96 परत्वापरत्वयोः दिक्कालसम्बन्धविशेषत्वनिरूपणम्

परत्वापरत्वे ॥ दिक्कालापेक्षया परापरधीहेतुगुणौ परत्वापरत्वे इति परे । तेऽपि दिक्कालंसंबन्धविशेषात् नातिरिक्ते, लाघवात् । अप्रत्यक्षपदार्थसंयोगः कथं प्रत्यक्षः इति चेन्न; दिकालयोरपि प्रत्यक्षत्वस्य समर्थितत्वात् । यादृशोपाध्यवच्छिन्नदिक्कालसंबन्धः परत्वापरत्वोत्पादको भवताम् , तथाविध एव सोऽस्माकं व्यवहारविषय इति नातिप्रसङ्गगन्धोऽपि । यदि च व्यवहारनिर्वाहके सिद्धेऽपि परापरप्रत्ययमात्राद्गुणान्तरक्लप्तिः, परापरजातिपरापरपरिमाणपरापरज्ञानशक्त्यादिष्वपि तादृशगुणकल्पनप्रसङ्गः-अविशेषात् । न्यूनाधिकव्यक्तिवृत्तिन्यूनाधिकदेशावच्छेदादिभिस्तत्र निर्वाह इति चेत्; अत्रापि न्यूनाधिकदिक्कालसंबन्धात्तन्निर्वाह इत्युक्तमेव । भवद्भिरपि प्राक्त्वप्रत्यक्त्वादयः पूर्वोत्तरत्वादयो दिक्कालसंयोगमात्ररूपा निर्वाह्याः, तदत्र को नाम विशेषो दृष्टः? येन गुणान्तरकल्पने कुतूहलमत्रभवताम् । परत्वापरत्वे विना संयुक्तसंयोगभूयस्त्वाल्पीयस्त्वयोरेव दुर्निरूपत्वमिति चेत् , तबन्योन्याश्रयः–व्यावृत्ततया निरूपितयोरेव तयोः परत्वापरत्वनिमित्तत्वम् , तदुत्पन्नाभ्यामेव परत्वापरत्वाभ्यां तन्निरूपणमिति । अनिरूपितयोरेव तयोरुत्पादकत्वमिति चेत्; तारानिशाकरादिष्वपि तथा प्रत्ययः स्यात् । दूरत्वेनान्तरालाग्रहणात् नैवमिति चेत् : त्यज तर्हि सत्तया कारकत्वम् । तथा च सिद्धं नस्समीहितमिति । यत्तु प्रमेयसंग्रहे श्रीविष्णुचित्तैरुक्तम्-* दूरे कथमिति चेत्; तत्र कुशलमेव; घुमणिगगनादीतरव्यावृत्तमेव हि रूप परिमाणपृथक्त्वदेशकालकृतपरत्वापरत्वादि चेन्द्रिययोग्यं सर्वं सहैव ज्ञायते इति, तदपि न तत्त्वान्तरपरम्; विशिष्टप्रतिसंबन्धिमात्रपरमेव, वैशिष्टयस्य चास्मदुक्तप्रक्रिययाऽप्युपपत्तेः । उपादानमात्रस्य तत्त्वान्तरत्वप्रतिपादकत्वाभावात् । तथाहि; तत्रैवमुक्तम्-* अन्धकारे स्थाणुपिशाचस्त्रीपुंसादिसंशयास्तदवान्तरा एव । नक्तं हि घुमणिदीपमहीगगनस्वात्मादिव्यावृत्तिरपि न ज्ञायत इति न शक्यं वक्तुम् । न हि देहात्मभ्रममन्तरेण क्वचित् द्रष्टुदृश्यसङ्करोऽप्यस्ति इति । किमत्र पृथगुपादानमात्रेण स्थाणुपिशाचादयः पदार्थान्तरं भवन्ति । अस्तु वा परमतेन एकदेशिभेदेन वा व्यवहारः, तथाऽपि विशिष्टोपलम्भनप्रतिपादनपरत्वान्न दोषः ।