94 पृथक्त्वस्य भेदमात्रत्वनिरूपणम्

पृथक्त्वम् ॥ पृथक्त्वं पृथग्व्यवहारकारणं पृथग्गुण इति काणादादयः । तदिदं भेदमात्रात् नातिरिच्यते । प्रत्ययस्य तावन्मात्रेण विश्रान्तः, कल्पकानां चान्यथासिद्धेः, भिन्नशब्देन च सहप्रयोगादर्शनात् । भेदावध्यवधिकतया द्रव्येष्विवाद्रव्येषु च पृथक्त्वधीव्यवहारदर्शनात् । सा भ्रान्तिरिति चेन्न; बाधकाभावात् । भेदशब्दार्थ एव पृथक्त्वाख्यगुणोऽस्त्विति चेन्न; तस्य स्वरूपसंस्थाननीलपीतादिभिर्निर्वाहात् । अपर्यायबुद्ध्यपाधिना तेषु सर्वेषु भेदशब्दव्युत्पत्तेः, स्वरूपादिशब्दवत् । तस्यैव चान्योन्याभावत्वात् । इदमिदं न भवतीत्यत्र अवधिनिरूप्यत्वमन्योन्याभावस्य न दृष्टमिति चेन्न; शब्दविशेषात् तथोपपत्तेः । पृथक्त्वाख्यगुणवाचकान्यशब्दपर्यायसंबन्धे पञ्चमी पाणिनेः विवक्षितेति चेत्; कथम्? अन्योन्याभावपर्यायविवक्षायां घटात् पटो न भवतीत्यपि प्रयोगप्रसङ्गादिति चेन्न; धर्मिपर्यन्तेष्विति विशेषात् । पृथक्त्वमिति निर्देशे कथमिति चेन्न; तस्यापि धर्मिणमुल्लिख्यैव धर्मबोधकत्वात् । अमानो नादयस्त्वसत्त्वे वर्तमाना नावध्याकाङ्क्षिणः । यद्वा तेषां समानाधिकरण एवावधिरिति सिद्धं भेदमात्रमेव पृथक्त्वमिति । उक्तं च भेदसमर्थनानन्तरं भट्टपराशरपादैः-* तदेवं क्लप्तैरेव द्रव्यजातिगुणकर्मभिर्धर्मरशेषाणामपुनरुक्तवित्तिव्याहारव्यवहाराणामुपपत्तेभेंदो नाम न धर्मान्तरमपूर्वं कल्प्यम् । अत एव वैशेषिकपरिक्लप्ताः पृथक्त्वविशेषादयोऽपि प्रोत्सारिताः इत्यादि । भेदस्य एकानेकगतत्वविकल्पपरिहारे चोक्तम्
* नीलिमश्वेतिमानावप्यनेकावेव धर्मिणम् । नीलं शुभं च भिन्दानौ स्फुटं छुपलभामहे ॥ ये विशेषपृथक्त्वादिसापेक्षं कल्पयन्ति ते । बिभ्यत्वात्माश्रयादिभ्यो न वयं दृष्टवादिनः ॥ इति ।
तदेवं स्वरूपधर्मी यथासंभवं पृथक्छब्देन भिन्नादिशब्देन च व्यपदिश्यते । उक्तं च न्यायतत्त्वे प्रमेयपादसप्तमाधिकरणे-* अतिरेकव्यतिरेकभेदेन द्विविधो भेदः इति । अत्रातिरेको धर्म्यन्तरेष्वसन् धर्मः । व्यतिरेको धर्मधादेः स्वरूपम् । यत्तु तस्मिन्नेवाधिकरणे-* ऐक्यं साकल्येन संयोगः, तदभावो भेदः इत्युक्तम् , तत् विभागाभिप्रायम् ॥