92 संख्याया अतिरिक्तत्वविचारः

संख्या ॥ अथ संख्या । एकद्विव्यादिप्रतिपत्तिव्यवहारविषयः संख्या । तां द्रव्यमात्रनिष्ठां केचिदाहुः । केचित्तु द्रव्यगुणादिसमस्तपदार्थवर्तिनीम् । द्रव्यमात्रनिष्ठावादिनश्च नित्यद्रव्येष्वेकत्वं नित्यम् , अनित्यद्रव्येष्ववयवगतैकत्वैर्जन्यम् , द्वित्वत्रित्वादयस्त्वपेक्षाबुद्धिसहकृतैः प्रत्येकवर्तिभिरेकत्वैर्जन्या इत्याहुः । तत्र तावद्वित्वादिव्यवहाराणां द्वित्वादिसामग्रयैव निष्पतिः; तत्तदपेक्षाबुद्धिविषयतयैव तेषां स्फुरणात् । द्वित्वादीनां बाह्यनिष्ठानामपि व्यवहर्तृनियमस्तत एव वाच्यः । अन्यथा साधारणोपलम्भप्रसङ्गाद्रूपादिवत् । ततस्तेनैव व्यवहारस्तन्नियमश्चेत्यस्मिन् पक्षे तूपपन्नतरम् । तादृशबुद्धिनिवृत्तौ च द्वित्वादिनिवृत्तिरभ्युपगता । एवं च कारणनिवृत्तिमात्रात् कार्यनिवृत्तिकल्पनं गरीयः । तादृशबुद्धिनिवृत्तिमात्राव्यवहाराभाव इति तूपपन्नतरम् । ननु बुद्धिविशेष एव तात्त्विकमारोपितं वा द्वित्वादिकमनाश्रित्य कथंचिदपि न घटते इति चेत्; भवतो वा कथं घटते? शक्तिविशेषादिति चेन्न; द्वित्वापलापापातात् । द्वित्वादिप्रागभावः शक्तिरिति चेन्न; द्वित्वत्रित्वादिसर्वप्रागभावसन्निधौ कस्य शक्तित्वमिति नियमासिद्धेः । ईश्वरबुद्धिपरिग्रहविशेषाददृष्टाद्वा नियम इति चेत्; तुल्यम् । निर्विषयव्यवहारप्रसङ्गो वैषम्यमिति चेन्न; विषयाभिधानात् । किं च द्वित्वादिषु प्रमाणसिद्धेषु तत्प्रागभावानां सहकारित्वकल्पनम् , तेषु च प्रमितेषु तन्नियमेन द्वित्वाद्युत्पत्तिप्रतिनियतिरिति दुरुत्तरम् । अतः सिद्धं द्वित्वादिसंख्या बुद्धिविशेषविषयत्वमिति ॥
एकत्वं चिन्त्यते । तत्र तावत् कार्यमेकत्वं नास्त्येव । अवयविन एवानभ्युपगमात् कुतस्तदैक्यम्? समुदायैकत्वं राश्येकत्ववत् । तत्रापि हि भागप्रधानव्यवहारेऽनेकत्वं व्यवहरन्ति । संहतिदशायामेकत्वावस्था जायते विभक्तदशायामनेकत्वावस्था चेति चेन्न; भेदाभेदविरोधप्रसङ्गात् , प्रत्ययस्य च संहतिविभागाभ्यामेवान्यथासिद्धत्वात् , स्वरूपस्य च वस्तुतो भेदाभेदविरुद्धत्वप्रसङ्गात् , पटावस्थायामेकतन्तूपलम्भप्रसङ्गाच्च । प्रलयावस्थायां प्रपञ्चैक्यं कथमिति चेत्; न कथंचित् । श्रुतिविरोधस्तीति चेन्न; भेदप्रहाणपरत्वात् । तदेवैक्यमिति चेन्न; प्रकृतित्वावस्थारूपत्वात् । यथा तृणोपलादिपरिणामकलायां पृथिवीतः पृथग्व्यवहारो जायते । तेषामेव परिणामान्तरमापन्नानां पुनः पृथिवीत्वव्यवहारः । न च तावता तृणोपलाद्यशानां परस्परं तावदैक्यम् , अथ महापृथिव्या वा । किं तर्हि विजातीयावस्थाप्रहाणेन सजातीयावस्थापत्तिमात्रम् । एवं प्रकृत्यादावपीति । चिन्त्यं निरवयवगतमैक्यमप्येवम् । तथाऽप्येकक्रियान्वयेन समप्रधानतया समुच्चीयमानवस्त्वन्तरप्रतिपत्तिविधुरवस्तुमात्रप्रतिपत्तिविषयत्वमेकत्वम् । एतेन अयमेकः, अयमप्येक इति
यवहारोऽपि नियूढः; समुच्चये सत्यपि एकक्रियान्वयित्वसमप्राधान्ययोरभावात् । न चात्रोपलम्भादिविरोधः, येन गौरवमपि सह्येत । तदेवं गुणादावपि तत्त्वान्तरमन्तरेणापि संख्या प्रतीयमाना समानाकारेण नियूंढा । उपलम्भसाम्येऽपि वैरूप्यकल्पनमत्रभवतामधिकम् । असंख्यातव्यवहारोऽपि एवंविधसंख्याप्रतिक्षेपकः, अन्यथा भवतोऽपि विरोधात् । ईश्वरादिबुद्ध्या सर्वसमुच्चयसद्भावेऽपि शतसहस्रायुतादिवदवच्छेदाभावादेवासंख्यातत्वमानन्त्यम् । अनन्तेष्वपि न्यूनाधिकभावो विद्यत एव, यथाऽतीतकल्पदिवसादिसमुदायादीनाम् , यथा च द्रव्यत्वपार्थिवत्वघटत्वादिव्यक्तीनाम् । यत्तु * एकत्वमेकसंख्यावच्छेदः इति भाष्यम् , तदपि न संख्यायास्तत्त्वान्तरत्वाभिसन्धिपूर्वकम् । निर्विशेषवस्तुवादिनं प्रति विशेषप्रसङ्गमात्रपरत्वात् , अस्मदुक्तसंख्याया अपि विशेषत्वाविशेषात् । यत्तु भगवद्यामुनमुनिभिरात्मसिद्धौ द्वित्वादेरपि यावदाश्रयभावित्वमुक्तम् , तदपि वैशेषिकप्रक्रियाबीभत्सामात्रादिति मन्यामहे । उक्तं हि भगवन्नाथमुनिभिः प्रमेयपादसप्तमाधिकरणे * संयोगान्तर्भूता संख्या इति, समस्ततदात्मा संख्या इति च । अस्यार्थ उच्यते-बुद्धिविशेषसंबन्धो हि संख्यात्वेनोपपादितः, स च संयोग एव । यद्वा सङ्घातैकत्वाद्यभिप्रायं तदिदं मन्तव्यम् । वरदविष्णुमिश्रादिभिस्तु आत्मसिद्धिवचनानुसारेणातिरिक्तसंख्याऽभ्युपगता । यथोक्तम्-*प्रत्यक्षाश्रयवर्तिसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्वत्वसादृश्यानि प्रत्यक्षाणि इति । गुणेषु च संख्यादिसद्भाव उक्तः-* गुणाश्रितसंख्यादीनां संयुक्ताश्रितत्वेन ग्रहणम् इति । एतदपि परमताभिप्रायेणेति मन्तव्यम् । यत्तु भट्टपराशरपादैः प्राकट्यनिराकरणादिप्रसङ्गेषु *संख्या तु द्वितीयक्षण एव ज्ञायते सा संख्या समवायिनोऽस्तीत्यविरोधः इत्यादिषु प्रदेशेषु संख्याभ्युपगमनं व्यवहृतम् , तत् किंस्वित् स्वाभ्युपगमेन, अथवा पराभ्युपगमेनेति न संविद्मः, प्रमेयनिरूपणविच्छेदात् ॥