सामान्यम् ॥ अथ सामान्यं चिन्त्यते । नित्यमेकमनेकसमवायि सामान्यमिति वैशेषिकादयः । तथा हिअनेकेष्वेकप्रतीतिव्यवहारो न निमित्तमन्तरेणोपपद्यते । तच न ज्ञानाकारः, आत्मख्यातिभङ्गात्; अर्थे च प्रवृत्यनुपपपत्तेः, भेदाग्रहस्य चायोगात् । नाप्यलीकम्; असल्यातिभङ्गात् । तथाप्रतीतौ च प्रवृत्त्यनुपपत्तेः, अतथाप्रतीतावन्यथाख्यातिप्रसङ्गात् । सदसदादिविकल्पितस्य भेदस्यानुपपत्त्या तदग्रहस्यात्रायोगात् । नाप्यपोहात्मकम् , विधिरूपेणैव प्रतीतेः, पूर्ववत्प्रवृत्त्यनुपपत्तेश्च । एतदन्यतयाऽन्यस्मिन् तदन्यतया चास्मिन् निरूप्यमाणेऽन्योन्याश्रयणात् । निष्प्रतियोगिकापोहस्य चायोगात् । तदितरापोह इत्यत्र तच्छब्देन व्यक्त्युपादाने व्यक्त्यन्तरत्य वैजात्यप्रसङ्गेनाननुगतिप्रसङ्गात् , तज्जातीयत्वेनोपादाने जातिस्वीकारात् । नापि संस्थानसादृश्यात्मकम्; तत्रानुवृत्तिव्यावृत्तिविकल्पायोगात् । अतोऽनुवृत्तमस्त्वेकं सामान्यमिति; अत्रोच्यते-केयमेकप्रतीतिर्नाम? एकव्यक्तित्वप्रतीतिर्वा? एकजातित्वप्रतीतिर्वा? एकजातीयत्वप्रतीतिर्वा? एकाकारधर्मवत्त्वप्रतीतिर्वा? एकशब्दानुविद्धप्रतीतिर्वा? न प्रथमद्वितीयौ; अन्यतरपरिशेषादिप्रसङ्गात् । न तृतीयः, असिद्धेः, एष्वनुवृत्तमिदमिति विकल्पानुदयात् । घटस्य घटत्वमित्यादिव्यवहारस्य - कालस्य कालत्वमित्यादिवदुपपत्तेः । नापि तुरीयः; गोत्वाद्यपलापप्रसङ्गात् , संस्थानमात्रस्यैवास्मदभिमतस्य तथात्वात् । मृण्मयहिरण्मयघटादिषु भवद्भिरपि तथा निर्वाहात् । न हि तत्रानुगतं घटत्वमभ्युपगतम्; जातिसङ्करभयात् । व्यावृत्तजातिद्वयाभ्युपगमेऽनभ्युपगमेऽप्यनुवृत्तप्रतीतिव्यवहारयोः संस्थानसादृश्यमेव निबन्धनम् । एवं सति तदेवास्तु सर्वत्रापि । नन्ववयवसामान्यानुवृत्त्याऽवयविन्यनुवृत्तप्रतीतिव्यवहारनिर्वाह इति चेन्न; यतः कपालत्वादेरपि पूर्ववत् सङ्करादिदोषः समानः । अस्तु तर्हि सङ्कराभ्युपगमेनानुवृत्तं सामान्यमिति चेन्न; अन्यथा प्रतीतिनिर्वाहे कल्पनायोगात् । व्यावृत्तसंस्थानादेरनुवृत्तधीहेतुत्वेऽतिप्रसङ्गादिति चेत् , व्यावृत्तानां संस्थानानामनुवृत्तव्यञ्जकत्वे कथं नातिप्रसङ्गः? तावतामेव तथाविधस्वभावत्वादिति चेत् , तुल्यम् , तावतामेव तथाविधप्रत्ययहेतुत्वादिति वक्तुं शक्यत्वात् । केवलमुपलम्भातिक्रमो गौरवं च भवन्मते । एवं पञ्चमोऽपि पञ्चतां गतः । तत्र टंक इति शब्देनानुविद्धप्रतीतिर्वा? एकेन गवादिशब्देनानुविद्धप्रतीतिर्वा विवक्षिता? आयो न कल्पते; एकव्यक्तिरिति विवक्षायामसिद्धः, एकजातीयमिति व्यवहारस्य तत्तदुपाधिविशेषेणोपपत्तेः, राशिसैन्यपरिषदरण्यादिष्वैक्यव्यवहारादिवत् । उपाधिश्चायमनेकेषामेकस्मृतिसमारोहः । नापि द्वितीयः; तस्यानेकार्थेषु शब्देष्वपि समत्वात् । अनेकार्थव्यावृत्तः कश्चिद्विशेषोऽस्तीति चेन्न; तस्यापि स्वरूपविषयादिशब्दवदुपपत्तेः । स्वरूपविषयादिशब्दा हि नानारूपेष्वेवार्थेषु प्रवर्तमानाः केनचिदाकारेण साधारणाः केनचिदसाधारणाश्च दृश्यन्ते, तद्वदोशब्दोऽपि सलिलसरस्वतीकिरणकरमाल्यादिषु साधारणः प्रकरणादिवशाद्विशेषमापद्यत इति विलक्षणनिमित्तकल्पनानवकाशात् । ननु यदि संस्थानमेव सामान्यं तर्हि तद्रहितेषु रूपरसादिषु कथं निर्वाहः? तव वा कथमुपलक्षणरहितेषु? तेषु लक्षणमेवोपलक्षणमिति चेत्; किं तत्? प्रतीतिरिति चेन्न; आत्माश्रयप्रसङ्गात् । अस्माकं तु तदेवकीकरणमिति नोपद्रवः । उपलक्षणनिर्बन्धो नास्तीति चेत् , अस्माकमपि मा भूत् संस्थाननिर्बन्धः । द्विविधं हि सादृश्यं प्रतीतिसिद्धम्-धर्मसायं स्वरूपसादृश्यं चेति । द्रव्येषु प्रायशो. धर्मसादृश्यादेकरूपप्रतीतिव्यवहारौ । तावदपेक्षया च श्रीविष्णुचित्तैरुक्तम्-* भूयोवयवसामान्यमेव प्रतियोग्यपेक्षया सादृश्यशब्दवाच्यम् इति । धर्मान्तरशून्येषु स्वरूपसादृश्यादेव । एतावदभिप्रेत्य भगवता भाष्यकारेणोक्तम्-*संस्थानं नाम स्वासाधारणं रूपमिति यथावस्तु संस्थानमनुसन्धेयम् इति । अत्र यदुक्तं विवरणे-* तत्तद्वस्तु पश्यतां तत्तदवयवविन्यासविशेषलक्षणं संस्थानमवभासते । ननु प्रतिव्यक्तिभेदात् संस्थानस्य कथं व्युत्पत्तिः? अथैक्यम्; तर्हि नासाधारणता । नैतत् , उपाधितोऽपि व्युत्पत्तेः; यथा वालधितः पशुशब्दस्य । सादृश्यं चोपाधिः इत्यादि, तत्र *अवयवविन्यास इत्युदाहरणपरम्; अन्यथा रूपादिषु रूपत्वं जातिरित्यादिव्यवहारभङ्गप्रसङ्गात् । * सादृश्यं चोपाधिः इत्यादि त्वतिरेकपक्षस्वरसमप्यतिरेकपक्षानुपपत्तेः स्वरूपमात्रपरम् । ननु यदि स्वरूमेव सादृश्यम् , स्वरूपमात्रत्वाविशेषात् सर्वमपि सर्वेण सदृशं स्यात्; रूपं रूपान्तरेण सदृशमिति सहप्रयोगश्च न स्यादिति चेत्; तदिदमतिरिक्तपक्षेऽपि तुल्यम् । यदि तत्र सादृश्यं भवेत् सर्वेणापि तत् सदृशं भवेत्; अविशेषात् । यदि ‘तु तावत्प्रतियोगिकमेव सादृश्यं तत्रोपलम्भव्यवस्थाप्यम्; तर्हि तदेव स्वरूपं तावत्प्रतियोगिकं तत एव व्यवस्थाप्यताम्; अविशेषात् । न च सहप्रयोगानुपपत्तिः; प्रतियोगिनिरूपितवेषेण सदृशशब्दविषयत्वात् , अन्यथा विषयादिशब्दैरपि सहप्रयोगानुपपत्तेः । ननु यदि सादृश्यमेव सामान्यम् , तदा गोगवययोरविशेषेण गोशब्दवाच्यत्वं स्यात्; न स्यात् , सौसादृश्यस्य सामान्यत्वात् । यादृशसौसादृश्यं सामान्योपलक्षणं भवताम् , तदेव तदिति नियमनसिद्धेः । सादृश्यातिरिक्तं सौसादृश्यं नाम किमिति चेत्; आपाततः समानधर्मातिरेकः अन्ततः स्वरूपविशेषः । यत्तु नारायणायैरुक्तम्-*संस्थानमेव जातिः । तत् प्रतिपिण्डं भिन्नत्वेऽपि द्वितीयादिपिण्डेषु सौसादृश्यात् प्रतिसन्धीयमानं स्वाश्रयेषु वस्तुप्वेकबुद्धिशब्दनिबन्धनं भवति । तदेव प्रतिसन्धीयमानं सौसादृश्यमनुवृत्तिरिति चोच्यते इत्यादि । यच्च वरदविष्णुमित्रैरुक्तम्-* प्रत्यक्षाश्रयवर्तिसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्वत्वसादृश्यानि प्रत्यक्षाणि । उपमानप्रमाणान्तरं चोक्तम् । इदं च सादृश्यं गुणः; अनुमानेन गुणत्वावधारणात् । कार्यभूतसंख्याशक्तिसादृश्यानि गुणाः; द्रव्यकर्मान्यत्वे सत्याश्रितकार्यत्वाद्धटगतशौक्लयवदिति, तत् तेषां तथाऽभिमतमित्येकदेशिमतं मन्तव्यम् ॥
यत्तु भट्टपराशरपादैरुक्तम्—
* भूयोऽवयवसामान्यं सादृश्यं बहवो विदुः । पृथक्प्रमेयं तदिति प्रमेये दर्शयिष्यते ॥ इति, तत् किमभिप्रायमिति न जानीमः; उत्तरत्र प्रमेयनिरूपणस्य विच्छिन्नत्वात् । अस्तु वा सादृश्यमन्यत्तन्मतेनापि, अस्माकं त्वेषा रुचिः । तदत्र संस्थानमाकृतिरिति पर्यायः । तदेव परस्परनिरूपितवेषेण सौसादृश्यं जातिः सामान्यमिति च गीयते, नान्यदुपलब्धम् । यत्तु भट्टपराशरपादैरुक्तम्-* ननु द्रव्यत्वपृथिवीत्वशुक्लत्वपाकत्वादेः सामान्यस्यानाश्रयणे वाच्यानां स्वप्रवृत्तिनिमित्तानां च सन्तत्यवस्थादीनामनेकत्वादेकप्रयोजकाभावे कथमैकशब्द्यम्? वद तव वा कथम्? न ममैव एष भरः, सर्वो हि लोकः सर्वमित्यादिषु बहुष्वपि शब्दैक्यं मन्यते इत्युक्त्वा,
- * वाच्यस्वरूपेऽथ तदीयरूपे दूरादुपाधिष्वथवैकभावात् ।
सादृश्यभेदाग्रहतोऽथवैषु वाच्येष्विहैकीकरणं मतं तत् ॥ इति, चन्द्रः सूर्य इत्यादौ वाच्यस्वरूपैक्यात् , घटः पट इत्यादौ तदाकारैक्यात् इत्यादि; तत्र न तावत् मुख्यमेवाकारैक्यं विवक्षितम्; जातिनिराकरणात् । अतः एकाकारविकल्पयोग्यसंस्थानविशेषवत्त्वमभिमतमिति मन्यामहे । तच्चेदं सामान्यमापाततः क्वचित् प्रत्यक्षीक्रियते यथा घटत्वादि । क्वचित् सहकारिविशेषापेक्षया यथा विलीनघृतादौ गन्धग्रहणापेक्षया घृतत्वादि । मातापितृसंबन्धस्मृत्याद्यपेक्षया ब्राह्मणत्वादि । तदुक्तं भगवद्यामुनमुनिभिः आगमप्रामाण्ये
* ततश्च सन्ततिस्मृत्याऽनुगृहीतेन चक्षुषा । विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति ॥ तथा च दृश्यते नानासहकारिव्यपेक्षया । चक्षुषो जातिविज्ञानजनकत्वं यथोदितम् ॥ इत्यादि । ……..
॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायसिद्धाञ्जनम् समाप्तम् ॥
(एतावदेव उपलभ्यमानम्)