कर्म ॥ अथ कर्म । चलनप्रत्ययविषयः कर्म । तत् प्रत्यक्षमेव; करतलादिषु तथोपलम्भात् । न त्वनुमेयम्; तदसिद्धिप्रसङ्गात् कार्यस्योभयाभ्युपेतकर्मसामग्रीमात्रेणैवोपपत्तेः; अतिप्रसङ्गाच्च; कार्येण हि गिरिजलधरसंयोगेन गिरावपि कर्म कल्प्येत । अन्यतरकर्मजनितोऽयं संयोग इति चेत्; तत् केन सिद्धम्? तत्रापि जलधरकर्मजनितोऽयमिति नियमश्च कुतः सिद्धः? जलघरशिखरिणोश्चलाचलरूपेण प्रतीतेरिति चेत्; तर्हि सिद्धं नः समीहितम् । विभागपूर्वकेण संयोगेन कर्मानुमानमिति चेत्; तर्हि जलधरान्तरेण विभज्यमाने जलधरान्तरेण संयुज्यमाने कर्मानुमानं स्यात् । यदि च कार्येण जातेन प्रतीतेन व्याप्यतयाऽनुसंहितेन च कर्मानुमानम्; चलतीति वर्तमानबोधो न स्यात् , चिरनिवृत्तत्वात् तस्य । अस्माकं तु सत्ताक्षण एवेन्द्रियेण संबध्यते, तावतैव च पदार्थान्तरेष्विवात्रापि वर्तमानप्रत्ययोपपत्तिः । तदेवं प्रत्यक्षयोग्येषु प्रायशः प्रत्यक्षः चलतिधीविषयः । स च संप्रतिपन्नविभागपूर्वकसंयोगमात्ररूपो वा तत्कारणभूतोऽन्यो वेति सयूथ्यविवादः । तत्रैवमेकः पक्षः-कर्महेतुतयैवाभ्युपगतैः प्रयत्नादृष्टादिभिः कर्मजन्यतयाऽभ्युपगतविभागपूर्वकसंयोग एव जन्यताम् । न च मध्ये किमपि विशदमुपलब्धम् , येन गौरवपरिहारः स्यात् । चन्द्रतारकादीनां विभागपूर्वकसंयोगदृष्टावपि संयोगसन्ताननैरन्तर्याप्रतीतेः चलतीतिप्रत्ययाभावः । यथा भ्रमणे सत्यपि प्रत्येकं कर्मक्षणेषु न भ्रमतीति प्रत्ययः; किंतु निरन्तरतयाऽनुसन्धीयमानेष्विति भवद्भिरपि स्वीकार्यम् , तथाऽत्रापि सन्तोष्टव्यम् । न च कर्मणा संयुज्यत इति पृथग्व्यपदेशात् भेदसिद्धिः; कर्मशब्दनिर्दिष्टस्य पूर्वसंयोगविश्लेषस्यैवोत्तरसंयोगारम्भकत्वाद्मेदव्यपदेशोपपत्तेः । न चोत्तरसंयोगे स्थिरे वर्तमाने यावत्तद्विनाशकालं चलतीति प्रत्ययप्रसङ्गः; विभागपूर्वकसंयोगारम्भक्षणमात्रस्य क्षणिकनिरन्तरतत्सन्तानस्य वा कर्मत्वात् । उक्तं च न्यायतत्त्वे प्रथमाधिकरणे* यदि गमनपचनादीनां क्षणिकत्वं ज्ञायेत, नहि ते क्षणिकाः-संयोगवियोगविशेषत्वात्तेषाम् इत्यादि । द्वितीयाधिकरणे चोक्तम्-गमनं नाम देशाद्देशान्तरप्राप्तिः इति । प्रमातृपादे प्रसङ्गेनोक्तम्-* वयं तु क्रियायाः प्रत्यक्षत्वं ब्रूमः इत्युपक्रम्य * तस्माद्देशादेशान्तरप्राप्तिर्लिङ्गमिति न मन्यामहे, अपि तु तदेव तदिति मन्यामहे; कल्पनालाघवात् इत्यादि ।
यत्तु भट्टपराशरपादैरुक्तम् - * इन्द्रियैरयमानत्वात् ज्ञायमानोऽर्थ उच्यते । द्रव्यं जातिर्गुणः कमॆत्यसावर्थश्चतुर्विधः ॥ इति । तथा * जातिगुणकर्मसु सामान्यसमाश्रयणे संयुक्तसमवेतसमवायसंभवात् इत्यादि; तत्तु एतैरेव अन्तर्भावितसामान्यपृथग्गणनवत् । अत एव हि तैरेवोक्तम्-* द्रव्यस्य धर्मिणोऽन्तरङ्गो धर्मविशेषो जातिः । जात्यनुप्राणितस्य विशेषकः सिद्धो धर्मविशेषो गुणः । तथाविधः साध्यः क्रिया । तद्धर्मकं द्रव्यमिति स्थविष्ठानि लक्षणानि । सौक्ष्येण तु विवेक्ष्यन्ते प्रमेयेषु इति । अथान्यः पक्षः-न विभागपूर्वकसंयोग एवं कर्म; एकेन जलधरेण विभज्यमाने जलधरान्तरेण तेन वा पुनस्संयुज्यमाने शिलोच्चये चलतीति प्रत्ययप्रसङ्गात् । देशविभागसंयोगौ कर्मेति चेन्न; महाप्रवाहपतितनिष्कम्पमकरे चलतीतिप्रत्ययप्रसङ्गात् । न प्रवाहो देशः, किंत्वाकाशभूम्यादय इति चेत्; देशप्रतीतिव्यवहारयोः तत्रापि समत्वात् । स्थिरदेशसंयोगविभागौ कमेति चेत्; तर्हि स्थिरास्थिरविभागस्य संयोगाद्यतिरिक्तेन निर्वाह्यत्वात् सिद्धमतिरिक्तं कर्मेति । उक्तं च मानयाथात्म्यनिर्णये प्रत्यक्षलक्षणानन्तरं वरदविष्णुमित्रैः-* तच्च द्रव्यगुणकर्मविषयम् , सकलपदार्थजातस्य त्रिष्वेवान्तर्भावात् । तत्र द्रव्यलक्षणं संयोगीति, अकर्मासंयोगी गुण इति गुणलक्षणम् इत्यादि । प्रत्यक्षत्वं च कर्मणोऽन्यत्रापि तैरुक्तम्-* कर्मणस्तु चाक्षुषद्रव्यवर्तिनश्चाक्षुषत्वम् इत्यादिना । तच्च संयोगाद्यतिरिक्तमनतिरिक्तं वाऽस्तु, तृतीयकोट्यनुप्रवेशो न युक्त इति वयं मन्यामहे, इष्टव्यतिरेकेण लक्षणकरणस्य सर्वत्र शक्यत्वात् । यत्र सामान्यवत्त्वे सति संयोगविभागकार्यद्वयाभावः स गुण इति चेन्न; यत्र तदुभयाभावः स्वोत्पादकसजातीयोत्पादकत्वतद्विजीयत्वद्वयस्य चाभावः स गुण इति लक्षणकरणेन संस्कारस्यापि पृथक्करणप्रसङ्गात् । एवमन्यदपि चिन्त्यम् । अतो द्रव्यमद्रव्यमित्येव विभागः ॥