पद्मानायक पादपद्मयुगले पर्यायभृंगात्मना चेतोमे चिरपक्षपातविभवादास्वादमासीदतु ।
अध्यात्म श्रुतिदुग्धसिन्धुलहरी संचारसम्भावितैः हंसश्रीरधिगम्यते सुकृतिभिर्यत्रोल्लसद्बुद्धिभिः ॥
श्रीमद्वरदनाथेन वेदान्ताचार्यसूनुना ।
रहस्यत्रयसारार्थसंग्रहोऽयं प्रकाश्यते ॥
सदाचार्यकटाक्षेण शरणागतस्य रहस्यत्रयार्थो नित्यभोग्य इति सत्वोत्त राणां सम्प्रदायः - रहस्यत्रयमिति श्रीमदष्टाक्षरो द्वयं चरमश्लोकश्च कथ्यते तत्र श्रीमदृष्टाक्षरेण स्वस्वरूप परस्वरूपादिविज्ञानं प्राधान्येन क्रियते । तेन प्रतिबुद्धस्याधिकारिणः शरणागतिमन्त्रेण शरणागत्यनुष्ठानप्रकारः प्रकाश्यतेअनेन मन्त्रेणानुष्ठेयस्य प्रपदनस्यापेक्षिताधिकारनैरपेक्ष्यादीनर्थान् विशदमेव प्रकाशयन् सर्वपापमोक्षणपूर्वक भगवत्प्राप्तिरूप पुरुषार्थोपायभूतां शरणागति कर्तव्यत्वेनविधाय न्यस्तभरमधिकारिणं निश्शोकयति चरमश्लोकः ॥
अत्र प्रथमरहस्यं पदत्रयात्मकं, द्वितीयं तु, पदषट्करूपं तृतीयं पुनर्द्धादशपद्युक्तमित्युत्तरोत्तरं पदद्वैगुण्यं द्रष्टव्यम् । अत्र त्रयाणां व्याख्येयव्याख्यानभावेन मिथोऽन्वयः प्रसिध्यति । तत्र श्रीमदष्टाक्षरस्य शेषशेषिसर्वतत्त्व कण्ठोक्त्या ‘न मन्त्रोष्टाक्षरात्परः’ इत्यादिप्रमाणसहस्रेणचाचार्यैर्विशेषतः संग्नहः क्रियते । इतरव्यापकमन्त्राभ्यामेतस्य मन्त्रस्यातिशयेनार्थविशेष प्रतिपा दकत्वमन्त्रार्थप्रकाशनेनैव ज्ञाप्यते । विष्णुगायत्रयामप्येतन्मन्त्राक्षरस्य प्रथमोपादानमेतत्प्रभावातिशयद्योतनार्थमिति मन्तव्यम् ॥
अयं च मन्त्रः यदा प्रणवेन साकमष्टाक्षरो भवति तदास्य वैदिकत्वं त्रैवर्णिकाधिकारत्वं च भवति । यदा प्रणवरहितत्वं तदा तान्त्रिकत्वं सर्वव र्णाधिकारत्वं च । तच्चोक्तम् - वैदिकं ब्राह्मणानां स्याद्राज्ञां वैदिकतान्त्रिकम् ।
तान्त्रिकं वैश्यशूद्राणां सर्वेषां तान्त्रिकन्तु वा ॥
इति । इदं वचनं प्रायिकं ब्राह्मणप्राशस्त्यपरं शूद्राणां वैदिकानधिकारपरं च वैश्यस्यापि वैदिकेऽप्यधिकारात् । अन्यच्चाप्यत्रन स्वरःप्रणवोङ्गानि नाप्यन्यविधयस्तथा ।
स्त्रीणांतु शूद्रजातीनां मन्त्रमात्रोक्तिरिष्यते ॥
इत्यादिवचनमनुसन्धेयम् । इयं चात्र स्वरव्यवस्था ।
षष्ठाद्ययोरुदात्तस्स्यात्स्वरितोन्त्यद्वितीययोः ।
प्रचयस्त्रिचतुर्थाभ्यां निहितं पञ्चमाक्षरम् ॥
उदात्तस्वर ओंकारः - इति । कथं तर्हि प्रणववैधुर्ये मन्त्रस्याष्टाक्षरत्वं भवति । उच्यतेतत्रोत्तरायणस्यादिर्बिन्दुमान्विष्णुरन्ततः ।
बीजमष्टाक्षरस्यस्यात्तेनाष्टाक्षरता भवेत् ॥
इति । इदं वचनं प्रणववैधुर्येऽप्यष्टाक्षरत्वमुपपादयतीत्यस्यार्थउपदेशादेवाव गम्यत इति विविच्य लिख्यते । यदात्वयं मन्त्रः प्रणवचतुर्थीविधुरः तदा प्रति लोमानामप्यधिकारो भवति । दृश्यते हिनमो नारायणेत्युक्त्वा श्वपाकः पुनरागमत् ।
इति वराहपुराणवचनं तदा संकीर्तनमात्रत्वमेवेति न कश्चिद्विरोधः । अयं च मन्त्रः पदत्रयात्मक इति श्रुतिरेव विभज्य दर्शयति- ओमित्येकाक्षरं, नम इति द्वे अश्ररे, नारायणायेति पञ्चाक्षराणि’ इत्येवमादिका । तत्र प्रथमपदं अक्षरत्रयात्मकम् । अकारोकारमकारभेदात् । तत्र अकारस्सर्वकारणभूतं सर्व रक्षकं सर्वशेषिणं श्रियःपतिमाह । तथा हिसमस्तशब्दमूलत्वादकारस्य स्वभावतः ।
समस्तवाच्यमूलत्वाद्ब्रह्मणोऽपि स्वभावतः ॥
वाच्यवाचकसम्बन्धस्तयोरर्थात्प्रतीयते ।
इति । इदं वचनं सर्वशब्दकारणभूतोऽकारस्सर्ववाचककारणभूतं परमात्मान माहेति वदति । अकारस्य सर्वशब्दकारणत्वं सर्ववेदमूलभूतप्रणवप्रकृतित्वात् ।
श्रूयते हि ‘योवेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परस्समहेश्वरः’ इति । अत्र प्रणवप्रकृतिरकारः । तथा च अकारप्रकृतिकवादकारविशिष्टस्य प्रणवस्य यःपरः यो वाच्यतया प्रधानः स महेश्वरः सनारायण इत्यर्थः । ‘अकारो विष्णुवाचकः’ इति नियमात् । ‘अइति भगवता नारायणस्य प्रथमाभिधानमभिद्धता किंनाम मङ्गलं नकृतम्’ इति शाब्दिकिरभिधानाच्च । ‘अक्षराणामकारोऽस्मि’ इति भगवद्वचनाच्च । कथं तर्हि महेश्वरशब्दः प्रयुज्यते ? महानीश्वरो महेश्वर इति श्रियःपतेरेवाभिधानमिति न विरोधः । अतएव ‘तमीश्वराणां परमं महेश्वरं, तंदैवतानां परमं च दैवतम्’ इति जगत्कारणत्वेन सम्प्रतिपन्ननारायणपरतया तत्रतत्र महेश्वरशब्दः युज्यते ॥
एवंचसति इतरेषां तन्नामधारणात्तद्रुणलेशयोगित्वात्तच्छेषत्वाच्चेति सर्वमुपन्नमेव । ‘अकारोवै सर्वा वाक्’ इत्यादीन्यपि वचनानि अकारस्य सर्व शब्दमूलत्वमाहुः । तेन भगवतस्सर्वकारणत्वसिद्धिः ॥
ननु कथं नित्यानामीश्वरः कारणम् ? इत्थम् । अनित्यास्तावत् अनित्येच्छयोत्पन्नाः नित्यास्तावत् अनित्येच्छया सिद्धा इति तत्तद्धर्मिग्राहकप्रमाणैरेवावगम्यते तदुक्तमभियुक्तैःइच्छातएव तव विश्वपदार्थसत्ता नित्यं प्रियास्तवतु केचन तेहि नित्या ।
इति । अतः ईश्वरस्य सर्वकारणत्वसिद्धिः । तच्च कारणं त्रिविधम् । निमि त्तोपादानसहकारिभेदात् । सङ्कल्पविशिष्टवेषेण निमित्तत्वम् । सूक्ष्मचिदचि द्विशिष्टवेषेण उपादानत्वम् । सहकारि भूतकालाद्यन्तर्यामितया सहकारित्व मिति विभागः । ‘अवरक्षण’ इति धातावकारमात्रावशेषतया व्युत्पन्नोऽय मकारस्सर्वरक्षकं श्रियःपतिमाह । इयमत्र व्युत्पत्तिः ‘अवरक्षण’ इत्यस्मा ध्दातोरन्येभ्योऽपि च दृश्यत इति क्विप्रत्यये कृते ‘लोपो व्योर्वली’ इतिधातो र्वकारस्य लोपे कृतेरेव पृक्तस्येति प्रत्ययवकारेच लुप्तेसति अइति व्यवतिष्ठते कृदन्तत्वेन कृत्तद्धितसमासाश्चेति प्रातिपदिकसंज्ञायां तादर्थ्ये विहितचतुर्थ्यैक वचने कृते आयइति भवति । पुनस्सुपांसुलुगिति सुब्लोपे कृते अइति (लुप्त) चतुर्थ्यन्तं पालयितृत्ववाचिपदं भवति । दृइयते हिलक्ष्म्यासह हृषीकेशो देव्या कारुण्यरूपया ।
रक्षकः सर्वसिद्धान्ते वेदान्तेषु च गीयते ॥
इत्यादि । तथाचसति एतन्मन्त्रविवरणरूपेण शरणागतिमन्त्रण श्रियःपतित्वस्य कण्ठोक्तत्वादत्राप्युपयुक्तसहधर्मचारिणीसम्बन्धो ज्ञातव्य इायुक्तं भवति अतो रक्षकत्वमपि भवतीत्युक्तम् । ‘ब्रह्मणेत्वा महस ओमित्यात्मानं युञ्जीत इति प्रणव विवरणरूपे वाक्ये ब्रह्मण इति चतुर्थ्युत्पादनादत्रापि चतुर्थ्युत्पाद यितव्या । सातु छान्दसत्वादत्र लुप्तेति मन्तव्यमित्युक्तं प्रागेव । तथा तादर्थ्य चतुर्थी वक्तव्येति मकारवाच्यस्य जीवस्य अकारवाच्यपरमात्मा क्षया तादर्थ्यं प्रतीयते । अतो भगवतश्शेषित्वं सिद्धं भवति । तादर्थ्यमेव शेषत्वं शेषत्वप्रतिसम्बन्धी शेषीत्यभिघीयते । अत्र प्रमाणानि - ’ पतिं विश्वस्या त्मेश्वरम्’ ‘अस्या ममच शेषंहि विभूतिरुभयात्मिका । ’ इत्येवमादीनि स्वयमेवानुसन्धेयानि । ’ उभयाधिष्ठानंचैकं शेषित्वम्’ इत्यादि च पूर्वेषां वचनम्, अस्यार्थः । यथा पुत्रापेक्षया मातापित्रोर्द्वयोरप्येकं शेषित्वं यथा च । पत्न्यपेक्षया भर्तुश्शेषित्वात्पितुरेव सर्वशेषित्वं । एवमस्मदपेक्षया दिव्यम्पत्योश्शेषित्वमेकमेव । परस्परविचारे लक्ष्म्यपेक्षया भर्तुर्भगवएव शेषि त्वमिति स्वव्यतिरिक्तसर्वशोषत्वं भगवतएवेति सिद्धं भवति । लक्ष्म्यास्तु एको न सर्वशेषित्वमुक्तम् । तदुक्तमाचार्यैःगुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे ।
वृणीमहे च तत्राद्यौ दम्पती जगतां पत्ती ॥
इति । तत्र भगवच्छास्त्रोक्तानि बहूनि प्रमाणान्यनुसन्धेयानि । तथा हि विष्वक्सेनाय भगवानाह – परव्यूहादिकान् पंचप्रकारानात्मनो वदन् ।
तथा लक्ष्म्याः प्रभावं च वक्ष्ये शृणु समाहितः ॥
गुणतश्च स्वरूपेण व्याप्तिः साधारणी मता ।
यथा मया जगद्व्याप्तं स्वरूपेण स्वभावतः ॥
तया व्याप्तं जगत्सर्वं नियन्त्रीच तथेश्वरी ।
मया व्याप्ता यथा साहि तया व्याप्तोऽहमीश्वरः ॥
मम तस्याश्च सेनेश वैलक्षण्यमिदं शृणु ।
मच्छेषभूता सर्वेषामीश्वरी वल्लभा मम ॥
तस्याश्च जगतश्चाहमीश्वरो वेदविश्रुतः ।
अस्या मम च शेषं हि विभूतिरुभयात्मिका ॥
इति श्रुतिशिरस्सिद्धं मच्छास्त्रेष्वपि मानद ।
तथा भूमिश्च नीळाच शेषभूते मते मम ॥
यथाऽत्मनां तु सर्वेषां ज्ञानतो व्याप्तिरिष्यते ।
स्वरूपतस्तु न तयोर्गुणतो व्याप्तिरिष्यते ॥
इति । अस्मिन्नेव शास्त्रे तन्त्रान्तरे लक्ष्मीवाक्यम् ।
अहन्ता ब्रह्मणस्तस्य साहमस्मि सनातनी ।
आत्मा ससर्वभूतानामहं भूतो हरिस्स्मृतः ॥
अहन्ता सर्वभूतानामहमस्मि सनातनी ।
येन भावेन भवति वासुदेवस्सनातनः ॥
भवद्भावात्मकं ब्रह्म ततस्तच्छास्त्रगं परम् ।
भवान्नारायणो देवो भावो लक्ष्मीरहं परा ॥
लक्ष्मीनारायणाख्यं तदत्तो ब्रह्म सनातनम् ।
अहं तया समाक्रान्तो ह्यहमर्थः प्रसिध्यति ॥
अहमर्थस्समुग्धाच सा हन्ता परिकीर्तिता ।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥
तादर्थ्यं विद्धि सम्बन्धं मम नाथस्यचोभयोः ।
इति । न केवलं भगवच्छास्त्रएवैतदुच्यते । इममर्थ पराशरोऽपि व्क्तमुक्तवान् नित्यैवैषा जगन्माता विष्णोश्रीरनपायिनी ।
यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥
त्वया च विष्णुनाचाम्ब जगद्व्याप्तं चराचरम् ।
इति च । तत्रैवमेतत्सर्वमभिप्रेत्योक्तं प्रपन्नपारिजाते प्राक्तनाचार्यैः । अयं च शेषशेषिभावः, दासभूतास्स्वतस्सर्वेह्यात्मानःपरमात्मनः । इति स्वोज्जीवनेच्छा यदिते स्वसत्तायां स्पृहा यदि ।
आत्मदास्यं हरेस्स्वाभ्यं स्वभावं च सदा स्मरेत् ॥
इति वचनात्स्वाभाविकः । उपाधिनिर्देशाभावाच्च । तथा चतुर्थ्याः शेषत्वस्यायोगव्यवच्छेदः प्रतिपाद्यते । उपाधि निर्देशाभावाच्च । तेन शरीरात्मभावोऽपि सिद्धो भवति । ‘यस्य चेतनस्य यध्द्रव्य शेषतैकस्वरूप तत्तस्य शरीरम्’ इतिभाष्यकारा निरणेषुः । अनेन चेतनं शरीरमेव भवति ईश्वरश्शरीर्येव भवति चेतनस्तु शरीरं शरीरी च भवतीति विभागो द्रष्टव्यः । स्वस्य भगवच्छेषत्वे सिद्ध स्वसम्बन्धिनां सर्वेषां तच्छेषत्वं कैमुतिकन्यायसिद्धमिति विशेषेण नलि ख्यते । पूर्व तावञ्चतुर्थ्यायोगव्यवच्छेदेन सिद्धं शेषत्वम् अन्ययोगव्यवच्छेदेन नियमयत्युकारः । उकारस्यावधारणार्थत्वात् अस्यचावधारणार्थत्वं श्रुतिप्रयो गादेवावगम्यते ‘तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदुचन्द्रमाः’ इत्यादिवाक्येषु एवकारस्थाने उकारस्य प्रयोगात् । अनेन देवतान्तरवर्जनमपि सिद्धं भवति । इदं च देवतान्तरवर्जनं तदीयवर्जनपर्यन्तमेव । तदीयानां भगवति साम्याधिक्यादि विप्रतिभूयस्त्वेनात्यन्तवर्जनीयत्वात् । यथा भगवच्छेषत्वं भागवतशेषत्वपर्यन्तमुपपादायिष्यते । तद्वदिदमपि देवतान्तरवर्जन तदीयवर्जनपर्यन्तमेव । अत्रच अनन्यदेवताभक्ता ये मद्भक्तजनप्रियाः ।
मामेव शरणं प्राप्तास्ते मद्भक्ताः प्रकीर्तिताः ॥
ब्रह्माणं शितिकण्ठं च याश्चान्या देवतास्स्मृताः ।
प्रतिबुद्धा न सेवन्ते यस्मात्पारमितं फलम् ॥
नचान्यदेवता भक्तिमापत्स्वपि समाचरेत् ।
अवैष्णवनमस्कारादवमानाच्च केशवे ॥
वैष्णवे परिवादाच्च पतत्येव न संशयः ।
इत्यादन्यिनुस्मर्तव्यानि । नच नित्यनैमित्तिकानुष्ठानेषु देवतान्तरसंसर्गप्रसङ्गः तत्रापि तद्न्तर्यामिणः परमात्मन एव प्रतर्दनविद्यान्यायेन सर्वकर्मसमाराधनीयत्वात्तासां देवतानां कञ्चकतुल्यत्वमित्यविरोधः । इदंचावश्यककर्तव्य नित्य नैमित्तिकमात्रविषयमिति नातिप्रसङ्गः । अन्यथा ‘ब्रह्म दाशा’ इत्यादि वचनेन सर्वेषामाप नन्तव्यत्वप्रसङ्गात् ॥
एवं साधारण निरूपितस्य शेषत्वस्याश्रयभूतजीवस्वरूपं मकारेण प्रतिपाद्यते । सच मकारः ‘मनज्ञाने-मनअवबोधने’ इति धातौ अस्मच्छब्दे वा ‘मामाने - मसपरिमाणे’ इत्यत्र वा छान्दसप्रक्रियया लुप्तशेषो ज्ञान . स्वरूपं ज्ञानगुणकमतएव प्रत्यग्रूपमणुपरिमाणमेतैरेव हेतुभिर्देहादिविलक्षणं जीवात्मानमाह । अत्रचैव व्युत्पत्तिः । ‘मनज्ञाने’ इत्यस्माद्धातोः उडायो बहुळमिति वा, अन्येभ्योऽपि दृश्यत इति वा डप्प्रत्यये टिलोपे च कृते-म्-अ इति स्थिते ‘प्रत्ययस्य बहुलं छन्दसी’ इत्यलोपे कृते म्-इति भवति । कृदन्तत्वात्प्रातिपदिकसंज्ञायां प्रथमैकवचने कृते हलादिलोपे च कृते, म्-इत्येवावतिष्ठते । एवं ‘मन अवबोधने’ इत्यादिष्वपि द्रष्टव्यम् । उक्तंच यामुनाचार्यैः देहेन्द्रियमनःप्राण धीभ्योऽन्योऽनन्यसाधनः ।
नित्यो व्यापी प्रतिक्षेत्रमात्मभिन्नस्वतस्सुखी ॥
अनन्यसाधनः स्वयम्प्रकाशः अत्रचाय विभागःप्रतिपत्तव्यः । अहमहमित्यतीतानागत स्वप्नसुषुप्तयादिसाधारणं यद्ज्ञानं तत्स्वरूपज्ञानमेव । अत्र सुप्तोऽहमदृिशोऽहंवेति सविशेषेणाहमर्थज्ञानं धर्मभूतज्ञानम् । तेन स्वतः परतश्चात्मा स्वस्मै भासते । स्वस्यैवात्र ज्ञातृत्वात् । परतएव परस्मै भासते परज्ञा नेनैव परस्य प्रकाशमानत्वात् ‘त्वामहं जानामि, त्वं मां जानासि’ इत्युभ यत्रापि परज्ञानेनैव परःपरस्मै काशते । धर्मभूतज्ञानं नित्यविभूतिश्च स्वतःपर तश्च परस्माएव भासते द्वयोर्ज्ञानरूपत्वान्नित्यविभूतेर्ज्ञानस्य च स्वयम्प्रकाश त्वात्स्वतो भानं स्वरूपमात्रेण तयोस्सिध्यति । जीवगतधर्मभूतज्ञानेन नित्यवि भूतेर्नानाविशेषणविशिष्टायाः प्रतिभानात्परतोऽपि ज्ञानेन भानं सिध्यति ।
स्वगतस्यातीतज्ञानस्य कालान्तरे ज्ञानान्तरेण भानात् तत्रापि परतोभानं परगतस्य ज्ञानस्य परगतज्ञानेन भानाच्च परतोभानम् । अन्यत्सर्वं परतएव परस्मा एव भासते प्रकृतिः काल उभयमपि जीवेश्वरगतधर्मभूतज्ञानेन परेण परयोरेवे जीवेश्वरयोर्भासतइत्यर्थः । एतत्तु गुणक्रियादिष्वद्रव्येष्वपि समानम् इत्थमेव - प्रकाशमानत्वं पदार्थानामित्याचार्याः ॥
एकदेशिनस्तु नित्यविभूतेर्न ज्ञानत्वम् । ‘स्वसत्ताभासकं सत्त्वं गुणस सत्वाद्विलक्षणम्’ इत्येतदप्युज्वलतामात्रेणेत्याचक्षते । तत्तु ‘किमात्मिका भग वतो व्यक्तिः । यदात्मको भगवान् । किमात्मको भगवान् । ज्ञानात्मको भग वान्’ इति निरूपितवाक्यविरुद्धत्वान्नपरिगृह्यते परैः । यथा सम्प्रदायं यथा प्रमाणं चावगम्यतामधिकनिपुणैः ॥
अस्यायमर्थः । आत्मा स्वतः परतञ्च स्वस्मै भासमानः धर्मभूतज्ञानं नित्यविभूतिश्च स्वतःपरतश्च परस्मा एव भासते । इतरस्सर्वं परस्माएव भासते आत्मा स्वतःपरतश्च परस्मै भासमानः परतएव परस्मै भासते । धर्मभूतज्ञान नित्यविभूत्योर्विषयित्वतदभावाभ्यां मिथो वैषम्यम् । नित्यविभूतेस्स्वयम्प्रकाशे ‘स्वसत्ताभासकं सत्त्वं गुणसत्वाद्विलक्षणम् ।’ इत्यादिकं प्रमाणजातमनुस - न्धेयम् ॥
अत्राजडश्रुतिरपि । ‘किमात्मिका भगवतो व्यक्तिः । यदात्मको भग वान् । किमात्मको भगवान् ज्ञानात्मको भगवान्’ इति । व्यापीति सर्वाचेतनान्तःप्रवेशसामर्थ्यमेवाभिधीयते । नतु विभुत्वम् ‘एषोऽणुरात्मा चेतसा वेदितव्यः । आराग्रमात्रोह्यवरोऽपि दृष्टः’ इत्यादिश्श्रुतेः । भगवच्छास्त्रे ककारादि मकारान्तानामक्षराणां पंचविंशतितत्त्ववाचकत्ववचनात् । ‘मकारं जीवभूत तु शरीरे व्यापकं न्यसेत्’ इति साक्षात्कण्ठोक्त्या च मकारस्य जीववाचकत्वं सिद्धम् । अनेन च प्रकृतिपरिणामित्वाद्देहस्य तद्वैलक्षण्यमात्मनउक्तम्भवति : अत्र च ‘मकारो जीववाचकः’ इत्यादिवचनान्तरमपि स्वयमेवानुसन्धेयम् ॥
“ओमित्यात्मानं युञ्जीत " इत्यत्रोक्तात्मशब्दः, मकारस्य जीववाचकत्वे प्रमाणं परिशिष्यते । अयमत्र वाक्यार्थः ज्ञानस्वरूपो ज्ञानगुणकः प्रत्य ग्रूपोऽणुपरिमाणः ततएव देहादिविलक्षणञ्चाहं सर्वकारणभूताय सर्वरक्षकाय सर्वशेषिणे श्रियःपतयएव स्वाभाविकशेषभूत इत्येकायोजना । अत्राहमिति सर्वेषमात्मनामुपलक्षणम् - अकारेणोच्यते विष्णुस्सर्वलोकेश्वरो हरिः ।
उद्धृता विष्णुना लक्ष्मीरुकारेणोच्यते तथा ॥
मकारस्तु तयोर्दास इति प्रणवलक्षणम् ।
इति योजनान्तरेत्ववधारणमार्थं मन्तव्यम् । एवंचोक्तार्थस्य प्रणवस्याक्षरार्थ वाक्यार्थै ‘मम नाथ’ इत्यादि यामुनाचार्यवाक्येऽपि यथास्थानमनुसन्धेयौ ।
अत्रतु यथास्थानमर्थपंचकं तत्त्वत्रयं च शाब्दमार्थंचावगन्तव्यं बुद्धिमद्भिः ॥
एवंचान्यशेषत्वे निवृत्ते तत्प्रतिपादकमध्यमाक्षविवरणरूपतया स्वस्य स्वशेषत्वादि निवृत्तिमुखेन नमस्सम्बन्धः । मइति मकारे षष्ठी । नेति निषेधः प्रणवतृतीयाक्षरन्त्वनुषज्यते । नमः अहं मम नेति । एवंचाहमपि नममेत्युक्तं भवति । ‘आत्मापि चायं नमम’ इतिहि वदन्ति ॥
ननु कथं स्वस्य शेषत्वप्रसक्तिः । उच्यते यथाखलु परेषामतिशयाधायक्रश्शेषः परश्शेषीति व्यवह्नियते । एवं स्वात्मानमलङ्कुर्वाणस्स्वकृतालङ्कार फलाधारतया शेषी स्वालङ्कारकर्तृतया शेषइति व्यवहर्तुमुपाधिभेदाच्च शक्यते ।
तादृशीमप्याशङ्कां निवारयितुं स्वशेषत्वानवृत्तिः प्रतिपाद्यते ॥
एतदुक्तं भवति । ‘स्वस्य स्वेनाप्याधीयमानोऽतिशयो राजदाराद्यलङ्कारवत्परशेषतयैव क्रियते’ इति । आहुश्च । ‘भुङ्गे स्वभोगमखिलं पतिभोग शेषम्’ इति । अथवा मध्यमाक्षरएवान्यशेषत्वस्य निवृत्तत्वात्स्वस्याप्यन्यत्वेन स्वशेषत्वमपि गर्भस्त्रावेण गतमिति किंचिदिति पदान्तराध्याहारेण न मम किंचिदिति स्वसम्बन्धि देहेन्द्रियपुत्राद्यपेक्षया स्वस्य निरुपाधिकशेषित्वमत्र निषिध्यते ॥
यद्वा- सर्वेषामपि पदार्थानां भगवच्छेषत्वस्य प्रणवएव स्वत्तत्सिद्धत्वास्पुत्रादीनामपि स्वापेक्षया स्वाभाविकशेषत्वं प्रागेवार्थतो निषिद्धमिति खस्वा तन्त्र्यादिकमत्र निषिध्यते । नमम कुत्रापि निरपेक्षकर्तृत्वादिकमिति । एवं च सति प्रणवे शेषत्वप्रतिपत्तिः इह पारतन्त्त्र्यप्रतिपत्तिरिति विभागः ॥
अयं चात्र विशेषो बोद्धव्यः । कारणत्वं तत्त्वत्रयसाधारणम् । कर्तृत्वं जीवेश्वरसाधारणम् । स्वाधीनकर्तृत्वश्विरस्यासाधारणम् । पराधीनकर्तृत्वं जीवस्यासाधारणम् । व्यापाराश्रयत्वमात्रंतु कर्तृत्वमचेतनेऽप्युपचर्यते ‘रथो गच्छति’ इति । एवं च कर्तृत्वं प्रेरकत्वम् । अनुमन्तृत्वमुदासीनत्वम् । सा क्षित्वं सहकारित्वम्। फलित्वं फलप्रदत्वम् । इत्येतेऽर्था भगवतः प्रतिपन्नाभवन्ति तत्र जगदुत्पत्यादिषु सर्वेष्वपि कार्येषु ज्ञानचिकीर्षाप्रयत्नवत्वात्कर्तृत्वम् । कर्तृभूत जीवप्रवर्तकत्वात्प्रेरकत्वम्। स्वकर्मानुरूपंप्रवृत्तानामुत्तरोत्तरं प्रवर्तकत्वादनुमन्तृ त्वम् एतेष्वेव स्वकर्मानुरूपेषु सुखदुःखादि कार्येषु बीजानुगुणमुत्पद्यमाने ष्वङ्कुरेषु जलस्येव सामान्यकारणत्वे सम्भवत्यपि विशेषकारणत्वाभावादुदासीनत्वम् । सर्वसाक्षाद्द्रष्टृत्वात्साक्षित्वम् । सामग्रथनुप्रविष्टैश्चेतनाचेतनात्म कैस्सहकारिवर्णैस्सह स्वयमेव सर्वकार्यकर्तृत्वात्सहकारित्वम् । सर्वशेषित्वेन सर्वस्यापि फलस्य भृत्यसंरक्षणादिन्यायेन स्वपर्यवसानात्फलित्वम् । ‘फलमतउपपत्तेः’ इत्युक्तप्रक्रियया सर्वकर्मसमाराधनीयस्य स्वस्यैव साक्षात्सर्वफल हेतुत्वात्फलप्रदत्वमिति । सर्वमप्येतद्रुणजातमाकारभेदादेकस्मिन्नेव भगवति योयुज्यत इति हृद्यं निरवद्यं च ॥
एवं च सर्वदा सर्वप्रेरकस्यापीश्वरस्य उपेक्षकत्वानुमन्तृत्वादिवचनानां तत्तदाचार्यग्रन्थेषु दृष्टानां विरुद्धवत्प्रतिभासमानानां स्वयमेवाविरोधो बुद्धि मद्भिर्बोद्धव्य इत्यस्माभिरुपरम्यते ॥
ननु कथं शेषत्वात्पारतन्त्र्यमतिरिच्यते ? इत्थं यथेष्टविनियोगार्हत्वं शेषत्वम् । यथेष्टविनियुज्यमानत्वं पारतन्त्र्यमिति । आहुश्च - यथेष्टविनियोगार्ह शेषशब्देन कथ्यते ।
ईश्वरेण जगत्सर्वं यथेष्टं विनियुज्यते ॥
इति । एवं शेषत्वदासत्वयोरपि मात्रया भेदोऽनुसन्धेयः । परगतातिशयाधा नेच्छयोपादेयस्वरूपत्वमेव शेषत्वम् । शेषत्वप्रतिपत्त्यर्हत्वेसति तदेव शेषत्वं दासत्वमित्यभिधीयते । ततश्च चेतनाचेतनसाधारणं शेषत्वम् । चेतनैकान्तं दासत्वमित्यलमतिविस्तरेण । एवं पारतन्त्र्ये प्रतिपन्ने भगवत्परतन्त्रतया शिक्षि तस्वरूपस्य शेषभूतस्य चेतनस्य यथाधिकारं भगवत्प्रवर्तितेन केनाप्युपायेन तद्वशीकरणस्य कार्यत्वाद्भगवन्मूला शरणागतिरप्यर्थसिद्धा ॥
भागवतःशेषत्वमपि ततएवार्थसिद्धं भवति । यथाखलु राजानः प्रियतमेषु पुत्रादिषु स्वशेषभूतं सकलमपि स्वेच्छयैव शेषतया विनियुंजते । एवं भगवच्छेषत्वपारतन्त्र्याभ्यां भगवतैव यथेष्टं विनियुज्यमानस्य भागवतशेषत्वमपिसिद्धं भवति ॥
अभिमतं खलु भगवच्छेषत्वादपि भागवतशेषत्वं भगवतएव । अत्रचमम मद्भक्तभक्तेषु प्रीतिरभ्यधिका भवेत् ।
तस्मान्मद्भक्तभक्ताश्च पूजनीया विशेषतः ॥
आराधनानां सर्वेषां विष्णोराराधनंपरम् ।
तस्मात्पतरं प्रोक्तं तदीयाराथनं परम् ॥
इत्येवमादीनि पठ्यानि । अत्र भागवतशब्देन भगवच्छेषत्वज्ञानरसिकाः परमैकान्तिनोऽभिधीयन्ते । न केवलमीशेशितव्यज्ञानवन्त इति नातिप्रसङ्गः ।
तेन भागवतशेषत्वपर्यन्तभगवच्छेषत्वज्ञानरसिकाः परमैकान्तिनो भागवताइत्युक्तम्भर्वतीत सर्व रमणीयम् ॥
अतस्सूक्ष्मयोजनायां स्वस्य स्वशेषत्वनिवृत्तिः, स्वापेक्षयाऽन्येषां स्वाभाविकशेषत्वनिवृत्तिः, स्वस्वातन्त्र्यनिवृत्तिः, साध्योपायविशेषप्रपत्तिः, भागवतशेषत्वचेत्येते पंचाप्यर्थाः प्राधान्येन प्रतिपाद्यन्ते । अन्येऽपि तदनुषङ्गिणोऽप्यर्थास्स्वयमेव प्रतिपत्तव्याः । स्थूलयोजनायांतु नम इति शरणागतेर्व चनम् । ‘गच्छध्वमेनं शरणं शरण्यं पुरुषर्षभाः ।’ इति शरणागतिविधाने ‘द्रौपद्या सहितास्सर्वे नमश्चक्रुर्जनार्दनम्’ इति नमसः प्रयोगादान्मभरसमर्पणे नमसः प्रयोगो युज्यतएव । ‘नमश्शब्दःप्रदानार्थस्वाहाशब्दइवेष्यते ।’ इति वचनाच्च । एवं स्वरूपसमर्पणं प्रणवे, भरसमर्पणं नमसीति भिदा ।
इदं च भरसमर्पण ‘मामेकं शरणं व्रज’ इति विधीयते । स्वरूपसमर्पणं तु तत्वज्ञानसम्पादनान्तर्गतत्वात् । ‘अथवा किन्नु समर्पयामिते’ इति कृतमपि प्रतिषिध्यते अतो न भरसमर्पणप्रतिषेधः । फलसमर्पणं पञ्चाद्भविष्यति । तथाच शरणागतिस्वरूपप्रतिपादकं नमःपदमिति स्थूलयोजनायां निर्वाहः । परयोजनायां तु प्रधानोपायभूतो भगवानेव नमःपदेन प्रतिपाद्यते । उक्तं च - पन्था नकार उद्दिष्टो मःप्रधानउदीर्यते ।
विसर्गः परमेशस्तु तस्यार्थोऽयं निरूप्यते ॥
अनादिः परमेशस्तु शक्तिमानच्युतः प्रभुः ।
स्वप्राप्तये प्रधानोऽयं पन्था नमननामवान् ॥
इति । एवं त्रिभिर्योजनाभेदैर्भगवदपेक्षया जीवस्य पारतन्त्र्यादिकं साध्योपायभूता प्रपत्तिः, सिद्धोपायभूतो भगवांश्च प्रतिपाद्यते । अत्राप्यर्थपञ्चकं तत्त्व त्रयं च यथास्थानमनुसन्धेयम् ॥
तृतीयपदन्तु अकारवाच्यमेव नारायण नेतृत्वादिमुखेन विशदयितुं मकारवाच्यं जीवं नित्यत्वादिमुखेन विशेषतः प्रतिपादयितुं नमःपदे प्रतिपन्नसिद्धोपायस्वरूपं यथावदवबोधयितुं प्रवृत्तं सत् पूर्वोक्तस्य साध्योपायस्य फलभूतं भगवन्तं भगवदनुभवजनितप्रीतिकारिताशेषावस्थोचिताशेषशेषवृत्तिरूपकैङ्कर्या त्मकं च साध्यफल प्रकाशयति । ‘नृनय’ इति धातावच् प्रत्यये कृते नरशब्दस्य व्युत्पत्तिः । तथा च भगवतः सर्वनेतृत्वमुक्तम्भवति । ‘जहुर्नारायणो नरः’ इति भगवद्वाचकोऽयं शब्दः ॥
अथवा ‘रिङ् क्षय’ इति धातौ डप्रत्ययमुत्पाद्य, रइति व्युत्पन्ने सति नग नैकादिशब्दवन्नसमासे कृते नर इति भवति । तथा च भगवद्वाचकत्वं सिद्धं भवति । चेतनाचेतनयोस्स्वभावस्वरूपाभ्यामन्यथाभावेन क्षयिष्णुत्वमस्ति ।
ईश्वरस्य तदुभयाभावान्नरत्वं युज्यते । एवं च नरसम्बन्धिनो नारा इति वा ‘नराज्जातानि तत्त्वानि नाराणीति ततो विदुः’ इति वा तद्धितप्प्रत्ययमुत्पाद्य चेतनाचेतनं विश्वं नारशब्देनाभिधीयते । एवं स्वभावान्यथाभावे सत्यीप स्वरू पान्यथाभावाभावान्नरशब्देन जीव उच्यते । तत्सङ्घाता नाराः सङ्घातस्य बहु त्वाद्बहुवचनमाचार्यैरभिधीयते ॥
एवं च नारशब्देव्युत्पन्ने ल्युडतेनायनशब्देनसह समासो द्विविधः । बहु व्रीहिस्तत्पुरुषश्चेति । यदा तत्पुरुषस्तदा नाराणामयनमिति विग्रहः । यदा बहुव्रीहिस्तदा नाराण्ययनानि यस्येति विगृह्यते । ल्युडन्तोऽयमयनशब्दः करणं, कर्म अधिकरणचाप्याह । अनेनैवायमेवास्मिन्नेव नारैरिय्यतइति । अत्रचायनशब्दं व्युत्पादयति । ‘इण्गतौ’ इतिधातोः ‘करणाधिकरणयोश्च’ इति विहि तस्य ल्युप्रत्ययस्य ‘युवोरनाकौ’ इत्यनादेशे कृतेसति गुणायादेशयोः कृतयो रयनमिति सम्पद्यत इति ॥
अथवा ‘अयपयगतौ’ इत्यत्र व्युत्पन्नो द्रष्टव्यः । तथा च तत्पुरुषसमासे भगवन्तं नाराणामयनमिति नारायणं जीवानामुपायमुपेयं धारकं च प्रति पद्यामहे । बाहुळ काल्लिङ्गव्यत्ययः अचेतनानां पुनराधारत्वमेव । उपायोपेय त्वयोश्चेतनविषयत्वात् । बहुव्रीहौ तु नारं चेतनाचेतनात्मकं विश्व यस्यायन व्याप्यं संस्थानं वेति विग्रहात्सर्वव्यापकत्वं सर्वान्तर्यामित्वं च भगवत इत्युक्त म्भवति ॥
द्विविधंखलु भगवतोऽन्तर्यामित्वम् । परव्यूहविभवान्तर्याम्यर्चावतार प्रक्रियया हृत्पुण्डरीकमध्यवर्तिना विप्रहेण कश्चित्प्रकारः । अयमेव नीलतो यदमध्यस्था विद्दुल्लेखेव भास्वरा’ इत्यादि श्रुत्या च प्रतीयते । प्रकारन्तरन्तु चेतनाचेतनविभागाभावेन सर्वेष्वपि वस्तुषु प्रेरकतया भगवत्स्वरूपस्य सन्निहित त्वम् । इत्थं द्विविधमप्यन्तर्यामित्वं भगवतश्श्रीनिवासस्य ‘शान्तानन्त’ इत्या दिना प्रतिपन्नस्वरूपस्य वासस्थानवाचिनाऽयनशब्देन बहुव्रीहौ वित्रक्ष्यते ।
अर्थान्तराण्यपि बहूनि विद्यमानानि विस्तरभयादत्र न लिख्यन्ते ॥
अयमत्र विभागः । प्रणवे रामानुजमिति भगवच्छरीर भूतस्वात्मप्रतिपादनम्। नारायणपदे बहुव्रीहौ स्वात्मशरीरकपरमात्मप्रतिपादनम् । तत्पुरुषे तु स्वाधारादिरूपपरमात्मप्रतिपादनम् । अत्र च ‘लक्ष्मणपूर्वजम् ’ चेति वचन दृष्टान्ततया अनुसन्धेयमिति ॥
इदचात्र बोध्यम् । शरीरात्मभावलक्षणेषु आधेयत्वविधेयत्वशेषत्वेषु शेषत्वं प्रणवे, विधेयत्वं नमसि, आधेयत्वं नारायणपदे इति । अयनशब्देऽप्य धिकरणव्युत्पत्त्या भगवतस्सर्वाधारत्वं प्रतिपाद्यत इति पूर्वमेव प्रत्यपादि ॥
अत्रचोक्तमिदमनुसन्धानद्वयं वेदान्तेष्वपि दृश्यते । परमात्मशरीरभूत स्वात्मानुसन्धानेन स्वशरीरकपरमात्मानुसन्धानेन च ब्रह्मविद्याविभागस्य भाष्यकारैरेव प्रतिपादितत्वात् । नारायणपदस्थचतुर्थीविभक्त्या तार्थस्य प्रणव एव सिद्धत्वात्तादर्थ्यफलभूतं सर्वदेश सर्वकाल सर्वावस्थोचितसर्वावधकैङ्कर्यं प्रार्थ्यते । न खल्वकिंचित्करस्य शेषत्वं युज्यते । ‘नाकिंचित्कुर्वतश्शेषत्वम्’ इति हि तान्त्रिकाः ॥
अत्र फलदशायामनुभवकैङ्कर्ययोः स्वाधीनभोक्तृत्वं स्वार्थभोक्तृत्वं स्वाधीनकर्तृत्वं स्वार्थकर्तृत्वमित्येवंरूपस्य विरोधिनःपुरुषार्थान्तरेषु दृष्टप्रसङ्गस्य निराकरणाय प्रणवनमसोरिशक्षित भगवच्छेषत्वं तत्पारतन्त्र्यचानुसन्धेयम् ॥
अतएव शरणागतिमन्त्रोत्तरखण्डे नमश्शब्दः प्रयुज्यते । वाक्यार्थस्तु अकारवाच्यनारायणायैवाहं शेषभूतः नममेति श्रीमदष्टाक्षरस्य कास्यैन स्वरू पपरत्वमित्येका योजना । अपरातु प्रणवस्यैव स्वरूपपरत्वं द्वितीयतृतीयपढ्योरनि ष्टनिवृत्तिप्रार्थनायामिष्टप्राप्तिप्रार्थनायां च तात्पर्यमिति ॥
तत्र वाक्यार्थः । अकारवाच्याय श्रियःपतयएवाहं शेषभूतः । नमम किंचित्स्यात् नारायणायैव कैङ्कर्यं भवेदिति । तथा योजनान्तरमपि प्रणवनमसोस्स्वरूपपरत्वं तृतीयपदस्य पुरुषार्थपरत्वमिति तत्र पूर्वेषामेकः श्लोको लिख्यते अकारार्थायैव स्वमहमथमह्य ननिवहा नराणां नित्यानामयनमिति नारायणपदम् ।
यमाहा स्मैकाल सकलमाप सर्वत्र सकलास्ववस्थास्वाविस्युर्ममसहजकैङ्कर्यविधयः ॥
इति । वेदान्ताचार्यैस्तु वेदान्तक्रमेण तत्त्वहितपुरुषार्थात्मकास्त्रयोऽप्यर्थाः पद् त्रयेण क्रमेणात्र प्रतिपाद्यन्त इत्यभिधीयन्ते । सर्वकारणभूताय सर्वरक्षकाय सर्वशेषिणे श्रियःपतयएवाहम नन्यार्हनिरुपाधिकशेषभूतः तच्चरणारविन्दयोरेवा त्मात्मीयभरं न्यस्यामीति । नारायणायैव सर्वदेश सर्वकाल ‘सर्वावस्थोचित सर्वविधकैङ्कर्याणि स्युरिति । एवंखलु तैरुक्तम्इत्थं सङ्घटितः पदैस्त्रिभिरसावेकद्विपञ्चाक्षरैः अर्थैस्तत्त्वहितप्रयोजनमयैरध्यात्मसारैस्त्रिभिः ।
आद्यस्त्रयक्षरवेदसूतिरजहत् स्थूलादिवृत्तित्रयः त्रैगुण्यप्रशमं प्रयच्छतिसतां त्रय्यन्तसारो मनुः ॥
इति। अत्र अर्थपंचकानुसन्धानमाप नारायणपदे मन्त्रे च सर्वत्राप्यनुसन्धेयम उक्तं तदप्याचार्यतातपादैःआदौ प्राप्यं परममनघं प्राप्तृरूपंच मादौ इष्टोपायन्त्वयननमसोरीप्सितार्थं चतुर्थ्याम् ।
तद्व्याघातं ममकृति गिरिव्यञ्जयंतं मनुन्तम् तत्प्रायं च द्वयमाप विदन् सम्मतस्सर्ववेदी ॥
इति । इहच अयनशब्देन सिद्धेोपायः प्रतिपाद्यते । नमसातु साध्योपायः पर योजनायां सिद्धोपायश्च । एवं तेनैवायनशब्देन सिद्धप्राप्यं चतुर्थ्यातु साध्यप्राप्यमिति विभागः ॥
अत्र च प्रणवार्थस्वरूपविवरणतया प्राचीनैरपि विरचितं पद्यं पठ्यम् - अकार्थो विष्णु र्जगदुदयरक्षाप्रलयकृत् मकार्थो जीवस्तदुपकरणं वैष्णवमिदम् ।
उकारोऽनन्यार्हं नियमयति सम्बन्धमनयोः त्रयीसारस्त्रयात्मा प्रणवइममर्थं समदिशत् ॥
इति तदुपकरणं वैष्णवमिति स्वस्य भगवच्छेषत्वे प्रतिपादिते स्वकीयस्यार्थस्य भगवच्छेषत्वमर्थादेव सिद्धमित्येषा दिक् ॥ विस्तरस्तु श्रीमद्रहस्यत्रयसारादि परिश्रमशालिनां सुलभ इत्यत्रोपरम्यते इति सर्व रमणीयम् ॥
श्रीमदृष्टाक्षरस्यार्थ श्रोतॄणां प्रतिपत्तये ।
प्राचीकशविस्तारं त्रैयन्ताचार्यनन्दनः ॥
इति विश्वामित्रकुलोद्भूतेन निखिलकवितार्किकचूडामणिना सर्वतन्त्रस्वतन्त्रेण श्रीमद्वरनाथापरनाम्ना कुमारवेदान्ताचार्येण विरचिते श्रीमद्रहस्यत्रयसारार्थसंग्रहे मूलमन्त्राधिकारः प्रथमः