसमुच्चयन सर्वमप्यर्थमुपपादयामः ॥
तथाहि - नित्यसिद्धायास्तस्याहेत्वपेक्षायां नित्यत्वस्यैव व्याघातात् सामान्यतःपरदुःखनिराचिकीर्षा (रूपिणी) भगवत्कृपा तावन्निर्हेतुका । तथाऽ।
तस्याः कार्योत्पादनानुकूलस्संस्तवस्सहेतुकः । यथा खलु सर्वकार्यहेतोर्भगवतो नित्यत्वेऽपि तत्सहकारिसमवधानक्रमेण कार्योत्पादनक्रमस्सङ्घटते । एवं नित्या रूपा भगवत्कृपा स्वयमवसरं वीक्षमाणा स्वाधीनसहकारिसमवधानेन स रक्षतीति मन्तव्यम् । उक्तंचाचार्यैरेव-मुकुन्दकरुणां वन्दे मुग्धेष्वधिकवत्सलाम् ।
स्वरूपसंस्तवौ यस्या निर्हेतुकसहेतुकौ ॥
इति। अयमर्थः भगवत्कृपा तावन्नित्यसिद्धा । ‘अमुमहमिदानीं संरक्षाणि ‘इति सङ्कल्पविशेषरूपा कादाचित्कदया कारणविशेषमपेक्षते । तच्च कारणं भगवत्सङ्कल्पान्तरायत्तम् । सच सङ्कल्पस्तेनैव कादाचित्कत्वेन कारणविशेषमपेक्षत इ अनादिरयं प्रवाहस्सर्वैराप सैद्धान्तिकैरपर्यनुयोज्यः। अतएव वैषम्यनैर्घृण्यादिकं परिह्रियते ॥
एवं भगवत्कृपास्वरूपस्य नित्यसिद्धत्वान्न हेत्वन्तरापेक्षेति निर्हेतुकत्वम तस्याएव कृपायाः प्रवृत्तिविशेषकार्यत्वात्कारणविशेषमपेक्षत इति प्रवृत्तिवि शेषापेक्षया सहेतुकत्वं कादाचित्कत्वांन्त्तस्य हेतुवैधुर्ये तदेव कादाचित्कत्वं व्याहन्येत । स्वभाववादपरिग्रहेतु सर्वशास्त्रव्याकोपः सार्वत्रिको व्याघातश्च प्रसज्येत । अतः कृपायास्स्वरूपे निर्हेतुकत्वम् । संस्तवेतु सहेतुकत्वम् । अ यैव दिशा परस्परविरुद्धवद्वभासमानानां प्रमाणवचसां प्रामाणिकाचार्यवच सांच अविरोधःप्रतिपत्तव्य इति । अत्र चरणशब्देन दासस्य स्वामिविषये चरणग्रहणमेव समुचितमिति प्रकाश्यते । नखलु राजभृत्या राजानं करग्रहणेन स्वाभिलषितार्थ प्रार्थयन्ते । अनतिलङ्घनीयं हि विशेषेण चरणग्रहणमित्यर्थोऽत्र भावनीयः । तथा च “नजातुमातुश्चरणौ जिहासति” इति यामुनाचार्यैरभिहितम् ॥
किंच मातुर्हृद्यावयवान्तरेषु सत्स्वपि स्तनन्धयस्य पुत्रस्य स्तनयोरुपजीव्यत्वम् । एवं शरणागतस्य भगवच्चरणारविन्द‌योरेव भोग्यत्वमिति इममर्थं प्रकाशयति चरणशब्दः । श्रूयतेहि ‘विष्णोः पदे परमे मध्वउत्सः’ इति । अत्र चरणशब्देन उपायत्वमभिधीयते उपाये गृहरक्षित्रोश्शब्दरशरणमित्ययम् ।
वर्तते साम्प्रतंत्वेष उपायार्थैकवाचकः ॥
इति वचनात् । अत्र चरणयोरुपायत्वाभिधानं चरणविशिष्टस्य भगवत उपायत्वे पर्यवस्यतीति अयंच न्यायः उपायविशेषणतयोपादीयमानेषु गुणेष्वपि तुल्य इति मन्तव्यमन्तेवासिभिः । अतोऽत्रापि नोपायद्वित्वप्रसङ्गः । अत्र नित्यान्वयि विशेषणम् । कादाचित्वमुपलक्षणम् । यथा ‘प्रकृष्टप्रकाशश्चन्द्रः ’ ‘काकवद्देवदत्तस्य गृहम्’ इति, तेनात्र श्रीमच्छब्दाद्द्युपात्तानामर्थानां विशेषणत्वमेव सर्वेषां तेषां कार्यान्वयित्वात् । प्रपद्यइति महाविश्वासोऽभिधीयते । प्रशब्देन प्रकर्षाभिधानात् ‘पदल्गतौ’ इति धातोर्गत्यर्था बुध्यर्था इति न्यायेन बुद्धेरभिधानात् बुद्धेश्चाध्यवसायरूपतया विश्वासपर्यवसानाच्च ॥
एतदुक्तम्भवति । भगवच्चरणारविन्द‌युगलं शरणमध्यवस्य प्रार्थनापूर्वकं भरं न्यस्यामीति न्यासस्यापि बुद्धिरूपत्वात्प्रपद्य इति न्यास एवात्राभिधीयते ।
केवलं विश्वासाभिधानमात्रे ‘न्यासःपञ्चाङ्गसंयुतः ’ ’ आत्मात्मीयभरन्यासो ह्यात्मनिक्षेपउच्यते’ तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः’ इत्यादिप्रमाणानन्वयः प्रसज्येत । ‘विश्वासो द्वयार्थः’ इत्याचार्यवचनस्यापि भरन्यासपर्यन्त विश्वासे तात्पर्यम् । अन्यथा ‘तवभरोऽहमकारिषिधार्मिकैरशरणमित्यपि वाचमुदैरिरम्’ इत्यादिवचनं विरुध्येत ॥
एवं च प्रपद्यइति शब्दः प्रकृष्टज्ञानरूपं भरन्यासमेव प्राधान्येन प्रकाशयतीति केचित् । तथा च स्वेनवा स्वाचार्येणवा स्वरक्षणविषयभरन्यासः कर्तव्यइत्युक्तं भवति । उत्तमपुरुषेण प्रपदनकर्तृपुरुषविशेषाभिधानात् अधिकाररूपमाकिञ्चन्य तत्प्रकाशात्मकं कार्पण्याभिधानमङ्गं च प्रतिपाद्यते । अतः प्रातिकूल्यवचनम् आनुकूल्यसङ्कल्पञ्च श्रीशब्देन प्रतीयते । महाविश्वासस्सोपसर्गधातौ तत्रैवार्थाच्छब्दाद्वा गोप्तृत्ववरणं भरन्यासश्च सिध्यति । गोप्तृत्ववरण भरन्यासयोरपि प्रकृष्टबुद्धिविशेषरूपत्वात् । उत्तमपुरुषे कार्पण्यमाकिञ्चन्यंच ‘नधर्मनिष्ठ’ इत्यादियामुनाचार्यवचनेन तस्यैव विवरणात् । अतः पूर्वखण्डे साधिकारसाङ्गप्रपदनसिद्धिः । अत्र च श्रीमन्नारायणशब्दाभ्यां शङ्कापंचक हेतवः पंचापि प्रतिक्षिप्यन्ते । तदुक्तमाचार्यैःकर्तव्यं सकृदेव हन्त कलुषं सर्वं ततो नश्यति ब्रह्मेशादिसुदुर्लभं प‌दमपि प्राप्यं मया द्रागिति ।
विश्वासप्रतिबन्धिचिन्तनमिदं पर्यस्यति न्यस्यताम् रङ्गाधीशरमापतित्वसुभगं नारायणत्वं तव ॥
इति । श्रियःपतित्वसंवलितैर्भगवद्रुणैश्शङ्का हेतवो निरस्यन्त इत्यर्थः ॥
तथाहि भगवतः परमकारुणिकत्वात्प्रपदनोपायस्य सकृत्त्वं नदोषाय ।
स्वार्थनिरपेक्षपरदु ख निराचिकीर्षाहि कृपेत्यभ्यधायि । स्वामित्वात्स्वशेषभू तानस्मान् स्वयमेव संरक्षितुमर्हति । सुशीलत्वादस्मन्मान्यं नालोकयति ।
महतो मन्दैस्सह नीरन्ध्रसंश्लेषोहि सौशील्यमितिचोक्तम् । वत्सलत्वादस्मद्दो षमाप नपश्यति । स्वतस्सर्वज्ञस्य भगवतो दोषानवलोकनवचनं तदवलोक.नं तन्निवारणायैव भवतीति ज्ञापनार्थमिति च पूर्वमेवोक्तम् । आश्रितविषये सुलभत्वाद्दुर्लभत्वमपि नास्ति । दृश्यतेहि अतिदूरमभक्तानां भक्तानां पुरत स्स्थितम्’ इति । एवमौदार्यसर्वज्ञत्वादीनामपि गुणानामुपयोगो द्रष्टव्यः एतेच सर्वेगुणाः श्रियः पतित्वेनोत्तभ्यमानाः समाश्रितसंरक्षणाय प्रभवन्तीत्यर्थ एवं पूर्वखण्डे त्रीणि पदान्यनुसन्धेयानि ।
श्रीमन्नारायणस्वामिन्ननन्यशरणस्तव ।
चरणो शरणयातस्तवैवास्म्यहमच्युत ॥
इति द्वयविवरणरूपभगवच्छास्त्रवाक्यानुरोधेन श्रीमन्नारायणशब्द‌योस्सम्बुध्य न्तत्वमाश्रित्य तवेति पद्मध्याहृत्य च केचिन्निर्वहन्ति । अर्थतत्त्वंतु सर्वत्राप्ये कमेव । पूर्वखण्डे सपरिकरमुपाय प्रतिपाद्य उत्तरखण्डेन तत्फलमभिधीयते तत्रापि श्रीमच्छब्दार्थः पूर्ववव्द्याख्येयः । नारायणशब्देन गुणविग्रहविभूत्यादि विशिष्टं परं ब्रह्म प्रतिपाद्यते । कृत्स्नस्यापि भगवद्विभूतिभूतस्य चेतना चेतनात्म कप्रपञ्चस्य तद्विशेषणत्वेन भोग्यत्वान्नरसम्बन्धितया नारशब्दवाच्यत्वाच्च । यथा खलु पित्तोपहतस्य तिक्ततया भातं क्षीरं तदपगमे मधुरमेव प्रतिभाति । तथा कर्मवशात्प्रागन्यथाप्रतिपन्नं विश्वं तन्निवृत्तौ भगवद्विभूतित्वे सुखायैव भवतीति किन्नाम न योयुज्यते ॥
अतएव खलु असंकुचितब्रह्मानुभवो मोक्ष इत्यभिधीयते । अत्रापि श्रीमन्नारायणपदस्थया चतुर्थ्याऽपि शेषत्वपुरस्कारेण कैङ्कर्यमेव प्रतिपाद्यते ।
नम इति ममकारनिषेधेन फलदशायां स्वाधीनकर्तृत्वं, स्वार्थकर्तृत्वं स्वाधीनभो क्तृत्वं स्वार्थभोक्तृत्वं चेतिविरोधिचतुष्टयं निषिध्यते । अयं च निषेधस्स्वर्गादिन्यायेनात्रापि तादृशदोषमाशङ्कमानंप्रति बोधनायेति न कश्चिद्विरोध इति प्रागेवोक्तम् । नखलु मोक्षदशायामेतादृशदोषाः प्रतिबुद्धैराशङ्कितुमपि शक्यन्ते कथं तर्हि भक्तानामस्थानभयशङ्कादिकं ज्ञानकार्यादिकमभिधीयते ॥
मैव नहि तत्र साक्षाद्भयादस्थानभयशङ्कोच्यते । अपित्वस्थानभयशङ्कि नामाप्ततमानां किङ्कराणां स्वामिविषये यादृशः प्रेमातिशयः तादृशप्रेमातिशयो मुक्तानां भगवद्विषयइत्यतो जयजयेत्यादिवचनं किङ्करवृत्तिमात्रविषयमेवेति न कश्चिद्विरोधः । तस्मादुत्तरखण्डस्याध्याहृत निरपराधवैङ्ककर्यलाभो वाक्यार्थः ।
भगव (द्गुणानु) दनुभवश्च तदन्तर्गतएव । भगवद्गुणानुभवजनितत्वात्कैङ्कर्यसंतानस्य । अत्र पूर्वखण्डे एकं वाक्यम् ॥
उत्तरखण्डेतु आविस्युरित्या ध्याहृत क्रियान्वित नारायणशब्द‌निष्ठचतुर्थीपर्यन्तमन्यद्वाक्य कैङ्कर्यस्य प्रार्थनारूपत्वात् । नमइति तृतीयवाक्यं मम किंचिन्नस्यात् नापि निरपेक्षकर्तृत्वं कुत्रापि नममेत्यर्थः । एषां त्रयाणांवाक्याना मेकवाक्यत्वे श्रीमन्नारायणचरणयोः सर्वदेश सर्वकाल सर्वावस्थोचितसर्वविध निरपराध कैङ्कर्यप्राप्तयर्थं श्रीमन्नारायणचरणावुपायत्वेनाध्यवस्य प्रार्थनापूर्वकमातरक्षाभर समर्पयामीति योजना । अत्रेयमनुष्ठानप्रक्रिया स्वानुष्ठानमुखेनाचार्यैः सुनिपुणमुपपादिसंसारावर्तवेगप्रशमनशुभकृत् (दृग्) देशिकप्रेक्षितोऽहं संत्यक्तोऽन्यैरुपायैरनुचितचरितेष्वद्यशान्ताभिसन्धिः ।
निश्शङ्कस्तत्त्वदृष्ट्या निरुपाधिकदयं प्राप्य (थ्ये) संरक्षकन्त्वां न्यस्य त्वत्पादपदो वरदनिजभरं निर्भरो निर्भयोऽस्मि ॥
इति । अत्रापि मूलमन्त्रवत्तत्वत्रयानुसन्धानमर्थपञ्चकानुसन्धानं च स्वयमेव कर्तव्यमन्तेवासिभिः । सिद्धसाध्योपायविभागश्च पूर्वमेवोक्तत्वादत्र न विधी यते । अत्र ‘मूलमन्त्रे जानत्वा द्वयेन संवर्ध्य द्वयैकनिष्ठो भवेत्’ इत्यादीनि पूर्वाचार्यग्रन्थेषु वचनान्यनुसन्धेयानि । ‘द्रयमर्थानुसन्धानेनसह सदैव वक्ता यावच्छरीरपातमत्रैव श्रीरङ्गे सुखमास्व’ इतीदं फलपर्यवसानभूमि निगमयतीति गद्योक्तं निगद्यते । अन्यत्सर्वमाचार्यग्रन्थेषु तत्रतत्र विस्तरेण द्रष्टव्यमिति सर्वं समञ्जसम् ॥
लक्ष्म्या नित्यसमन्वितं गुणगणैर्जुष्टं च देहान्वितम् देवं सिद्धमुपायमाह पुरतस्साध्य प्रपद्येपदात् ।
मन्त्रोऽयं मधुसूदनप्रणयिनीयुक्तं पुनःख्यापयन् अन्ते भोगहृदन्तरे मम सदा स्वत्त्वं न किंकुर्वतः ॥
शरणवरणवाणी तत्पराणां नराणां करणविलयकाले कल्पनाकल्पशाखी ।
फलति फलमशेषं पद्मया विश्वधात्र्या चलितभुजलताभ्यां चारु संश्लिष्यमाणः ॥
शरणागतिमन्त्रस्य संग्रहादर्थनिर्णयः ।
व्यधायि वरदार्येण वेदान्ताचार्यसूनुना ॥

इति विश्वामित्रकुलोद्भूतेन निखिलकवितार्किकचूडामणिना सर्वतन्त्रस्वतन्त्रेण श्रीमद्वरदनाथापरनाम्ना कुमारवेदान्ताचार्येण विरचिते श्रीमद्रहस्यत्रयसारार्थसंग्रहे द्वयाधिकारोद्वितीयः श्रीमतेनिगमान्तमहागुरवेनमः