परिमाणम् ॥ परिणामप्रत्ययविषयः परिमाणम् । तच्चतुर्धा-अणुमहद्दोघहस्वभेदात् । चत्वार्यपि परिमाणानि प्रतियोगिनिरूपितवेषाण्येव-इदमितोऽणु इदमितो महदिदमितो हस्वं दीर्घमित्येव प्रतीतेः । अत्र च विभुद्रव्येषु परिमाणं नास्तीत्येके; अपरिमितप्रत्ययात् । उक्तं हि श्रीवेदार्थसंग्रहव्याख्यानेऽनन्तपदव्याख्यानदशायां श्रीराममित्रैः-* वस्तुपरिच्छेदो वस्तुनः परिमाणम् , देशपरिच्छेदस्तु तत्कार्यः इत्युक्त्वा * अपरिच्छेदस्तु न गुणः इत्यादि । उक्तं च भगवद्यामुनमुनिभिः आगमप्रामाण्ये पूर्वपक्षे-* यदपि वियति परिमाणमिह निदर्शितम् , तदपि विमर्शनीयमिव; परिमाणं हि नाम देशावच्छेदः-इयत्ता परितो भाववेष्टनमिति यावत् । न च नभसि तदस्तीति कथमिव तदिह निदर्शनतया निर्दिश्यते इति । अन्ये तु इत इदमधिकमित्येवरूपस्य परिमाणस्य तत्राप्युपपत्तेरस्त्येव तत्रापि परिमाणम् । अपरिमितव्यवहारस्तु सङ्कुचितपरिमाणप्रतिक्षेपपर इत्याहुः । इदं च परिमाणाख्यं गुणान्तरं विवरणकारादिभिः स्वीकृतम् । जन्माद्यधिकरणे विवरणेऽपि युक्तम्-* वस्तुपरिच्छेदो वस्तुपरिमाणम् , देशपरिच्छेदस्तु तद्धेतुकः इत्यादि । अथान्यत् मतम्-परिमाणमेव तत्त्वान्तरं नास्ति । तथा हि-देशव्याप्तिविशेष एव तत्तत्प्रतिसंबन्धिनिरूपितवेषेण तत्तत्परिमाणम् । तत्त्वान्तरवादिनाऽपि चैतत् परिमाणाविनाभूतमभ्युपगतम् । ततस्तदधिकस्वीकारे गौरवं भवेत् । ननु न तावत् देशसंयोगमात्रं परिमाणम् , अतिप्रसङ्गात् । ततोऽवच्छिन्नदेशविशेष इति वाच्यम् । न चावच्छेदो येनकेनापि, किंतु परिमाणविशेषविशिष्टेनेति वाच्यम् । अतस्तदुपजीविना देशावच्छेदेन तदपह्नवो न युज्यते । देशपरिमाणं च देशान्तराधीनमित्यनवस्था च स्यात् । तस्मात् स्थितं तत्त्वान्तरं परिमाणमिति, तन्न; एवं ह्यवच्छेदनिरूपणम्यसंयुक्तं देशं देशान्तरं च यद्युगपदाक्रमितुं शक्तं तत्ततोऽधिकपरिमाणम् , यत्संयुक्तं देशमखिलमेकदैव यदाक्रमितुं न शक्तं तत्ततो न्यूनपरिमाणमिति । तथा एकदिगार्जवावच्छेदेनाधिक्यं देयम् , तेनैव न्यूनभावो हस्वत्वम् , बहुदिगवच्छेदेनाधिक्यं महत्त्वम् , तेनैव न्यूनभावोऽणुत्वम् । न चैतदधिकमणुत्वमस्तीत्यणुनिराकरणादपि सिद्धम् । चतुर्विधमप्येतदेकस्मिन्नपि घटते । यथा स्तम्बविशेष एव स्तम्बान्तरापेक्षया स्थूलाणुत्वदीर्घह्रस्वत्वव्यवहार इति । एवं च सति नात्रावच्छेदके किञ्चित् परिमाणं निर्दिष्टम् येनोपजीव्यविरोधानवस्थादिदोषः स्यात् । एतेन देशस्यापि न्यूनाधिकत्वे व्याख्याते । न्यूनाधिकदेशसंयोगभेद एव स्वरूपातिरिक्तं परिमाणविशेषमन्तरेण न घटते इति चेन्न; राश्यादिषु दृष्टत्वात् । तत्र भागसंख्याधिक्यनिबन्धनः स इति चेन्न; तर्हि सर्वत्र तत एवास्तु । प्रशिथिलसंयोगवति समभागवत्त्वेऽपि परिमाणभेदो दृष्ट इति चेत्; सत्यम् । तथाऽपि प्रशिथिलसंयोगादेव परिमाणविशेषोत्पादकतयाऽभिमतात् तावद्देशव्याप्तिरेवास्तु । समूढप्रसारितचूर्णपुञ्जेऽपि हि तथा दृश्यते । एवं महत्त्वबहुत्वाभ्यामपि देशव्याप्तिविशेष एवारभ्यते; न ततोऽन्यदान्तरालिकमनुपलभ्यमानमिति । उक्तं च भगवद्यामुनमुनिभिः-* परिमाणं हि नाम देशावच्छेदः इति । भगवन्नाथमुनिभिरपि प्रमेयपादसप्तमाधिकरणे-* संख्यान्तर्भूतं परिमाणम् इत्याधुक्त्वाऽनन्तरं चोक्तम्-* दूरत्वं दैय॑म् , सामीप्यं ह्रस्वत्वम् , तिर्यग्दूरत्वं स्थौल्यम् , तिर्यक्सामीप्यं कार्यम् , स्वांशस्याग्रे स्वांशस्थितिरार्जवम् , स्वांशस्य स्वांशस्थितिर्वक्रता, एकदिक्स्थान्त्यावयवानां विरुद्धदिक्स्थान्त्यावयवदूरत्वसामीप्यसाम्यं वृत्तत्वम् , केवलविरुद्धदिगन्तांशेभ्यः कोणविरुद्धदिगन्तांशेभ्यः कोणविरुद्धदिगन्तांशानां दूरत्वसामीप्यसाम्यं चतुरश्रत्वम् इति । किंचिदन्तरमतिक्रम्य चोक्तम्-* अनेकव्याप्तिमहत्ता, तदभावो मन्दत्वम् इति । देशकालसंख्योन्मानादिसर्वसाधारणपरिमाणमात्रस्य च स्वरूपमुक्तम्-* समस्तभावतदात्मा परिमाणम् इति । अत्रेदं तत्त्वम्-आयामविस्तारघनभेदेन त्रिविधं परिमाणम् । यथासंभवं प्राक्प्रत्यग्दक्षिणोत्तरोधिःपर्यवसितं चैतत् । तत्र त्रिष्वपि दिग्द्वन्द्वेषु यत्राधिक्यं स आयामः यत्र मध्यमत्वं स विस्तारो यत्र न्यूनत्वं तद्धनमिति । त्रयाणामप्येषां सङ्करतारतम्यभेदात् बहुविधो व्यवहारः । विभुद्रव्येषु कात्यापेक्षायां परिमाणं नास्ति । तत्तदवच्छेदापेक्षायां यथासंभवं व्यवहार इति ॥