विभागः ॥ संयोगविरोधी गुणो विभाग इति परे । तदयुक्तम्; नोदनपाटनादीनामेव संयोगविध्वंसकत्वात् , विभागजनकतयाऽभ्युपगतानामेव तद्धसकत्वोपपत्तेः । न च संयोगजनकजातीयत्वादिनाऽनुकूलस्य कर्मादेस्तद्धंसकत्वमनुपपन्नमिति वाच्यम्; रूपादिजनकतयाऽभ्युपगताग्निसंयोगादिजातीयानां रूपादिनाशकत्वाभ्युपगमात् । स्वजन्यज्यक्तेरपि स्वनाश्यत्वमिष्टम् , किंपुनरन्यस्याः । उत्पाट्यमानघटादिषु शब्दोत्पादकतया कश्चिद्गणः कल्प्यते इति चेन्न; तत्रापि विभागजनकस्य पाटनादेरेव तज्जनकत्वोपपत्तेः, तस्य च संयोगविशेषरूपत्वात् । विभक्तप्रत्ययस्य च संयोगाभावविषयतयोपपत्तेः । तर्हि मेरुविन्ध्ययोरपि विभक्तप्रत्ययः किं न स्यादिति चेन्न; तस्य विध्वंसात्मकत्वात् । संयोगाभावमात्रनिबन्धनश्च विभक्तप्रत्ययस्तत्रापि केषांचित् जायते, उपचाराच्च तन्निर्वाहो भवतामपि । एवं कचित् स्वरूपभेदनिबन्धनो विभक्तप्रत्ययो निर्वाह्यः । क्षणिकस्य विभागस्य स्थिरध्वंसात्मकत्वं कथमिति चेन्न; तस्य परिभाषामन्तरेण क्षणिकत्वे प्रमाणाभावात् , प्रतियोगिस्मरणादौ तद्विभागवानयमिति प्रत्ययस्य यावत्पुनस्संयोगमुत्पत्तेः । प्रध्वंसात्मकत्वे पुनस्संयोगे सत्यपि विभक्तबुद्धिः स्यादिति चेन्न; भवतामपि पूर्वसंयोगप्रध्वंसस्य विद्यमानत्वेनासंयुक्तप्रत्ययप्रसङ्गात् । यावदुत्पन्नसंयोगध्वंसे सति तदातदा तत्तत्प्रतियोगिकतया तथा प्रतीतिरिति चेत्; तुल्यम् । द्रव्यद्वयनिष्ठतया प्रतीयमानस्य संयोगवत् गुणत्वमुचितमिति चेत्; अहो ! महावैशेषिकोऽसि । यदभावस्य प्रतियोग्याधारिणः स्वतोऽमिलितत्वमभ्युपगच्छतामेवमभिमन्यसे । उभयनिरूप्यप्रतियोगिकतया हि संयोगप्रध्वंसस्योभयनिष्ठत्वप्रत्ययोऽभ्युपगत एव भवद्भिः । असंयुक्ताविति संयोगप्रागभावात् । ननु ध्वंसोऽपि भावान्तरमेव भवतामिति शब्दान्तरेण विभागः स्वीकृत इति चेन्न; उत्तरसंयोगादिमात्रात्मकत्वात् । सजातीयस्यैव कथं विरोधित्वमिति चेत्; अभावनिरूपणं यावदेतच्चोद्यं मा स्म विस्मरः । प्रत्ययस्तु वियुक्तो विघटितो विश्लिष्टो विनष्टसंयोगो विभक्तो विप्रकृष्टो देशान्तरगत इति तुल्यरूप एव जायते । एतदखिलमभिसन्धायोक्तं न्यायतत्त्वे प्रमेयपादसप्तमाधिकरणे-* वियोगो न वक्तव्यः इति । तत्रैव पश्चादप्युक्तम्-* अत्यन्तसामीप्यं संयोगः, दूरत्वं वियोगः इति । अनेन संयोगोऽप्यपलपितः स्यादिति चेत् : सामीप्यस्य समीपदेशसंयोगात्मनैव निरूप्यत्वात् । तथा चादेशादेशिनोरविशेषेण द्वयोरपि संयोगसिद्धिः। दूरत्वमपि देशविशेषसंयोग एवेति न ततोऽतिरिक्तो विभाग इति ॥